Sūkta 47
- Devatā देवता
- 1-13, 17: Ādityās; 14-16, 18: Ādityās, Uṣas
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Mahāpaṅkti
Metres by ṛk
1st set of styles bhuriktriṣṭup (2, 3, 5, 9, 13, 15, 16, 18); nicṛjjagatī (4, 6-8, 12); svarāṭtriṣṭup (10, 11, 17); jagatī (1); triṣṭup (14)
2nd set of styles mahāpaṅkti
-
Ṛk 1
महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्र॑ दा॒शुषे॑ ।
यमा॑दित्या अ॒भि द्रु॒हो रक्ष॑था॒ नेम॒घं न॑शदने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥महि वो महताम् अवो वरुण मित्र दाशुषे |
यम् आदित्या अभि द्रुहो रक्षथा नेम् अघं नशद् अनेहसो व ऊतयः सुऊतयो व ऊतयः ||máhi vo mahatā́mávo váruṇa mítra dāśúṣe ǀ
yámādityā abhí druhó rákṣathā némaghám naśadaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁmahi vo mahatām avo varuṇa mitra dāśuṣe |
yam ādityā abhi druho rakṣathā nem aghaṃ naśad anehaso va ūtayaḥ suūtayo va ūtayaḥ ||महि॑ । वः॒ । म॒ह॒ताम् । अवः॑ । वरु॑ण । मित्र॑ । दा॒शुषे॑ ।
यम् । आ॒दि॒त्याः॒ । अ॒भि । द्रु॒हः । रक्ष॑थ । न । ई॒म् । अ॒घम् । न॒श॒त् । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥महि । वः । महताम् । अवः । वरुण । मित्र । दाशुषे ।
यम् । आदित्याः । अभि । द्रुहः । रक्षथ । न । ईम् । अघम् । नशत् । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥máhi ǀ vaḥ ǀ mahatā́m ǀ ávaḥ ǀ váruṇa ǀ mítra ǀ dāśúṣe ǀ
yám ǀ ādityāḥ ǀ abhí ǀ druháḥ ǀ rákṣatha ǀ ná ǀ īm ǀ aghám ǀ naśat ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁmahi ǀ vaḥ ǀ mahatām ǀ avaḥ ǀ varuṇa ǀ mitra ǀ dāśuṣe ǀ
yam ǀ ādityāḥ ǀ abhi ǀ druhaḥ ǀ rakṣatha ǀ na ǀ īm ǀ agham ǀ naśat ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ8.47.1 Aṣṭaka 6.4.7.1Anuvāka 8.6.139
-
Ṛk 2
वि॒दा दे॑वा अ॒घाना॒मादि॑त्यासो अ॒पाकृ॑तिं ।
प॒क्षा वयो॒ यथो॒परि॒ व्य१॒॑स्मे शर्म॑ यच्छताने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥विदा देवा अघानाम् आदित्यासो अपाकृतिम् |
पक्षा वयो यथोपरि व्य् अस्मे शर्म यच्छतानेहसो व ऊतयः सुऊतयो व ऊतयः ||vidā́ devā aghā́nāmā́dityāso apā́kṛtim ǀ
pakṣā́ váyo yáthopári vyásmé śárma yacchatāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁvidā devā aghānām ādityāso apākṛtim |
pakṣā vayo yathopari vy asme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ ||वि॒द । दे॒वाः॒ । अ॒घाना॑म् । आदि॑त्यासः । अ॒प॒ऽआकृ॑तिम् ।
प॒क्षा । वयः॑ । यथा॑ । उ॒परि॑ । वि । अ॒स्मे इति॑ । शर्म॑ । य॒च्छ॒त॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥विद । देवाः । अघानाम् । आदित्यासः । अपऽआकृतिम् ।
पक्षा । वयः । यथा । उपरि । वि । अस्मे इति । शर्म । यच्छत । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥vidá ǀ devāḥ ǀ aghā́nām ǀ ā́dityāsaḥ ǀ apa-ā́kṛtim ǀ
pakṣā́ ǀ váyaḥ ǀ yáthā ǀ upári ǀ ví ǀ asmé íti ǀ śárma ǀ yacchata ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁvida ǀ devāḥ ǀ aghānām ǀ ādityāsaḥ ǀ apa-ākṛtim ǀ
pakṣā ǀ vayaḥ ǀ yathā ǀ upari ǀ vi ǀ asme iti ǀ śarma ǀ yacchata ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ8.47.2 Aṣṭaka 6.4.7.2Anuvāka 8.6.140
-
Ṛk 3
