Ṛk 9.56.1
Saṃhitā
परि॒ सोम॑ ऋ॒तं बृ॒हदा॒शुः प॒वित्रे॑ अर्षति ।
वि॒घ्नन्रक्षां॑सि देव॒युः ॥
परि सोम ऋतम् बृहद् आशुः पवित्रे अर्षति |
विघ्नन् रक्षांसि देवयुः ||
pári sóma ṛtám bṛhádāśúḥ pavítre arṣati ǀ
vighnánrákṣāṃsi devayúḥ ǁ
pari soma ṛtam bṛhad āśuḥ pavitre arṣati |
vighnan rakṣāṃsi devayuḥ ||
Padapāṭha
परि॑ । सोमः॑ । ऋ॒तम् । बृ॒हत् । आ॒शुः । प॒वित्रे॑ । अ॒र्ष॒ति॒ ।
वि॒ऽघ्नन् । रक्षां॑सि । दे॒व॒ऽयुः ॥
परि । सोमः । ऋतम् । बृहत् । आशुः । पवित्रे । अर्षति ।
विऽघ्नन् । रक्षांसि । देवऽयुः ॥
pári ǀ sómaḥ ǀ ṛtám ǀ bṛhát ǀ āśúḥ ǀ pavítre ǀ arṣati ǀ
vi-ghnán ǀ rákṣāṃsi ǀ deva-yúḥ ǁ
pari ǀ somaḥ ǀ ṛtam ǀ bṛhat ǀ āśuḥ ǀ pavitre ǀ arṣati ǀ
vi-ghnan ǀ rakṣāṃsi ǀ deva-yuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.056.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.1.13.01
- Maṇḍala · Anuvāka · Ṛk
- 09.02.175
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Avatsāra Kāśyapa
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.