Ṛk 9.92.1
Saṃhitā
परि॑ सुवा॒नो हरि॑रं॒शुः प॒वित्रे॒ रथो॒ न स॑र्जि स॒नये॑ हिया॒नः ।
आप॒च्छ्लोक॑मिंद्रि॒यं पू॒यमा॑नः॒ प्रति॑ दे॒वाँ अ॑जुषत॒ प्रयो॑भिः ॥
परि सुवानो हरिर् अंशुः पवित्रे रथो न सर्जि सनये हियानः |
आपच् छ्लोकम् इन्द्रियम् पूयमानः प्रति देवां अजुषत प्रयोभिः ||
pári suvānó háriraṃśúḥ pavítre rátho ná sarji sanáye hiyānáḥ ǀ
ā́pacchlókamindriyám pūyámānaḥ práti devā́m̐ ajuṣata práyobhiḥ ǁ
pari suvāno harir aṃśuḥ pavitre ratho na sarji sanaye hiyānaḥ |
āpac chlokam indriyam pūyamānaḥ prati devāṃ ajuṣata prayobhiḥ ||
Padapāṭha
परि॑ । सु॒वा॒नः । हरिः॑ । अं॒शुः । प॒वित्रे॑ । रथः॑ । न । स॒र्जि॒ । स॒नये॑ । हि॒या॒नः ।
आप॑त् । श्लोक॑म् । इ॒न्द्रि॒यम् । पू॒यमा॑नः । प्रति॑ । दे॒वान् । अ॒जु॒ष॒त॒ । प्रयः॑ऽभिः ॥
परि । सुवानः । हरिः । अंशुः । पवित्रे । रथः । न । सर्जि । सनये । हियानः ।
आपत् । श्लोकम् । इन्द्रियम् । पूयमानः । प्रति । देवान् । अजुषत । प्रयःऽभिः ॥
pári ǀ suvānáḥ ǀ háriḥ ǀ aṃśúḥ ǀ pavítre ǀ ráthaḥ ǀ ná ǀ sarji ǀ sanáye ǀ hiyānáḥ ǀ
ā́pat ǀ ślókam ǀ indriyám ǀ pūyámānaḥ ǀ práti ǀ devā́n ǀ ajuṣata ǀ práyaḥ-bhiḥ ǁ
pari ǀ suvānaḥ ǀ hariḥ ǀ aṃśuḥ ǀ pavitre ǀ rathaḥ ǀ na ǀ sarji ǀ sanaye ǀ hiyānaḥ ǀ
āpat ǀ ślokam ǀ indriyam ǀ pūyamānaḥ ǀ prati ǀ devān ǀ ajuṣata ǀ prayaḥ-bhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.092.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.4.02.01
- Maṇḍala · Anuvāka · Ṛk
- 09.05.085
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Kaśyapa Mārīca
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.