Ṛk 9.87.3
Saṃhitā
ऋषि॒र्विप्रः॑ पुरए॒ता जना॑नामृ॒भुर्धीर॑ उ॒शना॒ काव्ये॑न ।
स चि॑द्विवेद॒ निहि॑तं॒ यदा॑सामपी॒च्यं१॒॑ गुह्यं॒ नाम॒ गोनां॑ ॥
ऋषिर् विप्रः पुरएता जनानाम् ऋभुर् धीर उशना काव्येन |
स चिद् विवेद निहितं यद् आसाम् अपीच्यं गुह्यं नाम गोनाम् ||
ṛ́ṣirvípraḥ puraetā́ jánānāmṛbhúrdhī́ra uśánā kā́vyena ǀ
sá cidviveda níhitam yádāsāmapīcyám gúhyam nā́ma gónām ǁ
ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena |
sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām ||
Padapāṭha
ऋषिः॑ । विप्रः॑ । पु॒रः॒ऽए॒ता । जना॑नाम् । ऋ॒भुः । धीरः॑ । उ॒शना॑ । काव्ये॑न ।
सः । चि॒त् । वि॒वे॒द॒ । निऽहि॑तम् । यत् । आ॒सा॒म् । अ॒पी॒च्य॑म् । गुह्य॑म् । नाम॑ । गोना॑म् ॥
ऋषिः । विप्रः । पुरःऽएता । जनानाम् । ऋभुः । धीरः । उशना । काव्येन ।
सः । चित् । विवेद । निऽहितम् । यत् । आसाम् । अपीच्यम् । गुह्यम् । नाम । गोनाम् ॥
ṛ́ṣiḥ ǀ vípraḥ ǀ puraḥ-etā́ ǀ jánānām ǀ ṛbhúḥ ǀ dhī́raḥ ǀ uśánā ǀ kā́vyena ǀ
sáḥ ǀ cit ǀ viveda ǀ ní-hitam ǀ yát ǀ āsām ǀ apīcyám ǀ gúhyam ǀ nā́ma ǀ gónām ǁ
ṛṣiḥ ǀ vipraḥ ǀ puraḥ-etā ǀ janānām ǀ ṛbhuḥ ǀ dhīraḥ ǀ uśanā ǀ kāvyena ǀ
saḥ ǀ cit ǀ viveda ǀ ni-hitam ǀ yat ǀ āsām ǀ apīcyam ǀ guhyam ǀ nāma ǀ gonām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.087.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.22.03
- Maṇḍala · Anuvāka · Ṛk
- 09.05.051
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Uśanas Kāvya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.