Ṛgveda · Maṇḍala 8

Sūkta 75

Agni · Virūpa Āṅgirasa · 16 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Virūpa Āṅgirasa
Chandas छन्दस्
Gāyatrī
Metres by ṛk

1st set of styles nicṛdgāyatrī (1, 4, 5, 7, 9, 11); gāyatrī (6, 10, 12-14, 16); virāḍgāyatrī (2, 3, 15); svarāḍārcīgāyatrī (8)

2nd set of styles gāyatrī

  1. Ṛk 1

    यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒ अश्वाँ॑ अग्ने र॒थीरि॑व ।
    नि होता॑ पू॒र्व्यः स॑दः ॥

    युक्ष्वा हि देवहूतमां अश्वां अग्ने रथीर् इव |
    नि होता पूर्व्यः सदः ||

    yukṣvā́ hí devahū́tamām̐ áśvām̐ agne rathī́riva ǀ
    ní hótā pūrvyáḥ sadaḥ ǁ

    yukṣvā hi devahūtamāṃ aśvāṃ agne rathīr iva |
    ni hotā pūrvyaḥ sadaḥ ||

    यु॒क्ष्व । हि । दे॒व॒ऽहूत॑मान् । अश्वा॑न् । अ॒ग्ने॒ । र॒थीःऽइ॑व ।
    नि । होता॑ । पू॒र्व्यः । स॒दः॒ ॥

    युक्ष्व । हि । देवऽहूतमान् । अश्वान् । अग्ने । रथीःऽइव ।
    नि । होता । पूर्व्यः । सदः ॥

    yukṣvá ǀ hí ǀ deva-hū́tamān ǀ áśvān ǀ agne ǀ rathī́ḥ-iva ǀ
    ní ǀ hótā ǀ pūrvyáḥ ǀ sadaḥ ǁ

    yukṣva ǀ hi ǀ deva-hūtamān ǀ aśvān ǀ agne ǀ rathīḥ-iva ǀ
    ni ǀ hotā ǀ pūrvyaḥ ǀ sadaḥ ǁ

    8.75.1 Aṣṭaka 6.5.24.1Anuvāka 8.8.82

  2. Ṛk 2

    उ॒त नो॑ देव दे॒वाँ अच्छा॑ वोचो वि॒दुष्ट॑रः ।
    श्रद्विश्वा॒ वार्या॑ कृधि ॥

    उत नो देव देवां अच्छा वोचो विदुष्टरः |
    श्रद् विश्वा वार्या कृधि ||

    utá no deva devā́m̐ ácchā voco vidúṣṭaraḥ ǀ
    śrádvíśvā vā́ryā kṛdhi ǁ

    uta no deva devāṃ acchā voco viduṣṭaraḥ |
    śrad viśvā vāryā kṛdhi ||

    उ॒त । नः॒ । दे॒व॒ । दे॒वान् । अच्छ॑ । वो॒चः॒ । वि॒दुःऽत॑रः ।
    श्रत् । विश्वा॑ । वार्या॑ । कृ॒धि॒ ॥

    उत । नः । देव । देवान् । अच्छ । वोचः । विदुःऽतरः ।
    श्रत् । विश्वा । वार्या । कृधि ॥

    utá ǀ naḥ ǀ deva ǀ devā́n ǀ áccha ǀ vocaḥ ǀ vidúḥ-taraḥ ǀ
    śrát ǀ víśvā ǀ vā́ryā ǀ kṛdhi ǁ

    uta ǀ naḥ ǀ deva ǀ devān ǀ accha ǀ vocaḥ ǀ viduḥ-taraḥ ǀ
    śrat ǀ viśvā ǀ vāryā ǀ kṛdhi ǁ

