Ṛk 9.1.10
Saṃhitā
अ॒स्येदिंद्रो॒ मदे॒ष्वा विश्वा॑ वृ॒त्राणि॑ जिघ्नते ।
शूरो॑ म॒घा च॑ मंहते ॥
अस्येद् इन्द्रो मदेष्व् आ विश्वा वृत्राणि जिघ्नते |
शूरो मघा च मंहते ||
asyédíndro mádeṣvā́ víśvā vṛtrā́ṇi jighnate ǀ
śū́ro maghā́ ca maṃhate ǁ
asyed indro madeṣv ā viśvā vṛtrāṇi jighnate |
śūro maghā ca maṃhate ||
Padapāṭha
अ॒स्य । इत् । इन्द्रः॑ । मदे॑षु । आ । विश्वा॑ । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ।
शूरः॑ । म॒घा । च॒ । मं॒ह॒ते॒ ॥
अस्य । इत् । इन्द्रः । मदेषु । आ । विश्वा । वृत्राणि । जिघ्नते ।
शूरः । मघा । च । मंहते ॥
asyá ǀ ít ǀ índraḥ ǀ mádeṣu ǀ ā́ ǀ víśvā ǀ vṛtrā́ṇi ǀ jighnate ǀ
śū́raḥ ǀ maghā́ ǀ ca ǀ maṃhate ǁ
asya ǀ it ǀ indraḥ ǀ madeṣu ǀ ā ǀ viśvā ǀ vṛtrāṇi ǀ jighnate ǀ
śūraḥ ǀ maghā ǀ ca ǀ maṃhate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.001.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.7.17.05
- Maṇḍala · Anuvāka · Ṛk
- 09.01.010
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Madhucchandas Vaiśvāmitra
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.