Sūkta 82
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Vasu Bhāradvāja
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles virāḍjagatī (1, 4); nicṛjjagatī (2); jagatī (3); triṣṭup (5)
2nd set of styles jagatī (1-4); triṣṭubh (5)
-
Ṛk 1
असा॑वि॒ सोमो॑ अरु॒षो वृषा॒ हरी॒ राजे॑व द॒स्मो अ॒भि गा अ॑चिक्रदत् ।
पु॒ना॒नो वारं॒ पर्ये॑त्य॒व्ययं॑ श्ये॒नो न योनिं॑ घृ॒तवं॑तमा॒सदं॑ ॥असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् |
पुनानो वारम् पर्य् एत्य् अव्ययं श्येनो न योनिं घृतवन्तम् आसदम् ||ásāvi sómo aruṣó vṛ́ṣā hárī rā́jeva dasmó abhí gā́ acikradat ǀ
punānó vā́ram páryetyavyáyam śyenó ná yónim ghṛtávantamāsádam ǁasāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat |
punāno vāram pary ety avyayaṃ śyeno na yoniṃ ghṛtavantam āsadam ||असा॑वि । सोमः॑ । अ॒रु॒षः । वृषा॑ । हरिः॑ । राजा॑ऽइव । द॒स्मः । अ॒भि । गाः । अ॒चि॒क्र॒द॒त् ।
पु॒ना॒नः । वार॑म् । परि॑ । ए॒ति॒ । अ॒व्यय॑म् । श्ये॒नः । न । योनि॑म् । घृ॒तऽव॑न्तम् । आ॒ऽसद॑म् ॥असावि । सोमः । अरुषः । वृषा । हरिः । राजाऽइव । दस्मः । अभि । गाः । अचिक्रदत् ।
पुनानः । वारम् । परि । एति । अव्ययम् । श्येनः । न । योनिम् । घृतऽवन्तम् । आऽसदम् ॥ásāvi ǀ sómaḥ ǀ aruṣáḥ ǀ vṛ́ṣā ǀ háriḥ ǀ rā́jā-iva ǀ dasmáḥ ǀ abhí ǀ gā́ḥ ǀ acikradat ǀ
punānáḥ ǀ vā́ram ǀ pári ǀ eti ǀ avyáyam ǀ śyenáḥ ǀ ná ǀ yónim ǀ ghṛtá-vantam ǀ ā-sádam ǁasāvi ǀ somaḥ ǀ aruṣaḥ ǀ vṛṣā ǀ hariḥ ǀ rājā-iva ǀ dasmaḥ ǀ abhi ǀ gāḥ ǀ acikradat ǀ
punānaḥ ǀ vāram ǀ pari ǀ eti ǀ avyayam ǀ śyenaḥ ǀ na ǀ yonim ǀ ghṛta-vantam ǀ ā-sadam ǁ9.82.1 Aṣṭaka 7.3.7.1Anuvāka 9.4.102
-
Ṛk 2
क॒विर्वे॑ध॒स्या पर्ये॑षि॒ माहि॑न॒मत्यो॒ न मृ॒ष्टो अ॒भि वाज॑मर्षसि ।
अ॒प॒सेधं॑दुरि॒ता सो॑म मृळय घृ॒तं वसा॑नः॒ परि॑ यासि नि॒र्णिजं॑ ॥कविर् वेधस्या पर्य् एषि माहिनम् अत्यो न मृष्टो अभि वाजम् अर्षसि |
अपसेधन् दुरिता सोम मृऌअय घृतं वसानः परि यासि निर्णिजम् ||kavírvedhasyā́ páryeṣi mā́hinamátyo ná mṛṣṭó abhí vā́jamarṣasi ǀ
apasédhanduritā́ soma mṛḷaya ghṛtám vásānaḥ pári yāsi nirṇíjam ǁkavir vedhasyā pary eṣi māhinam atyo na mṛṣṭo abhi vājam arṣasi |
apasedhan duritā soma mṛḷaya ghṛtaṃ vasānaḥ pari yāsi nirṇijam ||क॒विः । वे॒ध॒स्या । परि॑ । ए॒षि॒ । माहि॑नम् । अत्यः॑ । न । मृ॒ष्टः । अ॒भि । वाज॑म् । अ॒र्ष॒सि॒ ।