    8.75.2 Aṣṭaka 6.5.24.2Anuvāka 8.8.83

  3. Ṛk 3

    त्वं ह॒ यद्य॑विष्ठ्य॒ सह॑सः सूनवाहुत ।
    ऋ॒तावा॑ य॒ज्ञियो॒ भुवः॑ ॥

    त्वं ह यद् यविष्ठ्य सहसः सूनव् आहुत |
    ऋतावा यज्ञियो भुवः ||

    tvám ha yádyaviṣṭhya sáhasaḥ sūnavāhuta ǀ
    ṛtā́vā yajñíyo bhúvaḥ ǁ

    tvaṃ ha yad yaviṣṭhya sahasaḥ sūnav āhuta |
    ṛtāvā yajñiyo bhuvaḥ ||

    त्वम् । ह॒ । यत् । य॒वि॒ष्ठ्य॒ । सह॑सः । सू॒नो॒ इति॑ । आ॒ऽहु॒त॒ ।
    ऋ॒तऽवा॑ । य॒ज्ञियः॑ । भुवः॑ ॥

    त्वम् । ह । यत् । यविष्ठ्य । सहसः । सूनो इति । आऽहुत ।
    ऋतऽवा । यज्ञियः । भुवः ॥

    tvám ǀ ha ǀ yát ǀ yaviṣṭhya ǀ sáhasaḥ ǀ sūno íti ǀ ā-huta ǀ
    ṛtá-vā ǀ yajñíyaḥ ǀ bhúvaḥ ǁ

    tvam ǀ ha ǀ yat ǀ yaviṣṭhya ǀ sahasaḥ ǀ sūno iti ǀ ā-huta ǀ
    ṛta-vā ǀ yajñiyaḥ ǀ bhuvaḥ ǁ

    8.75.3 Aṣṭaka 6.5.24.3Anuvāka 8.8.84

  4. Ṛk 4

    अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ ।
    मू॒र्धा क॒वी र॑यी॒णां ॥

    अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः |
    मूर्धा कवी रयीणाम् ||

    ayámagníḥ sahasríṇo vā́jasya śatínaspátiḥ ǀ
    mūrdhā́ kavī́ rayīṇā́m ǁ

    ayam agniḥ sahasriṇo vājasya śatinas patiḥ |
    mūrdhā kavī rayīṇām ||

    अ॒यम् । अ॒ग्निः । स॒ह॒स्रिणः॑ । वाज॑स्य । श॒तिनः॑ । पतिः॑ ।
    मू॒र्धा । क॒विः । र॒यी॒णाम् ॥

    अयम् । अग्निः । सहस्रिणः । वाजस्य । शतिनः । पतिः ।
    मूर्धा । कविः । रयीणाम् ॥

    ayám ǀ agníḥ ǀ sahasríṇaḥ ǀ vā́jasya ǀ śatínaḥ ǀ pátiḥ ǀ
    mūrdhā́ ǀ kavíḥ ǀ rayīṇā́m ǁ

    ayam ǀ agniḥ ǀ sahasriṇaḥ ǀ vājasya ǀ śatinaḥ ǀ patiḥ ǀ
    mūrdhā ǀ kaviḥ ǀ rayīṇām ǁ

    8.75.4 Aṣṭaka 6.5.24.4Anuvāka 8.8.85

  5. Ṛk 5

    तं ने॒मिमृ॒भवो॑ य॒था न॑मस्व॒ सहू॑तिभिः ।
    नेदी॑यो य॒ज्ञमं॑गिरः ॥

    तं नेमिम् ऋभवो यथा नमस्व सहूतिभिः |
    नेदीयो यज्ञम् अङ्गिरः ||

    tám nemímṛbhávo yathā́ namasva sáhūtibhiḥ ǀ
    nédīyo yajñámaṅgiraḥ ǁ

    taṃ nemim ṛbhavo yathā namasva sahūtibhiḥ |
    nedīyo yajñam aṅgiraḥ ||

    तम् । ने॒मिम् । ऋ॒भवः॑ । य॒था॒ । आ । न॒म॒स्व॒ । सहू॑तिऽभिः ।
    नेदी॑यः । य॒ज्ञम् । अ॒ङ्गि॒रः॒ ॥

