Ṛgveda · Maṇḍala 9 · Sūkta 89

Ṛk 9.89.6

Soma Pavamāna · Uśanas Kāvya

The whole sūkta Link

Saṃhitā

वि॒ष्टं॒भो दि॒वो ध॒रुणः॑ पृथि॒व्या विश्वा॑ उ॒त क्षि॒तयो॒ हस्ते॑ अस्य ।
अस॑त्त॒ उत्सो॑ गृण॒ते नि॒युत्वा॒न्मध्वो॑ अं॒शुः प॑वत इंद्रि॒याय॑ ॥

विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य |
असत् त उत्सो गृणते नियुत्वान् मध्वो अंशुः पवत इन्द्रियाय ||

viṣṭambhó divó dharúṇaḥ pṛthivyā́ víśvā utá kṣitáyo háste asya ǀ
ásatta útso gṛṇaté niyútvānmádhvo aṃśúḥ pavata indriyā́ya ǁ

viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya |
asat ta utso gṛṇate niyutvān madhvo aṃśuḥ pavata indriyāya ||

Padapāṭha

वि॒ष्ट॒म्भः । दि॒वः । ध॒रुणः॑ । पृ॒थि॒व्याः । विश्वाः॑ । उ॒त । क्षि॒तयः॑ । हस्ते॑ । अ॒स्य॒ ।
अस॑त् । ते॒ । उत्सः॑ । गृ॒ण॒ते । नि॒युत्वा॑न् । मध्वः॑ । अं॒शुः । प॒व॒ते॒ । इ॒न्द्रि॒याय॑ ॥

विष्टम्भः । दिवः । धरुणः । पृथिव्याः । विश्वाः । उत । क्षितयः । हस्ते । अस्य ।
असत् । ते । उत्सः । गृणते । नियुत्वान् । मध्वः । अंशुः । पवते । इन्द्रियाय ॥

viṣṭambháḥ ǀ diváḥ ǀ dharúṇaḥ ǀ pṛthivyā́ḥ ǀ víśvāḥ ǀ utá ǀ kṣitáyaḥ ǀ háste ǀ asya ǀ
ásat ǀ te ǀ útsaḥ ǀ gṛṇaté ǀ niyútvān ǀ mádhvaḥ ǀ aṃśúḥ ǀ pavate ǀ indriyā́ya ǁ

viṣṭambhaḥ ǀ divaḥ ǀ dharuṇaḥ ǀ pṛthivyāḥ ǀ viśvāḥ ǀ uta ǀ kṣitayaḥ ǀ haste ǀ asya ǀ
asat ǀ te ǀ utsaḥ ǀ gṛṇate ǀ niyutvān ǀ madhvaḥ ǀ aṃśuḥ ǀ pavate ǀ indriyāya ǁ

References

Maṇḍala · Sūkta · Ṛk
09.089.06
Aṣṭaka · Adhyāya · Varga · Ṛk
7.3.25.06
Maṇḍala · Anuvāka · Ṛk
09.05.071
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
Uśanas Kāvya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.89.6

Interpretations

Sāyaṇa

अयं सोमोदिवोद्युलोकस्य विष्टंभभूतः यथा गृहस्यस्तंभः तद्वत् तथा पृथिव्याधरुणो- धारकः उतापिच विश्वाः सर्वाः क्षितयः प्रजाः अस्यसोमस्य हस्तेभवन्ति उत्सः उत्सरंत्य स्मात्कामाइत्युत्सः सोमः सगृणत्ते स्तुवते ते तुभ्यं नियुत्वानश्ववान् असत् भवतु । ससो- मोमध्वः मधु कर्मणिषष्ठी मधुररसः अंशुः सोमः । अंशुःशमष्टमात्रोभवती तियास्कः । य- इन्द्रियाय पवते पूयतेभिषूयते ॥ ६ ॥