Ṛk 9.77.5
Saṃhitā
चक्रि॑र्दि॒वः प॑वते॒ कृत्व्यो॒ रसो॑ म॒हाँ अद॑ब्धो॒ वरु॑णो हु॒रुग्य॒ते ।
असा॑वि मि॒त्रो वृ॒जने॑षु य॒ज्ञियोऽत्यो॒ न यू॒थे वृ॑ष॒युः कनि॑क्रदत् ॥
चक्रिर् दिवः पवते कृत्व्यो रसो महां अदब्धो वरुणो हुरुग् यते |
असावि मित्रो वृजनेषु यज्ञियो ऽत्यो न यूथे वृषयुः कनिक्रदत् ||
cákrirdiváḥ pavate kṛ́tvyo ráso mahā́m̐ ádabdho váruṇo hurúgyaté ǀ
ásāvi mitró vṛjáneṣu yajñíyó’tyo ná yūthé vṛṣayúḥ kánikradat ǁ
cakrir divaḥ pavate kṛtvyo raso mahāṃ adabdho varuṇo hurug yate |
asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat ||
Padapāṭha
चक्रिः॑ । दि॒वः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । म॒हान् । अद॑ब्धः । वरु॑णः । हु॒रुक् । य॒ते ।
असा॑वि । मि॒त्रः । वृ॒जने॑षु । य॒ज्ञियः॑ । अत्यः॑ । न । यू॒थे । वृ॒ष॒ऽयुः । कनि॑क्रदत् ॥
चक्रिः । दिवः । पवते । कृत्व्यः । रसः । महान् । अदब्धः । वरुणः । हुरुक् । यते ।
असावि । मित्रः । वृजनेषु । यज्ञियः । अत्यः । न । यूथे । वृषऽयुः । कनिक्रदत् ॥
cákriḥ ǀ diváḥ ǀ pavate ǀ kṛ́tvyaḥ ǀ rásaḥ ǀ mahā́n ǀ ádabdhaḥ ǀ váruṇaḥ ǀ hurúk ǀ yaté ǀ
ásāvi ǀ mitráḥ ǀ vṛjáneṣu ǀ yajñíyaḥ ǀ átyaḥ ǀ ná ǀ yūthé ǀ vṛṣa-yúḥ ǀ kánikradat ǁ
cakriḥ ǀ divaḥ ǀ pavate ǀ kṛtvyaḥ ǀ rasaḥ ǀ mahān ǀ adabdhaḥ ǀ varuṇaḥ ǀ huruk ǀ yate ǀ
asāvi ǀ mitraḥ ǀ vṛjaneṣu ǀ yajñiyaḥ ǀ atyaḥ ǀ na ǀ yūthe ǀ vṛṣa-yuḥ ǀ kanikradat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.077.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.02.05
- Maṇḍala · Anuvāka · Ṛk
- 09.04.081
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Kavi Bhārgava
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.