    तम् । नेमिम् । ऋभवः । यथा । आ । नमस्व । सहूतिऽभिः ।
    नेदीयः । यज्ञम् । अङ्गिरः ॥

    tám ǀ nemím ǀ ṛbhávaḥ ǀ yathā ǀ ā́ ǀ namasva ǀ sáhūti-bhiḥ ǀ
    nédīyaḥ ǀ yajñám ǀ aṅgiraḥ ǁ

    tam ǀ nemim ǀ ṛbhavaḥ ǀ yathā ǀ ā ǀ namasva ǀ sahūti-bhiḥ ǀ
    nedīyaḥ ǀ yajñam ǀ aṅgiraḥ ǁ

    8.75.5 Aṣṭaka 6.5.24.5Anuvāka 8.8.86

  6. Ṛk 6

    तस्मै॑ नू॒नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या ।
    वृष्णे॑ चोदस्व सुष्टु॒तिं ॥

    तस्मै नूनम् अभिद्यवे वाचा विरूप नित्यया |
    वृष्णे चोदस्व सुष्टुतिम् ||

    tásmai nūnámabhídyave vācā́ virūpa nítyayā ǀ
    vṛ́ṣṇe codasva suṣṭutím ǁ

    tasmai nūnam abhidyave vācā virūpa nityayā |
    vṛṣṇe codasva suṣṭutim ||

    तस्मै॑ । नू॒नम् । अ॒भिऽद्य॑वे । वा॒चा । वि॒ऽरू॒प॒ । नित्य॑या ।
    वृष्णे॑ । चो॒द॒स्व॒ । सु॒ऽस्तु॒तिम् ॥

    तस्मै । नूनम् । अभिऽद्यवे । वाचा । विऽरूप । नित्यया ।
    वृष्णे । चोदस्व । सुऽस्तुतिम् ॥

    tásmai ǀ nūnám ǀ abhí-dyave ǀ vācā́ ǀ vi-rūpa ǀ nítyayā ǀ
    vṛ́ṣṇe ǀ codasva ǀ su-stutím ǁ

    tasmai ǀ nūnam ǀ abhi-dyave ǀ vācā ǀ vi-rūpa ǀ nityayā ǀ
    vṛṣṇe ǀ codasva ǀ su-stutim ǁ

    8.75.6 Aṣṭaka 6.5.25.1Anuvāka 8.8.87

  7. Ṛk 7

    कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा॑कचक्षसः ।
    प॒णिं गोषु॑ स्तरामहे ॥

    कम् उ ष्विद् अस्य सेनयाग्नेर् अपाकचक्षसः |
    पणिं गोषु स्तरामहे ||

    kámu ṣvidasya sénayāgnérápākacakṣasaḥ ǀ
    paṇím góṣu starāmahe ǁ

    kam u ṣvid asya senayāgner apākacakṣasaḥ |
    paṇiṃ goṣu starāmahe ||

    कम् । ऊं॒ इति॑ । स्वि॒त् । अ॒स्य॒ । सेन॑या । अ॒ग्नेः । अपा॑कऽचक्षसः ।
    प॒णिम् । गोषु॑ । स्त॒रा॒म॒हे॒ ॥

    कम् । ऊं इति । स्वित् । अस्य । सेनया । अग्नेः । अपाकऽचक्षसः ।
    पणिम् । गोषु । स्तरामहे ॥

    kám ǀ ūṃ íti ǀ svit ǀ asya ǀ sénayā ǀ agnéḥ ǀ ápāka-cakṣasaḥ ǀ
    paṇím ǀ góṣu ǀ starāmahe ǁ

    kam ǀ ūṃ iti ǀ svit ǀ asya ǀ senayā ǀ agneḥ ǀ apāka-cakṣasaḥ ǀ
    paṇim ǀ goṣu ǀ starāmahe ǁ

    8.75.7 Aṣṭaka 6.5.25.2Anuvāka 8.8.88

  8. Ṛk 8

    मा नो॑ दे॒वानां॒ विशः॑ प्रस्ना॒तीरि॑वो॒स्राः ।
    कृ॒शं न हा॑सु॒रघ्न्याः॑ ॥

    मा नो देवानां विशः प्रस्नातीर् इवोस्राः |
    कृशं न हासुर् अघ्न्याः ||

    mā́ no devā́nām víśaḥ prasnātī́rivosrā́ḥ ǀ
    kṛśám ná hāsurághnyāḥ ǁ

    mā no devānāṃ viśaḥ prasnātīr ivosrāḥ |
    kṛśaṃ na hāsur aghnyāḥ ||

    मा । नः॒ । दे॒वाना॑म् । विशः॑ । प्र॒स्ना॒तीःऽइ॑व । उ॒स्राः ।
    कृ॒शम् । न । हा॒सुः॒ । अघ्न्याः॑ ॥