अ॒प॒ऽसेध॑न् । दुः॒ऽइ॒ता । सो॒म॒ । मृ॒ळ॒य॒ । घृ॒तम् । वसा॑नः । परि॑ । या॒सि॒ । निः॒ऽनिज॑म् ॥कविः । वेधस्या । परि । एषि । माहिनम् । अत्यः । न । मृष्टः । अभि । वाजम् । अर्षसि ।
अपऽसेधन् । दुःऽइता । सोम । मृळय । घृतम् । वसानः । परि । यासि । निःऽनिजम् ॥kavíḥ ǀ vedhasyā́ ǀ pári ǀ eṣi ǀ mā́hinam ǀ átyaḥ ǀ ná ǀ mṛṣṭáḥ ǀ abhí ǀ vā́jam ǀ arṣasi ǀ
apa-sédhan ǀ duḥ-itā́ ǀ soma ǀ mṛḷaya ǀ ghṛtám ǀ vásānaḥ ǀ pári ǀ yāsi ǀ niḥ-níjam ǁkaviḥ ǀ vedhasyā ǀ pari ǀ eṣi ǀ māhinam ǀ atyaḥ ǀ na ǀ mṛṣṭaḥ ǀ abhi ǀ vājam ǀ arṣasi ǀ
apa-sedhan ǀ duḥ-itā ǀ soma ǀ mṛḷaya ǀ ghṛtam ǀ vasānaḥ ǀ pari ǀ yāsi ǀ niḥ-nijam ǁ9.82.2 Aṣṭaka 7.3.7.2Anuvāka 9.4.103
-
Ṛk 3
प॒र्जन्यः॑ पि॒ता म॑हि॒षस्य॑ प॒र्णिनो॒ नाभा॑ पृथि॒व्या गि॒रिषु॒ क्षयं॑ दधे ।
स्वसा॑र॒ आपो॑ अ॒भि गा उ॒तास॑र॒न्त्सं ग्राव॑भिर्नसते वी॒ते अ॑ध्व॒रे ॥पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे |
स्वसार आपो अभि गा उतासरन् सं ग्रावभिर् नसते वीते अध्वरे ||parjányaḥ pitā́ mahiṣásya parṇíno nā́bhā pṛthivyā́ giríṣu kṣáyam dadhe ǀ
svásāra ā́po abhí gā́ utā́sarantsám grā́vabhirnasate vīté adhvaré ǁparjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣu kṣayaṃ dadhe |
svasāra āpo abhi gā utāsaran saṃ grāvabhir nasate vīte adhvare ||प॒र्जन्यः॑ । पि॒ता । म॒हि॒षस्य॑ । प॒र्णिनः॑ । नाभा॑ । पृ॒थि॒व्याः । गि॒रिषु॑ । क्षय॑म् । द॒धे॒ ।
स्वसा॑रः । आपः॑ । अ॒भि । गाः । उ॒त । अ॒स॒र॒न् । सम् । ग्राव॑ऽभिः । न॒स॒ते॒ । वी॒ते । अ॒ध्व॒रे ॥पर्जन्यः । पिता । महिषस्य । पर्णिनः । नाभा । पृथिव्याः । गिरिषु । क्षयम् । दधे ।
स्वसारः । आपः । अभि । गाः । उत । असरन् । सम् । ग्रावऽभिः । नसते । वीते । अध्वरे ॥parjányaḥ ǀ pitā́ ǀ mahiṣásya ǀ parṇínaḥ ǀ nā́bhā ǀ pṛthivyā́ḥ ǀ giríṣu ǀ kṣáyam ǀ dadhe ǀ
svásāraḥ ǀ ā́paḥ ǀ abhí ǀ gā́ḥ ǀ utá ǀ asaran ǀ sám ǀ grā́va-bhiḥ ǀ nasate ǀ vīté ǀ adhvaré ǁparjanyaḥ ǀ pitā ǀ mahiṣasya ǀ parṇinaḥ ǀ nābhā ǀ pṛthivyāḥ ǀ giriṣu ǀ kṣayam ǀ dadhe ǀ
svasāraḥ ǀ āpaḥ ǀ abhi ǀ gāḥ ǀ uta ǀ asaran ǀ sam ǀ grāva-bhiḥ ǀ nasate ǀ vīte ǀ adhvare ǁ9.82.3 Aṣṭaka 7.3.7.3Anuvāka 9.4.104
-
Ṛk 4
जा॒येव॒ पत्या॒वधि॒ शेव॑ मंहसे॒ पज्रा॑या गर्भ शृणु॒हि ब्रवी॑मि ते ।
अं॒तर्वाणी॑षु॒ प्र च॑रा॒ सु जी॒वसे॑ऽनिं॒द्यो वृ॒जने॑ सोम जागृहि ॥जायेव पत्याव् अधि शेव मंहसे पज्राया गर्भ शृणुहि ब्रवीमि ते |
अन्तर् वाणीषु प्र चरा सु जीवसे ऽनिन्द्यो वृजने सोम जागृहि ||jāyéva pátyāvádhi śéva maṃhase pájrāyā garbha śṛṇuhí brávīmi te ǀ
