Ṛgveda · Maṇḍala 9 · Sūkta 107

Ṛk 9.107.26

Soma Pavamāna · Sapta Ṛṣayaḥ

The whole sūkta Link

Saṃhitā

अ॒पो वसा॑नः॒ परि॒ कोश॑मर्ष॒तींदु॑र्हिया॒नः सो॒तृभिः॑ ।
ज॒नयं॒ज्योति॑र्मं॒दना॑ अवीवश॒द्गाः कृ॑ण्वा॒नो न नि॒र्णिजं॑ ॥

अपो वसानः परि कोशम् अर्षतीन्दुर् हियानः सोतृभिः |
जनयञ् ज्योतिर् मन्दना अवीवशद् गाः कृण्वानो न निर्णिजम् ||

apó vásānaḥ pári kóśamarṣatī́ndurhiyānáḥ sotṛ́bhiḥ ǀ
janáyañjyótirmandánā avīvaśadgā́ḥ kṛṇvānó ná nirṇíjam ǁ

apo vasānaḥ pari kośam arṣatīndur hiyānaḥ sotṛbhiḥ |
janayañ jyotir mandanā avīvaśad gāḥ kṛṇvāno na nirṇijam ||

Padapāṭha

अ॒पः । वसा॑नः । परि॑ । कोश॑म् । अ॒र्ष॒ति॒ । इन्दुः॑ । हि॒या॒नः । सो॒तृऽभिः॑ ।
ज॒नय॑न् । ज्योतिः॑ । म॒न्दनाः॑ । अ॒वी॒व॒श॒त् । गाः । कृ॒ण्वा॒नः । न । निः॒ऽनिज॑म् ॥

अपः । वसानः । परि । कोशम् । अर्षति । इन्दुः । हियानः । सोतृऽभिः ।
जनयन् । ज्योतिः । मन्दनाः । अवीवशत् । गाः । कृण्वानः । न । निःऽनिजम् ॥

apáḥ ǀ vásānaḥ ǀ pári ǀ kóśam ǀ arṣati ǀ índuḥ ǀ hiyānáḥ ǀ sotṛ́-bhiḥ ǀ
janáyan ǀ jyótiḥ ǀ mandánāḥ ǀ avīvaśat ǀ gā́ḥ ǀ kṛṇvānáḥ ǀ ná ǀ niḥ-níjam ǁ

apaḥ ǀ vasānaḥ ǀ pari ǀ kośam ǀ arṣati ǀ induḥ ǀ hiyānaḥ ǀ sotṛ-bhiḥ ǀ
janayan ǀ jyotiḥ ǀ mandanāḥ ǀ avīvaśat ǀ gāḥ ǀ kṛṇvānaḥ ǀ na ǀ niḥ-nijam ǁ

References

Maṇḍala · Sūkta · Ṛk
09.107.26
Aṣṭaka · Adhyāya · Varga · Ṛk
7.5.16.06
Maṇḍala · Anuvāka · Ṛk
09.07.052
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
Sapta Ṛṣayaḥ
Chandas छन्दस्
Bṛhatī, Satobṛhatī, Dvipadā Virāj Bhurij, Dvipadā Virāj
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.107.26

Interpretations

Sāyaṇa

पवस्वेति षोडशर्चं पंचमं सूक्तं । आद्यद्वृचस्य गौरिवीतिर्नामशक्तिपुत्रऋषिः तृतीया- याः शक्तिर्नामवासिष्ठः ततः पंचानां द्वृचानां ऊरुर्नामांगिरसः ऋजिश्वानाम भारद्वाजः ऊर्ध्वसद्भ्यानामांगिरसः कृतयशानामकश्चित् सोप्यांगिरसः ऋणंचयोनामराजर्षिः इत्येते क्रमेण ऋषयः । एवं वयोदशगताः । ततस्तिसृणां वासिष्ठः शक्तिः प्रथमातृतीयाद्ययुजः ककुभः द्वितीयाचतुर्थ्याद्यायुजः सतोबृहत्यः । ससुन्वेयोवसूनामित्येषातु यवमध्या गायत्री । पवमानः सोमोदेवता । तथाचानुक्रम्यते—पवस्वषोळशगौरिवीति द्वृचं शक्तिरेकामूरुरृजि- श्वोर्ध्वसद्भ्याकृतयशाऋणंचयइत्यृषयोद्वृचास्तिस्रः शक्तिः काकुभाः प्रगाथाः ससुन्वे गाय- त्रीयवमध्येति । गतोविनियोगः ।