    मा । नः । देवानाम् । विशः । प्रस्नातीःऽइव । उस्राः ।
    कृशम् । न । हासुः । अघ्न्याः ॥

    mā́ ǀ naḥ ǀ devā́nām ǀ víśaḥ ǀ prasnātī́ḥ-iva ǀ usrā́ḥ ǀ
    kṛśám ǀ ná ǀ hāsuḥ ǀ ághnyāḥ ǁ

    mā ǀ naḥ ǀ devānām ǀ viśaḥ ǀ prasnātīḥ-iva ǀ usrāḥ ǀ
    kṛśam ǀ na ǀ hāsuḥ ǀ aghnyāḥ ǁ

    8.75.8 Aṣṭaka 6.5.25.3Anuvāka 8.8.89

  9. Ṛk 9

    मा नः॑ समस्य दू॒ढ्यः१॒॑ परि॑द्वेषसो अंह॒तिः ।
    ऊ॒र्मिर्न नाव॒मा व॑धीत् ॥

    मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः |
    ऊर्मिर् न नावम् आ वधीत् ||

    mā́ naḥ samasya dūḍhyáḥ páridveṣaso aṃhatíḥ ǀ
    ūrmírná nā́vamā́ vadhīt ǁ

    mā naḥ samasya dūḍhyaḥ paridveṣaso aṃhatiḥ |
    ūrmir na nāvam ā vadhīt ||

    मा । नः॒ । स॒म॒स्य॒ । दुः॒ऽध्यः॑ । परि॑ऽद्वेषसः । अं॒ह॒तिः ।
    ऊ॒र्मिः । न । नाव॑म् । आ । व॒धी॒त् ॥

    मा । नः । समस्य । दुःऽध्यः । परिऽद्वेषसः । अंहतिः ।
    ऊर्मिः । न । नावम् । आ । वधीत् ॥

    mā́ ǀ naḥ ǀ samasya ǀ duḥ-dhyáḥ ǀ pári-dveṣasaḥ ǀ aṃhatíḥ ǀ
    ūrmíḥ ǀ ná ǀ nā́vam ǀ ā́ ǀ vadhīt ǁ

    mā ǀ naḥ ǀ samasya ǀ duḥ-dhyaḥ ǀ pari-dveṣasaḥ ǀ aṃhatiḥ ǀ
    ūrmiḥ ǀ na ǀ nāvam ǀ ā ǀ vadhīt ǁ

    8.75.9 Aṣṭaka 6.5.25.4Anuvāka 8.8.90

  10. Ṛk 10

    नम॑स्ते अग्न॒ ओज॑से गृ॒णंति॑ देव कृ॒ष्टयः॑ ।
    अमै॑र॒मित्र॑मर्दय ॥

    नमस् ते अग्न ओजसे गृणन्ति देव कृष्टयः |
    अमैर् अमित्रम् अर्दय ||

    námaste agna ójase gṛṇánti deva kṛṣṭáyaḥ ǀ
    ámairamítramardaya ǁ

    namas te agna ojase gṛṇanti deva kṛṣṭayaḥ |
    amair amitram ardaya ||

    नमः॑ । ते॒ । अ॒ग्ने॒ । ओज॑से । गृ॒णन्ति॑ । दे॒व॒ । कृ॒ष्टयः॑ ।
    अमैः॑ । अ॒मित्र॑म् । अ॒र्द॒य॒ ॥

