Ṛgveda · Maṇḍala 9 · Sūkta 107
Ṛk 9.107.15
Saṃhitā
तर॑त्समु॒द्रं पव॑मान ऊ॒र्मिणा॒ राजा॑ दे॒व ऋ॒तं बृ॒हत् ।
अर्ष॑न्मि॒त्रस्य॒ वरु॑णस्य॒ धर्म॑णा॒ प्र हि॑न्वा॒न ऋ॒तं बृ॒हत् ॥
तरत् समुद्रम् पवमान ऊर्मिणा राजा देव ऋतम् बृहत् |
अर्षन् मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतम् बृहत् ||
táratsamudrám pávamāna ūrmíṇā rā́jā devá ṛtám bṛhát ǀ
árṣanmitrásya váruṇasya dhármaṇā prá hinvāná ṛtám bṛhát ǁ
tarat samudram pavamāna ūrmiṇā rājā deva ṛtam bṛhat |
arṣan mitrasya varuṇasya dharmaṇā pra hinvāna ṛtam bṛhat ||
Padapāṭha
तर॑त् । स॒मु॒द्रम् । पव॑मानः । ऊ॒र्मिणा॑ । राजा॑ । दे॒वः । ऋ॒तम् । बृ॒हत् ।
अर्ष॑त् । मि॒त्रस्य॑ । वरु॑णस्य । धर्म॑णा । प्र । हि॒न्वा॒नः । ऋ॒तम् । बृ॒हत् ॥
तरत् । समुद्रम् । पवमानः । ऊर्मिणा । राजा । देवः । ऋतम् । बृहत् ।
अर्षत् । मित्रस्य । वरुणस्य । धर्मणा । प्र । हिन्वानः । ऋतम् । बृहत् ॥
tárat ǀ samudrám ǀ pávamānaḥ ǀ ūrmíṇā ǀ rā́jā ǀ deváḥ ǀ ṛtám ǀ bṛhát ǀ
árṣat ǀ mitrásya ǀ váruṇasya ǀ dhármaṇā ǀ prá ǀ hinvānáḥ ǀ ṛtám ǀ bṛhát ǁ
tarat ǀ samudram ǀ pavamānaḥ ǀ ūrmiṇā ǀ rājā ǀ devaḥ ǀ ṛtam ǀ bṛhat ǀ
arṣat ǀ mitrasya ǀ varuṇasya ǀ dharmaṇā ǀ pra ǀ hinvānaḥ ǀ ṛtam ǀ bṛhat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.107.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.5.14.05
- Maṇḍala · Anuvāka · Ṛk
- 09.07.041
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Sapta Ṛṣayaḥ
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Dvipadā Virāj Bhurij, Dvipadā Virāj
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.