antárvā́ṇīṣu prá carā sú jīváse’nindyó vṛjáne soma jāgṛhi ǁjāyeva patyāv adhi śeva maṃhase pajrāyā garbha śṛṇuhi bravīmi te |
antar vāṇīṣu pra carā su jīvase 'nindyo vṛjane soma jāgṛhi ||जा॒याऽइ॑व । पत्यौ॑ । अधि॑ । शेव॑ । मं॒ह॒से॒ । पज्रा॑याः । ग॒र्भ॒ । शृ॒णु॒हि । ब्रवी॑मि । ते॒ ।
अ॒न्तः । वाणी॑षु । प्र । च॒र॒ । सु । जी॒वसे॑ । अ॒नि॒न्द्यः । वृ॒जने॑ । सो॒म॒ । जा॒गृ॒हि॒ ॥जायाऽइव । पत्यौ । अधि । शेव । मंहसे । पज्रायाः । गर्भ । शृणुहि । ब्रवीमि । ते ।
अन्तः । वाणीषु । प्र । चर । सु । जीवसे । अनिन्द्यः । वृजने । सोम । जागृहि ॥jāyā́-iva ǀ pátyau ǀ ádhi ǀ śéva ǀ maṃhase ǀ pájrāyāḥ ǀ garbha ǀ śṛṇuhí ǀ brávīmi ǀ te ǀ
antáḥ ǀ vā́ṇīṣu ǀ prá ǀ cara ǀ sú ǀ jīváse ǀ anindyáḥ ǀ vṛjáne ǀ soma ǀ jāgṛhi ǁjāyā-iva ǀ patyau ǀ adhi ǀ śeva ǀ maṃhase ǀ pajrāyāḥ ǀ garbha ǀ śṛṇuhi ǀ bravīmi ǀ te ǀ
antaḥ ǀ vāṇīṣu ǀ pra ǀ cara ǀ su ǀ jīvase ǀ anindyaḥ ǀ vṛjane ǀ soma ǀ jāgṛhi ǁ9.82.4 Aṣṭaka 7.3.7.4Anuvāka 9.4.105
-
Ṛk 5
यथा॒ पूर्वे॑भ्यः शत॒सा अमृ॑ध्रः सहस्र॒साः प॒र्यया॒ वाज॑मिंदो ।
ए॒वा प॑वस्व सुवि॒ताय॒ नव्य॑से॒ तव॑ व्र॒तमन्वापः॑ सचंते ॥यथा पूर्वेभ्यः शतसा अमृध्रः सहस्रसाः पर्यया वाजम् इन्दो |
एवा पवस्व सुविताय नव्यसे तव व्रतम् अन्व् आपः सचन्ते ||yáthā pū́rvebhyaḥ śatasā́ ámṛdhraḥ sahasrasā́ḥ paryáyā vā́jamindo ǀ
evā́ pavasva suvitā́ya návyase táva vratámánvā́paḥ sacante ǁyathā pūrvebhyaḥ śatasā amṛdhraḥ sahasrasāḥ paryayā vājam indo |
evā pavasva suvitāya navyase tava vratam anv āpaḥ sacante ||यथा॑ । पूर्वे॑भ्यः । श॒त॒ऽसाः । अमृ॑ध्रः । स॒ह॒स्र॒ऽसाः । प॒रि॒ऽअयाः॑ । वाज॑म् । इ॒न्दो॒ इति॑ ।
ए॒व । प॒व॒स्व॒ । सु॒वि॒ताय॑ । नव्य॑से । तव॑ । व्र॒तम् । अनु॑ । आपः॑ । स॒च॒न्ते॒ ॥यथा । पूर्वेभ्यः । शतऽसाः । अमृध्रः । सहस्रऽसाः । परिऽअयाः । वाजम् । इन्दो इति ।
एव । पवस्व । सुविताय । नव्यसे । तव । व्रतम् । अनु । आपः । सचन्ते ॥yáthā ǀ pū́rvebhyaḥ ǀ śata-sā́ḥ ǀ ámṛdhraḥ ǀ sahasra-sā́ḥ ǀ pari-áyāḥ ǀ vā́jam ǀ indo íti ǀ
evá ǀ pavasva ǀ suvitā́ya ǀ návyase ǀ táva ǀ vratám ǀ ánu ǀ ā́paḥ ǀ sacante ǁyathā ǀ pūrvebhyaḥ ǀ śata-sāḥ ǀ amṛdhraḥ ǀ sahasra-sāḥ ǀ pari-ayāḥ ǀ vājam ǀ indo iti ǀ
eva ǀ pavasva ǀ suvitāya ǀ navyase ǀ tava ǀ vratam ǀ anu ǀ āpaḥ ǀ sacante ǁ9.82.5 Aṣṭaka 7.3.7.5Anuvāka 9.4.106
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.