Ṛgveda · Maṇḍala 9 · Sūkta 107
Ṛk 9.107.13
Saṃhitā
आ ह॑र्य॒तो अर्जु॑ने॒ अत्के॑ अव्यत प्रि॒यः सू॒नुर्न मर्ज्यः॑ ।
तमीं॑ हिन्वंत्य॒पसो॒ यथा॒ रथं॑ न॒दीष्वा गभ॑स्त्योः ॥
आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर् न मर्ज्यः |
तम् ईं हिन्वन्त्य् अपसो यथा रथं नदीष्व् आ गभस्त्योः ||
ā́ haryató árjune átke avyata priyáḥ sūnúrná márjyaḥ ǀ
támīm hinvantyapáso yáthā rátham nadī́ṣvā́ gábhastyoḥ ǁ
ā haryato arjune atke avyata priyaḥ sūnur na marjyaḥ |
tam īṃ hinvanty apaso yathā rathaṃ nadīṣv ā gabhastyoḥ ||
Padapāṭha
आ । ह॒र्य॒तः । अर्जु॑ने । अत्के॑ । अ॒व्य॒त॒ । प्रि॒यः । सू॒नुः । न । मर्ज्यः॑ ।
तम् । ई॒म् । हि॒न्व॒न्ति॒ । अ॒पसः॑ । यथा॑ । रथ॑म् । न॒दीषु॑ । आ । गभ॑स्त्योः ॥
आ । हर्यतः । अर्जुने । अत्के । अव्यत । प्रियः । सूनुः । न । मर्ज्यः ।
तम् । ईम् । हिन्वन्ति । अपसः । यथा । रथम् । नदीषु । आ । गभस्त्योः ॥
ā́ ǀ haryatáḥ ǀ árjune ǀ átke ǀ avyata ǀ priyáḥ ǀ sūnúḥ ǀ ná ǀ márjyaḥ ǀ
tám ǀ īm ǀ hinvanti ǀ apásaḥ ǀ yáthā ǀ rátham ǀ nadī́ṣu ǀ ā́ ǀ gábhastyoḥ ǁ
ā ǀ haryataḥ ǀ arjune ǀ atke ǀ avyata ǀ priyaḥ ǀ sūnuḥ ǀ na ǀ marjyaḥ ǀ
tam ǀ īm ǀ hinvanti ǀ apasaḥ ǀ yathā ǀ ratham ǀ nadīṣu ǀ ā ǀ gabhastyoḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.107.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.5.14.03
- Maṇḍala · Anuvāka · Ṛk
- 09.07.039
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Sapta Ṛṣayaḥ
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Dvipadā Virāj Bhurij, Dvipadā Virāj
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.