Ṛk 9.73.9
Saṃhitā
ऋ॒तस्य॒ तंतु॒र्वित॑तः प॒वित्र॒ आ जि॒ह्वाया॒ अग्रे॒ वरु॑णस्य मा॒यया॑ ।
धीरा॑श्चि॒त्तत्स॒मिन॑क्षंत आश॒तात्रा॑ क॒र्तमव॑ पदा॒त्यप्र॑भुः ॥
ऋतस्य तन्तुर् विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया |
धीराश् चित् तत् समिनक्षन्त आशतात्रा कर्तम् अव पदात्य् अप्रभुः ||
ṛtásya tánturvítataḥ pavítra ā́ jihvā́yā ágre váruṇasya māyáyā ǀ
dhī́rāścittátsamínakṣanta āśatā́trā kartámáva padātyáprabhuḥ ǁ
ṛtasya tantur vitataḥ pavitra ā jihvāyā agre varuṇasya māyayā |
dhīrāś cit tat saminakṣanta āśatātrā kartam ava padāty aprabhuḥ ||
Padapāṭha
ऋ॒तस्य॑ । तन्तुः॑ । विऽत॑तः । प॒वित्रे॑ । आ । जि॒ह्वायाः॑ । अग्रे॑ । वरु॑णस्य । मा॒यया॑ ।
धीराः॑ । चि॒त् । तत् । स॒म्ऽइन॑क्षन्तः । आ॒श॒त॒ । अत्र॑ । क॒र्तम् । अव॑ । प॒दा॒ति॒ । अप्र॑ऽभुः ॥
ऋतस्य । तन्तुः । विऽततः । पवित्रे । आ । जिह्वायाः । अग्रे । वरुणस्य । मायया ।
धीराः । चित् । तत् । सम्ऽइनक्षन्तः । आशत । अत्र । कर्तम् । अव । पदाति । अप्रऽभुः ॥
ṛtásya ǀ tántuḥ ǀ ví-tataḥ ǀ pavítre ǀ ā́ ǀ jihvā́yāḥ ǀ ágre ǀ váruṇasya ǀ māyáyā ǀ
dhī́rāḥ ǀ cit ǀ tát ǀ sam-ínakṣantaḥ ǀ āśata ǀ átra ǀ kartám ǀ áva ǀ padāti ǀ ápra-bhuḥ ǁ
ṛtasya ǀ tantuḥ ǀ vi-tataḥ ǀ pavitre ǀ ā ǀ jihvāyāḥ ǀ agre ǀ varuṇasya ǀ māyayā ǀ
dhīrāḥ ǀ cit ǀ tat ǀ sam-inakṣantaḥ ǀ āśata ǀ atra ǀ kartam ǀ ava ǀ padāti ǀ apra-bhuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.073.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.2.30.04
- Maṇḍala · Anuvāka · Ṛk
- 09.04.057
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Pavitra Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.