    नमः । ते । अग्ने । ओजसे । गृणन्ति । देव । कृष्टयः ।
    अमैः । अमित्रम् । अर्दय ॥

    námaḥ ǀ te ǀ agne ǀ ójase ǀ gṛṇánti ǀ deva ǀ kṛṣṭáyaḥ ǀ
    ámaiḥ ǀ amítram ǀ ardaya ǁ

    namaḥ ǀ te ǀ agne ǀ ojase ǀ gṛṇanti ǀ deva ǀ kṛṣṭayaḥ ǀ
    amaiḥ ǀ amitram ǀ ardaya ǁ

    8.75.10 Aṣṭaka 6.5.25.5Anuvāka 8.8.91

  11. Ṛk 11

    कु॒वित्सु नो॒ गवि॑ष्ट॒येऽग्ने॑ सं॒वेषि॑षो र॒यिं ।
    उरु॑कृदु॒रु ण॑स्कृधि ॥

    कुवित् सु नो गविष्टये ऽग्ने संवेषिषो रयिम् |
    उरुकृद् उरु णस् कृधि ||

    kuvítsú no gáviṣṭayé’gne saṃvéṣiṣo rayím ǀ
    úrukṛdurú ṇaskṛdhi ǁ

    kuvit su no gaviṣṭaye 'gne saṃveṣiṣo rayim |
    urukṛd uru ṇas kṛdhi ||

    कु॒वित् । सु । नः॒ । गोऽइ॑ष्टये । अग्ने॑ । स॒म्ऽवेषि॑षः । र॒यिम् ।
    उरु॑ऽकृत् । उ॒रु । नः॒ । कृ॒धि॒ ॥

    कुवित् । सु । नः । गोऽइष्टये । अग्ने । सम्ऽवेषिषः । रयिम् ।
    उरुऽकृत् । उरु । नः । कृधि ॥

    kuvít ǀ sú ǀ naḥ ǀ gó-iṣṭaye ǀ ágne ǀ sam-véṣiṣaḥ ǀ rayím ǀ
    úru-kṛt ǀ urú ǀ naḥ ǀ kṛdhi ǁ

    kuvit ǀ su ǀ naḥ ǀ go-iṣṭaye ǀ agne ǀ sam-veṣiṣaḥ ǀ rayim ǀ
    uru-kṛt ǀ uru ǀ naḥ ǀ kṛdhi ǁ

    8.75.11 Aṣṭaka 6.5.26.1Anuvāka 8.8.92

  12. Ṛk 12

    मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था ।
    सं॒वर्गं॒ सं र॒यिं ज॑य ॥

    मा नो अस्मिन् महाधने परा वर्ग् भारभृद् यथा |
    संवर्गं सं रयिं जय ||

    mā́ no asmínmahādhané párā vargbhārabhṛ́dyathā ǀ
    saṃvárgam sám rayím jaya ǁ

    mā no asmin mahādhane parā varg bhārabhṛd yathā |
    saṃvargaṃ saṃ rayiṃ jaya ||

    मा । नः॒ । अ॒स्मिन् । म॒हा॒ऽध॒ने । परा॑ । व॒र्क् । भा॒र॒ऽभृत् । य॒था॒ ।
    स॒म्ऽवर्ग॑म् । सम् । र॒यिम् । ज॒य॒ ॥

    मा । नः । अस्मिन् । महाऽधने । परा । वर्क् । भारऽभृत् । यथा ।
    सम्ऽवर्गम् । सम् । रयिम् । जय ॥

    mā́ ǀ naḥ ǀ asmín ǀ mahā-dhané ǀ párā ǀ vark ǀ bhāra-bhṛ́t ǀ yathā ǀ
    sam-várgam ǀ sám ǀ rayím ǀ jaya ǁ

    mā ǀ naḥ ǀ asmin ǀ mahā-dhane ǀ parā ǀ vark ǀ bhāra-bhṛt ǀ yathā ǀ
    sam-vargam ǀ sam ǀ rayim ǀ jaya ǁ

    8.75.12 Aṣṭaka 6.5.26.2Anuvāka 8.8.93

  13. Ṛk 13

    अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना॑ ।
    वर्धा॑ नो॒ अम॑व॒च्छवः॑ ॥

