Ṛgveda · Maṇḍala 9 · Sūkta 82

Ṛk 9.82.4

Soma Pavamāna · Vasu Bhāradvāja

The whole sūkta Link

Saṃhitā

जा॒येव॒ पत्या॒वधि॒ शेव॑ मंहसे॒ पज्रा॑या गर्भ शृणु॒हि ब्रवी॑मि ते ।
अं॒तर्वाणी॑षु॒ प्र च॑रा॒ सु जी॒वसे॑ऽनिं॒द्यो वृ॒जने॑ सोम जागृहि ॥

जायेव पत्याव् अधि शेव मंहसे पज्राया गर्भ शृणुहि ब्रवीमि ते |
अन्तर् वाणीषु प्र चरा सु जीवसे ऽनिन्द्यो वृजने सोम जागृहि ||

jāyéva pátyāvádhi śéva maṃhase pájrāyā garbha śṛṇuhí brávīmi te ǀ
antárvā́ṇīṣu prá carā sú jīváse’nindyó vṛjáne soma jāgṛhi ǁ

jāyeva patyāv adhi śeva maṃhase pajrāyā garbha śṛṇuhi bravīmi te |
antar vāṇīṣu pra carā su jīvase 'nindyo vṛjane soma jāgṛhi ||

Padapāṭha

जा॒याऽइ॑व । पत्यौ॑ । अधि॑ । शेव॑ । मं॒ह॒से॒ । पज्रा॑याः । ग॒र्भ॒ । शृ॒णु॒हि । ब्रवी॑मि । ते॒ ।
अ॒न्तः । वाणी॑षु । प्र । च॒र॒ । सु । जी॒वसे॑ । अ॒नि॒न्द्यः । वृ॒जने॑ । सो॒म॒ । जा॒गृ॒हि॒ ॥

जायाऽइव । पत्यौ । अधि । शेव । मंहसे । पज्रायाः । गर्भ । शृणुहि । ब्रवीमि । ते ।
अन्तः । वाणीषु । प्र । चर । सु । जीवसे । अनिन्द्यः । वृजने । सोम । जागृहि ॥

jāyā́-iva ǀ pátyau ǀ ádhi ǀ śéva ǀ maṃhase ǀ pájrāyāḥ ǀ garbha ǀ śṛṇuhí ǀ brávīmi ǀ te ǀ
antáḥ ǀ vā́ṇīṣu ǀ prá ǀ cara ǀ sú ǀ jīváse ǀ anindyáḥ ǀ vṛjáne ǀ soma ǀ jāgṛhi ǁ

jāyā-iva ǀ patyau ǀ adhi ǀ śeva ǀ maṃhase ǀ pajrāyāḥ ǀ garbha ǀ śṛṇuhi ǀ bravīmi ǀ te ǀ
antaḥ ǀ vāṇīṣu ǀ pra ǀ cara ǀ su ǀ jīvase ǀ anindyaḥ ǀ vṛjane ǀ soma ǀ jāgṛhi ǁ

References

Maṇḍala · Sūkta · Ṛk
09.082.04
Aṣṭaka · Adhyāya · Varga · Ṛk
7.3.07.04
Maṇḍala · Anuvāka · Ṛk
09.04.105
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
Vasu Bhāradvāja
Chandas छन्दस्
Jagatī, Triṣṭubh
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.82.4

Interpretations

Sāyaṇa

जायेवपत्यौ जाया यथा स्वभार्या भर्तरि सुखंप्रयच्छति तद्वत् । शेव शेवं द्वितीयाया- आम् भावाभावश्छान्दसः सुखं मंहसे प्रयच्छसि यजमाने । हे पज्रायाः गर्भ सोम शृणुहि शृणु स्तुतीः यास्तेतुभ्यं ब्रवीमि । पजिर्गतिकर्मा । पज्रापृथिवीत्याहुः अपिवा माध्यमिकावक् पज्रा भूमावोषधिरूपेण जातत्वाद्गर्भत्वं माध्यमिकायावचोपि वृष्टिसाधनत्वात्तत्पुत्रत्वं । सत्वं वाणीषु वाक्षु स्तुतिष्वन्तर्मध्ये सुसुष्ठु प्रचर जीवसेस्माकं जीवनाय हे सोम अनि- न्द्यः स्तुत्यस्त्वं वृजनेस्माकं शत्रुबले जागृहि बुद्धोभव ॥ ४ ॥