Sūkta 55
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Avatsāra Kāśyapa
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 2); nicṛdgāyatrī (3, 4)
2nd set of styles gāyatrī
-
Ṛk 1
यवं॑यवं नो॒ अंध॑सा पु॒ष्टंपु॑ष्टं॒ परि॑ स्रव ।
सोम॒ विश्वा॑ च॒ सौभ॑गा ॥यवं-यवं नो अन्धसा पुष्टम्-पुष्टम् परि स्रव |
सोम विश्वा च सौभगा ||yávaṃyavam no ándhasā puṣṭámpuṣṭam pári srava ǀ
sóma víśvā ca sáubhagā ǁyavaṃ-yavaṃ no andhasā puṣṭam-puṣṭam pari srava |
soma viśvā ca saubhagā ||यव॑म्ऽयवम् । नः॒ । अन्ध॑सा । पु॒ष्टम्ऽपु॑ष्टम् । परि॑ । स्र॒व॒ ।
सोम॑ । विश्वा॑ । च॒ । सौभ॑गा ॥यवम्ऽयवम् । नः । अन्धसा । पुष्टम्ऽपुष्टम् । परि । स्रव ।
सोम । विश्वा । च । सौभगा ॥yávam-yavam ǀ naḥ ǀ ándhasā ǀ puṣṭám-puṣṭam ǀ pári ǀ srava ǀ
sóma ǀ víśvā ǀ ca ǀ sáubhagā ǁyavam-yavam ǀ naḥ ǀ andhasā ǀ puṣṭam-puṣṭam ǀ pari ǀ srava ǀ
soma ǀ viśvā ǀ ca ǀ saubhagā ǁ9.55.1 Aṣṭaka 7.1.12.1Anuvāka 9.2.171
-
Ṛk 2
इंदो॒ यथा॒ तव॒ स्तवो॒ यथा॑ ते जा॒तमंध॑सः ।
नि ब॒र्हिषि॑ प्रि॒ये स॑दः ॥इन्दो यथा तव स्तवो यथा ते जातम् अन्धसः |
नि बर्हिषि प्रिये सदः ||índo yáthā táva stávo yáthā te jātámándhasaḥ ǀ
ní barhíṣi priyé sadaḥ ǁindo yathā tava stavo yathā te jātam andhasaḥ |
ni barhiṣi priye sadaḥ ||इन्दो॒ इति॑ । यथा॑ । तव॑ । स्तवः॑ । यथा॑ । ते॒ । जा॒तम् । अन्ध॑सः ।
नि । ब॒र्हिषि॑ । प्रि॒ये । स॒दः॒ ॥इन्दो इति । यथा । तव । स्तवः । यथा । ते । जातम् । अन्धसः ।
नि । बर्हिषि । प्रिये । सदः ॥índo íti ǀ yáthā ǀ táva ǀ stávaḥ ǀ yáthā ǀ te ǀ jātám ǀ ándhasaḥ ǀ
ní ǀ barhíṣi ǀ priyé ǀ sadaḥ ǁindo iti ǀ yathā ǀ tava ǀ stavaḥ ǀ yathā ǀ te ǀ jātam ǀ andhasaḥ ǀ
ni ǀ barhiṣi ǀ priye ǀ sadaḥ ǁ9.55.2 Aṣṭaka 7.1.12.2Anuvāka 9.2.172
-
Ṛk 3
उ॒त नो॑ गो॒विद॑श्व॒वित्पव॑स्व सो॒मांध॑सा ।
म॒क्षूत॑मेभि॒रह॑भिः ॥उत नो गोविद् अश्ववित् पवस्व सोमान्धसा |
मक्षूतमेभिर् अहभिः ||utá no govídaśvavítpávasva somā́ndhasā ǀ
makṣū́tamebhiráhabhiḥ ǁuta no govid aśvavit pavasva somāndhasā |
makṣūtamebhir ahabhiḥ ||उ॒त । नः॒ । गो॒ऽवित् । अ॒श्व॒ऽवित् । पव॑स्व । सो॒म॒ । अन्ध॑सा ।
म॒क्षुऽत॑मेभिः । अह॑ऽभिः ॥उत । नः । गोऽवित् । अश्वऽवित् । पवस्व । सोम । अन्धसा ।
मक्षुऽतमेभिः । अहऽभिः ॥utá ǀ naḥ ǀ go-vít ǀ aśva-vít ǀ pávasva ǀ soma ǀ ándhasā ǀ
makṣú-tamebhiḥ ǀ áha-bhiḥ ǁuta ǀ naḥ ǀ go-vit ǀ aśva-vit ǀ pavasva ǀ soma ǀ andhasā ǀ
makṣu-tamebhiḥ ǀ aha-bhiḥ ǁ9.55.3 Aṣṭaka 7.1.12.3Anuvāka 9.2.173
-
Ṛk 4
यो जि॒नाति॒ न जीय॑ते॒ हंति॒ शत्रु॑म॒भीत्य॑ ।
स प॑वस्व सहस्रजित् ॥यो जिनाति न जीयते हन्ति शत्रुम् अभीत्य |
स पवस्व सहस्रजित् ||yó jinā́ti ná jī́yate hánti śátrumabhī́tya ǀ
sá pavasva sahasrajit ǁyo jināti na jīyate hanti śatrum abhītya |
sa pavasva sahasrajit ||यः । जि॒नाति॑ । न । जीय॑ते । हन्ति॑ । शत्रु॑म् । अ॒भि॒ऽइत्य॑ ।
सः । प॒व॒स्व॒ । स॒ह॒स्र॒ऽजि॒त् ॥यः । जिनाति । न । जीयते । हन्ति । शत्रुम् । अभिऽइत्य ।
सः । पवस्व । सहस्रऽजित् ॥yáḥ ǀ jinā́ti ǀ ná ǀ jī́yate ǀ hánti ǀ śátrum ǀ abhi-ítya ǀ
sáḥ ǀ pavasva ǀ sahasra-jit ǁyaḥ ǀ jināti ǀ na ǀ jīyate ǀ hanti ǀ śatrum ǀ abhi-itya ǀ
saḥ ǀ pavasva ǀ sahasra-jit ǁ9.55.4 Aṣṭaka 7.1.12.4Anuvāka 9.2.174
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.