Ṛk 9.87.1
Saṃhitā
प्र तु द्र॑व॒ परि॒ कोशं॒ नि षी॑द॒ नृभिः॑ पुना॒नो अ॒भि वाज॑मर्ष ।
अश्वं॒ न त्वा॑ वा॒जिनं॑ म॒र्जयं॒तोऽच्छा॑ ब॒र्ही र॑श॒नाभि॑र्नयंति ॥
प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजम् अर्ष |
अश्वं न त्वा वाजिनम् मर्जयन्तो ऽच्छा बर्ही रशनाभिर् नयन्ति ||
prá tú drava pári kóśam ní ṣīda nṛ́bhiḥ punānó abhí vā́jamarṣa ǀ
áśvam ná tvā vājínam marjáyantó’cchā barhī́ raśanā́bhirnayanti ǁ
pra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājam arṣa |
aśvaṃ na tvā vājinam marjayanto 'cchā barhī raśanābhir nayanti ||
Padapāṭha
प्र । तु । द्र॒व॒ । परि॑ । कोश॑म् । नि । सी॒द॒ । नृऽभिः॑ । पु॒ना॒नः । अ॒भि । वाज॑म् । अ॒र्ष॒ ।
अश्व॑म् । न । त्वा॒ । वा॒जिन॑म् । म॒र्जय॑न्तः । अच्छ॑ । ब॒र्हिः । र॒श॒नाभिः॑ । न॒य॒न्ति॒ ॥
प्र । तु । द्रव । परि । कोशम् । नि । सीद । नृऽभिः । पुनानः । अभि । वाजम् । अर्ष ।
अश्वम् । न । त्वा । वाजिनम् । मर्जयन्तः । अच्छ । बर्हिः । रशनाभिः । नयन्ति ॥
prá ǀ tú ǀ drava ǀ pári ǀ kóśam ǀ ní ǀ sīda ǀ nṛ́-bhiḥ ǀ punānáḥ ǀ abhí ǀ vā́jam ǀ arṣa ǀ
áśvam ǀ ná ǀ tvā ǀ vājínam ǀ marjáyantaḥ ǀ áccha ǀ barhíḥ ǀ raśanā́bhiḥ ǀ nayanti ǁ
pra ǀ tu ǀ drava ǀ pari ǀ kośam ǀ ni ǀ sīda ǀ nṛ-bhiḥ ǀ punānaḥ ǀ abhi ǀ vājam ǀ arṣa ǀ
aśvam ǀ na ǀ tvā ǀ vājinam ǀ marjayantaḥ ǀ accha ǀ barhiḥ ǀ raśanābhiḥ ǀ nayanti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.087.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.22.01
- Maṇḍala · Anuvāka · Ṛk
- 09.05.049
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Uśanas Kāvya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.