Ṛk 9.77.3
Saṃhitā
ते नः॒ पूर्वा॑स॒ उप॑रास॒ इंद॑वो म॒हे वाजा॑य धन्वंतु॒ गोम॑ते ।
ई॒क्षे॒ण्या॑सो अ॒ह्यो॒३॒॑ न चार॑वो॒ ब्रह्म॑ब्रह्म॒ ये जु॑जु॒षुर्ह॒विर्ह॑विः ॥
ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते |
ईक्षेण्यासो अह्यो न चारवो ब्रह्म-ब्रह्म ये जुजुषुर् हविर्-हविः ||
té naḥ pū́rvāsa úparāsa índavo mahé vā́jāya dhanvantu gómate ǀ
īkṣeṇyā́so ahyó ná cā́ravo bráhmabrahma yé jujuṣúrhavírhaviḥ ǁ
te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate |
īkṣeṇyāso ahyo na cāravo brahma-brahma ye jujuṣur havir-haviḥ ||
Padapāṭha
ते । नः॒ । पूर्वा॑सः । उप॑रासः । इन्द॑वः । म॒हे । वाजा॑य । ध॒न्व॒न्तु॒ । गोऽम॑ते ।
ई॒क्षे॒ण्या॑सः । अ॒ह्यः॑ । न । चार॑वः । ब्रह्म॑ऽब्रह्म । ये । जु॒जु॒षुः । ह॒विःऽह॑विः ॥
ते । नः । पूर्वासः । उपरासः । इन्दवः । महे । वाजाय । धन्वन्तु । गोऽमते ।
ईक्षेण्यासः । अह्यः । न । चारवः । ब्रह्मऽब्रह्म । ये । जुजुषुः । हविःऽहविः ॥
té ǀ naḥ ǀ pū́rvāsaḥ ǀ úparāsaḥ ǀ índavaḥ ǀ mahé ǀ vā́jāya ǀ dhanvantu ǀ gó-mate ǀ
īkṣeṇyā́saḥ ǀ ahyáḥ ǀ ná ǀ cā́ravaḥ ǀ bráhma-brahma ǀ yé ǀ jujuṣúḥ ǀ havíḥ-haviḥ ǁ
te ǀ naḥ ǀ pūrvāsaḥ ǀ uparāsaḥ ǀ indavaḥ ǀ mahe ǀ vājāya ǀ dhanvantu ǀ go-mate ǀ
īkṣeṇyāsaḥ ǀ ahyaḥ ǀ na ǀ cāravaḥ ǀ brahma-brahma ǀ ye ǀ jujuṣuḥ ǀ haviḥ-haviḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.077.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.02.03
- Maṇḍala · Anuvāka · Ṛk
- 09.04.079
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Kavi Bhārgava
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.