    अन्यम् अस्मद् भिया इयम् अग्ने सिषक्तु दुच्छुना |
    वर्धा नो अमवच् छवः ||

    anyámasmádbhiyā́ iyámágne síṣaktu ducchúnā ǀ
    várdhā no ámavacchávaḥ ǁ

    anyam asmad bhiyā iyam agne siṣaktu ducchunā |
    vardhā no amavac chavaḥ ||

    अ॒न्यम् । अ॒स्मत् । भि॒यै । इ॒यम् । अग्ने॑ । सिस॑क्तु । दु॒च्छुना॑ ।
    वर्ध॑ । नः॒ । अम॑ऽवत् । शवः॑ ॥

    अन्यम् । अस्मत् । भियै । इयम् । अग्ने । सिसक्तु । दुच्छुना ।
    वर्ध । नः । अमऽवत् । शवः ॥

    anyám ǀ asmát ǀ bhiyái ǀ iyám ǀ ágne ǀ sísaktu ǀ ducchúnā ǀ
    várdha ǀ naḥ ǀ áma-vat ǀ śávaḥ ǁ

    anyam ǀ asmat ǀ bhiyai ǀ iyam ǀ agne ǀ sisaktu ǀ ducchunā ǀ
    vardha ǀ naḥ ǀ ama-vat ǀ śavaḥ ǁ

    8.75.13 Aṣṭaka 6.5.26.3Anuvāka 8.8.94

  14. Ṛk 14

    यस्याजु॑षन्नम॒स्विनः॒ शमी॒मदु॑र्मखस्य वा ।
    तं घेद॒ग्निर्वृ॒धाव॑ति ॥

    यस्याजुषन् नमस्विनः शमीम् अदुर्मखस्य वा |
    तं घेद् अग्निर् वृधावति ||

    yásyā́juṣannamasvínaḥ śámīmádurmakhasya vā ǀ
    tám ghédagnírvṛdhā́vati ǁ

    yasyājuṣan namasvinaḥ śamīm adurmakhasya vā |
    taṃ ghed agnir vṛdhāvati ||

    यस्य॑ । अजु॑षत् । न॒म॒स्विनः॑ । शमी॑म् । अदुः॑ऽमखस्य । वा॒ ।
    तम् । घ॒ । इत् । अ॒ग्निः । वृ॒धा । अ॒व॒ति॒ ॥

    यस्य । अजुषत् । नमस्विनः । शमीम् । अदुःऽमखस्य । वा ।
    तम् । घ । इत् । अग्निः । वृधा । अवति ॥

    yásya ǀ ájuṣat ǀ namasvínaḥ ǀ śámīm ǀ áduḥ-makhasya ǀ vā ǀ
    tám ǀ gha ǀ ít ǀ agníḥ ǀ vṛdhā́ ǀ avati ǁ

    yasya ǀ ajuṣat ǀ namasvinaḥ ǀ śamīm ǀ aduḥ-makhasya ǀ vā ǀ
    tam ǀ gha ǀ it ǀ agniḥ ǀ vṛdhā ǀ avati ǁ

    8.75.14 Aṣṭaka 6.5.26.4Anuvāka 8.8.95

  15. Ṛk 15

    पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ अ॒भ्या त॑र ।
    यत्रा॒हमस्मि॒ ताँ अ॑व ॥

    परस्या अधि संवतो ऽवरां अभ्य् आ तर |
    यत्राहम् अस्मि तां अव ||

    párasyā ádhi saṃvátó’varām̐ abhyā́ tara ǀ
    yátrāhámásmi tā́m̐ ava ǁ

    parasyā adhi saṃvato 'varāṃ abhy ā tara |
    yatrāham asmi tāṃ ava ||

    पर॑स्याः । अधि॑ । स॒म्ऽवतः॑ । अव॑रान् । अ॒भि । आ । त॒र॒ ।
    यत्र॑ । अ॒हम् । अस्मि॑ । तान् । अ॒व॒ ॥

