Ṛk 9.68.2
Saṃhitā
स रोरु॑वद॒भि पूर्वा॑ अचिक्रददुपा॒रुहः॑ श्र॒थय॑न्त्स्वादते॒ हरिः॑ ।
ति॒रः प॒वित्रं॑ परि॒यन्नु॒रु ज्रयो॒ नि शर्या॑णि दधते दे॒व आ वरं॑ ॥
स रोरुवद् अभि पूर्वा अचिक्रदद् उपारुहः श्रथयन् स्वादते हरिः |
तिरः पवित्रम् परियन्न् उरु ज्रयो नि शर्याणि दधते देव आ वरम् ||
sá róruvadabhí pū́rvā acikradadupārúhaḥ śratháyantsvādate háriḥ ǀ
tiráḥ pavítram pariyánnurú jráyo ní śáryāṇi dadhate devá ā́ váram ǁ
sa roruvad abhi pūrvā acikradad upāruhaḥ śrathayan svādate hariḥ |
tiraḥ pavitram pariyann uru jrayo ni śaryāṇi dadhate deva ā varam ||
Padapāṭha
सः । रोरु॑वत् । अ॒भि । पूर्वाः॑ । अ॒चि॒क्र॒द॒त् । उ॒प॒ऽआ॒रुहः॑ । श्र॒थय॑न् । स्वा॒द॒ते॒ । हरिः॑ ।
ति॒रः । प॒वित्र॑म् । प॒रि॒ऽयन् । उ॒रु । ज्रयः॑ । नि । शर्या॑णि । द॒ध॒ते॒ । दे॒वः । आ । वर॑म् ॥
सः । रोरुवत् । अभि । पूर्वाः । अचिक्रदत् । उपऽआरुहः । श्रथयन् । स्वादते । हरिः ।
तिरः । पवित्रम् । परिऽयन् । उरु । ज्रयः । नि । शर्याणि । दधते । देवः । आ । वरम् ॥
sáḥ ǀ róruvat ǀ abhí ǀ pū́rvāḥ ǀ acikradat ǀ upa-ārúhaḥ ǀ śratháyan ǀ svādate ǀ háriḥ ǀ
tiráḥ ǀ pavítram ǀ pari-yán ǀ urú ǀ jráyaḥ ǀ ní ǀ śáryāṇi ǀ dadhate ǀ deváḥ ǀ ā́ ǀ váram ǁ
saḥ ǀ roruvat ǀ abhi ǀ pūrvāḥ ǀ acikradat ǀ upa-āruhaḥ ǀ śrathayan ǀ svādate ǀ hariḥ ǀ
tiraḥ ǀ pavitram ǀ pari-yan ǀ uru ǀ jrayaḥ ǀ ni ǀ śaryāṇi ǀ dadhate ǀ devaḥ ǀ ā ǀ varam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.068.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.2.19.02
- Maṇḍala · Anuvāka · Ṛk
- 09.04.002
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Vatsaprī Bhālandana
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.