Ṛk 9.73.1
Saṃhitā
स्रक्वे॑ द्र॒प्सस्य॒ धम॑तः॒ सम॑स्वरन्नृ॒तस्य॒ योना॒ सम॑रंत॒ नाभ॑यः ।
त्रीन्त्स मू॒र्ध्नो असु॑रश्चक्र आ॒रभे॑ स॒त्यस्य॒ नावः॑ सु॒कृत॑मपीपरन् ॥
स्रक्वे द्रप्सस्य धमतः सम् अस्वरन्न् ऋतस्य योना सम् अरन्त नाभयः |
त्रीन् स मूर्ध्नो असुरश् चक्र आरभे सत्यस्य नावः सुकृतम् अपीपरन् ||
srákve drapsásya dhámataḥ sámasvarannṛtásya yónā sámaranta nā́bhayaḥ ǀ
trī́ntsá mūrdhnó ásuraścakra ārábhe satyásya nā́vaḥ sukṛ́tamapīparan ǁ
srakve drapsasya dhamataḥ sam asvarann ṛtasya yonā sam aranta nābhayaḥ |
trīn sa mūrdhno asuraś cakra ārabhe satyasya nāvaḥ sukṛtam apīparan ||
Padapāṭha
स्रक्वे॑ । द्र॒प्सस्य॑ । धम॑तः । सम् । अ॒स्व॒र॒न् । ऋ॒तस्य॑ । योना॑ । सम् । अ॒र॒न्त॒ । नाभ॑यः ।
त्रीन् । सः । मू॒र्ध्नः । असु॑रः । च॒क्रे॒ । आ॒ऽरभे॑ । स॒त्यस्य॑ । नावः॑ । सु॒ऽकृत॑म् । अ॒पी॒प॒र॒न् ॥
स्रक्वे । द्रप्सस्य । धमतः । सम् । अस्वरन् । ऋतस्य । योना । सम् । अरन्त । नाभयः ।
त्रीन् । सः । मूर्ध्नः । असुरः । चक्रे । आऽरभे । सत्यस्य । नावः । सुऽकृतम् । अपीपरन् ॥
srákve ǀ drapsásya ǀ dhámataḥ ǀ sám ǀ asvaran ǀ ṛtásya ǀ yónā ǀ sám ǀ aranta ǀ nā́bhayaḥ ǀ
trī́n ǀ sáḥ ǀ mūrdhnáḥ ǀ ásuraḥ ǀ cakre ǀ ā-rábhe ǀ satyásya ǀ nā́vaḥ ǀ su-kṛ́tam ǀ apīparan ǁ
srakve ǀ drapsasya ǀ dhamataḥ ǀ sam ǀ asvaran ǀ ṛtasya ǀ yonā ǀ sam ǀ aranta ǀ nābhayaḥ ǀ
trīn ǀ saḥ ǀ mūrdhnaḥ ǀ asuraḥ ǀ cakre ǀ ā-rabhe ǀ satyasya ǀ nāvaḥ ǀ su-kṛtam ǀ apīparan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.073.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.2.29.01
- Maṇḍala · Anuvāka · Ṛk
- 09.04.049
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Pavitra Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.