    परस्याः । अधि । सम्ऽवतः । अवरान् । अभि । आ । तर ।
    यत्र । अहम् । अस्मि । तान् । अव ॥

    párasyāḥ ǀ ádhi ǀ sam-vátaḥ ǀ ávarān ǀ abhí ǀ ā́ ǀ tara ǀ
    yátra ǀ ahám ǀ ásmi ǀ tā́n ǀ ava ǁ

    parasyāḥ ǀ adhi ǀ sam-vataḥ ǀ avarān ǀ abhi ǀ ā ǀ tara ǀ
    yatra ǀ aham ǀ asmi ǀ tān ǀ ava ǁ

    8.75.15 Aṣṭaka 6.5.26.5Anuvāka 8.8.96

  16. Ṛk 16

    वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः ।
    अधा॑ ते सु॒म्नमी॑महे ॥

    विद्मा हि ते पुरा वयम् अग्ने पितुर् यथावसः |
    अधा ते सुम्नम् ईमहे ||

    vidmā́ hí te purā́ vayámágne pitúryáthā́vasaḥ ǀ
    ádhā te sumnámīmahe ǁ

    vidmā hi te purā vayam agne pitur yathāvasaḥ |
    adhā te sumnam īmahe ||

    वि॒द्म । हि । ते॒ । पु॒रा । व॒यम् । अग्ने॑ । पि॒तुः । यथा॑ । अव॑सः ।
    अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥

    विद्म । हि । ते । पुरा । वयम् । अग्ने । पितुः । यथा । अवसः ।
    अध । ते । सुम्नम् । ईमहे ॥

    vidmá ǀ hí ǀ te ǀ purā́ ǀ vayám ǀ ágne ǀ pitúḥ ǀ yáthā ǀ ávasaḥ ǀ
    ádha ǀ te ǀ sumnám ǀ īmahe ǁ

    vidma ǀ hi ǀ te ǀ purā ǀ vayam ǀ agne ǀ pituḥ ǀ yathā ǀ avasaḥ ǀ
    adha ǀ te ǀ sumnam ǀ īmahe ǁ

    8.75.16 Aṣṭaka 6.5.26.6Anuvāka 8.8.97

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.75 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

O Fire, yoke like a charioteer the horses most powerful for the calling of the gods; take thy seat, O ancient Priest of the call! (375)

Ṛk 2

And now, since thou hast the knowledge, speak for us towards the gods, make true to our aspiration all desirable things. (376)

Ṛk 3

For thou, O Fire, O most youthful son of force, thou in whom are cast the offerings, art the possessor of the Truth to be worshipped with sacrifice. (376)

Ṛk 4

This Fire is the lord of the hundredfold and thousandfold plenitude, the seer who is the head of the treasures. (376)

Ṛk 5

O Angiras, by words which bear in them the invocation, bring down nearer that sacrifice as the heaven’s craftsmen brought down the rim of the wheel. (376)

Ṛk 6

To him now, O Virupa, by the eternal word give the impulse of the high laud to the luminous Bull. (376)

Ṛk 7

By the army of the Fire who has the eye that sees from afar27may we lay low whatever miser Trafficker and enter among the shining herds. (376)

Ṛk 8

May the peoples of the gods abandon us not, even as the unslayable luminous herds full of milk leave not a calf that is lean. (377)

Ṛk 9

Let not calamity from every evil-thoughted hostile around smite us like a billow smiting a ship. (377)

Ṛk 10

O divine Fire, men declare their prostration of surrender to thee that they may have force; crush by thy might the foe. (377)

Ṛk 11

Once and again for our search for the Ray-Cow thou hast entered wholly into the riches, O Fire; O maker of wideness, make for us a wideness. (377)

Ṛk 12

Abandon us not in the winning of this great wealth as if one who bears a heavy burden; conquer this massed treasure. (377)

Ṛk 13

O Fire, may this mischief cling to another than us for his terror; increase for us a forceful might. (378)

Ṛk 14

The man in whose work he takes pleasure, one who offers the prostration of surrender and is not poor in sacrifice, him the Fire protects with increase. (378)

Ṛk 15

From thy place in the supreme region break through28 to those who are below; here where I am, them protect. (378)

Ṛk 16

For we know from of old of thy protection like a father’s, O Fire, now we seek thy bliss. (378)