Ṛgveda · Maṇḍala 9 · Sūkta 114
Ṛk 9.114.1
Saṃhitā
य इंदोः॒ पव॑मान॒स्यानु॒ धामा॒न्यक्र॑मीत् ।
तमा॑हुः सुप्र॒जा इति॒ यस्ते॑ सो॒मावि॑ध॒न्मन॒ इंद्रा॑येंदो॒ परि॑ स्रव ॥
य इन्दोः पवमानस्यानु धामान्य् अक्रमीत् |
तम् आहुः सुप्रजा इति यस् ते सोमाविधन् मन इन्द्रायेन्दो परि स्रव ||
yá índoḥ pávamānasyā́nu dhā́mānyákramīt ǀ
támāhuḥ suprajā́ íti yáste somā́vidhanmána índrāyendo pári srava ǁ
ya indoḥ pavamānasyānu dhāmāny akramīt |
tam āhuḥ suprajā iti yas te somāvidhan mana indrāyendo pari srava ||
Padapāṭha
यः । इन्दोः॑ । पव॑मानस्य । अनु॑ । धामा॑नि । अक्र॑मीत् ।
तम् । आ॒हुः॒ । सु॒ऽप्र॒जाः । इति॑ । यः । ते॒ । सो॒म॒ । अवि॑धत् । मनः॑ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥
यः । इन्दोः । पवमानस्य । अनु । धामानि । अक्रमीत् ।
तम् । आहुः । सुऽप्रजाः । इति । यः । ते । सोम । अविधत् । मनः । इन्द्राय । इन्दो इति । परि । स्रव ॥
yáḥ ǀ índoḥ ǀ pávamānasya ǀ ánu ǀ dhā́māni ǀ ákramīt ǀ
tám ǀ āhuḥ ǀ su-prajā́ḥ ǀ íti ǀ yáḥ ǀ te ǀ soma ǀ ávidhat ǀ mánaḥ ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ
yaḥ ǀ indoḥ ǀ pavamānasya ǀ anu ǀ dhāmāni ǀ akramīt ǀ
tam ǀ āhuḥ ǀ su-prajāḥ ǀ iti ǀ yaḥ ǀ te ǀ soma ǀ avidhat ǀ manaḥ ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.114.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.5.28.01
- Maṇḍala · Anuvāka · Ṛk
- 09.07.121
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Kaśyapa Mārīca
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.