Ṛgveda · Maṇḍala 9 · Sūkta 83

Ṛk 9.83.5

Soma Pavamāna · Pavitra Āṅgirasa

The whole sūkta Link

Saṃhitā

ह॒विर्ह॑विष्मो॒ महि॒ सद्म॒ दैव्यं॒ नभो॒ वसा॑नः॒ परि॑ यास्यध्व॒रं ।
राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हः स॒हस्र॑भृष्टिर्जयसि॒ श्रवो॑ बृ॒हत् ॥

हविर् हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्य् अध्वरम् |
राजा पवित्ररथो वाजम् आरुहः सहस्रभृष्टिर् जयसि श्रवो बृहत् ||

havírhaviṣmo máhi sádma dáivyam nábho vásānaḥ pári yāsyadhvarám ǀ
rā́jā pavítraratho vā́jamā́ruhaḥ sahásrabhṛṣṭirjayasi śrávo bṛhát ǁ

havir haviṣmo mahi sadma daivyaṃ nabho vasānaḥ pari yāsy adhvaram |
rājā pavitraratho vājam āruhaḥ sahasrabhṛṣṭir jayasi śravo bṛhat ||

Padapāṭha

ह॒विः । ह॒वि॒ष्मः॒ । महि॑ । सद्म॑ । दैव्य॑म् । नभः॑ । वसा॑नः । परि॑ । या॒सि॒ । अ॒ध्व॒रम् ।
राजा॑ । प॒वित्र॑ऽरथः । वाज॑म् । आ । अ॒रु॒हः॒ । स॒हस्र॑ऽभृष्टिः । ज॒य॒सि॒ । श्रवः॑ । बृ॒हत् ॥

हविः । हविष्मः । महि । सद्म । दैव्यम् । नभः । वसानः । परि । यासि । अध्वरम् ।
राजा । पवित्रऽरथः । वाजम् । आ । अरुहः । सहस्रऽभृष्टिः । जयसि । श्रवः । बृहत् ॥

havíḥ ǀ haviṣmaḥ ǀ máhi ǀ sádma ǀ dáivyam ǀ nábhaḥ ǀ vásānaḥ ǀ pári ǀ yāsi ǀ adhvarám ǀ
rā́jā ǀ pavítra-rathaḥ ǀ vā́jam ǀ ā́ ǀ aruhaḥ ǀ sahásra-bhṛṣṭiḥ ǀ jayasi ǀ śrávaḥ ǀ bṛhát ǁ

haviḥ ǀ haviṣmaḥ ǀ mahi ǀ sadma ǀ daivyam ǀ nabhaḥ ǀ vasānaḥ ǀ pari ǀ yāsi ǀ adhvaram ǀ
rājā ǀ pavitra-rathaḥ ǀ vājam ǀ ā ǀ aruhaḥ ǀ sahasra-bhṛṣṭiḥ ǀ jayasi ǀ śravaḥ ǀ bṛhat ǁ

References

Maṇḍala · Sūkta · Ṛk
09.083.05
Aṣṭaka · Adhyāya · Varga · Ṛk
7.3.08.05
Maṇḍala · Anuvāka · Ṛk
09.04.111
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
Pavitra Āṅgirasa
Chandas छन्दस्
Jagatī
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.83.5

Interpretations

Sāyaṇa

पवस्वदेवमादनइति पंचर्चंसप्तदशंसूक्तं वाचापुत्रस्य प्रजापतेरार्षं जागतं पवमानसोम- देवताकं । तथाचानुक्रान्तं—पवस्ववाच्यः प्रजापतिरिति । गतोविनियोगः ।