व्य१॒॑स्मे अधि॒ शर्म॒ तत्प॒क्षा वयो॒ न यं॑तन ।
विश्वा॑नि विश्ववेदसो वरू॒थ्या॑ मनामहेऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥व्य् अस्मे अधि शर्म तत् पक्षा वयो न यन्तन |
विश्वानि विश्ववेदसो वरूथ्या मनामहे ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ||vyásmé ádhi śárma tátpakṣā́ váyo ná yantana ǀ
víśvāni viśvavedaso varūthyā́ manāmahe’neháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁvy asme adhi śarma tat pakṣā vayo na yantana |
viśvāni viśvavedaso varūthyā manāmahe 'nehaso va ūtayaḥ suūtayo va ūtayaḥ ||वि । अ॒स्मे इति॑ । अधि॑ । शर्म॑ । तत् । प॒क्षा । वयः॑ । न । य॒न्त॒न॒ ।
विश्वा॑नि । वि॒श्व॒ऽवे॒द॒सः॒ । व॒रू॒थ्या॑ । म॒ना॒म॒हे॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥वि । अस्मे इति । अधि । शर्म । तत् । पक्षा । वयः । न । यन्तन ।
विश्वानि । विश्वऽवेदसः । वरूथ्या । मनामहे । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ví ǀ asmé íti ǀ ádhi ǀ śárma ǀ tát ǀ pakṣā́ ǀ váyaḥ ǀ ná ǀ yantana ǀ
víśvāni ǀ viśva-vedasaḥ ǀ varūthyā́ ǀ manāmahe ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁvi ǀ asme iti ǀ adhi ǀ śarma ǀ tat ǀ pakṣā ǀ vayaḥ ǀ na ǀ yantana ǀ
viśvāni ǀ viśva-vedasaḥ ǀ varūthyā ǀ manāmahe ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ8.47.3 Aṣṭaka 6.4.7.3Anuvāka 8.6.141
-
Ṛk 4
यस्मा॒ अरा॑सत॒ क्षयं॑ जी॒वातुं॑ च॒ प्रचे॑तसः ।
मनो॒र्विश्व॑स्य॒ घेदि॒म आ॑दि॒त्या रा॒य ई॑शतेऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥यस्मा अरासत क्षयं जीवातुं च प्रचेतसः |
मनोर् विश्वस्य घेद् इम आदित्या राय ईशते ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ||yásmā árāsata kṣáyam jīvā́tum ca prácetasaḥ ǀ
mánorvíśvasya ghédimá ādityā́ rāyá īśate’neháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁyasmā arāsata kṣayaṃ jīvātuṃ ca pracetasaḥ |
manor viśvasya ghed ima ādityā rāya īśate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ ||यस्मै॑ । अरा॑सत । क्षय॑म् । जी॒वातु॑म् । च॒ । प्रऽचे॑तसः ।
मनोः॑ । विश्व॑स्य । घ॒ । इत् । इ॒मे । आ॒दि॒त्याः । रा॒यः । ई॒श॒ते॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥यस्मै । अरासत । क्षयम् । जीवातुम् । च । प्रऽचेतसः ।
मनोः । विश्वस्य । घ । इत् । इमे । आदित्याः । रायः । ईशते । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥yásmai ǀ árāsata ǀ kṣáyam ǀ jīvā́tum ǀ ca ǀ prá-cetasaḥ ǀ
mánoḥ ǀ víśvasya ǀ gha ǀ ít ǀ imé ǀ ādityā́ḥ ǀ rāyáḥ ǀ īśate ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁyasmai ǀ arāsata ǀ kṣayam ǀ jīvātum ǀ ca ǀ pra-cetasaḥ ǀ
manoḥ ǀ viśvasya ǀ gha ǀ it ǀ ime ǀ ādityāḥ ǀ rāyaḥ ǀ īśate ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ8.47.4 Aṣṭaka 6.4.7.4Anuvāka 8.6.142
-
Ṛk 5
परि॑ णो वृणजन्न॒घा दु॒र्गाणि॑ र॒थ्यो॑ यथा ।
स्यामेदिंद्र॑स्य॒ शर्म॑ण्यादि॒त्याना॑मु॒ताव॑स्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥परि णो वृणजन्न् अघा दुर्गाणि रथ्यो यथा |
स्यामेद् इन्द्रस्य शर्मण्य् आदित्यानाम् उतावस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः ||pári ṇo vṛṇajannaghā́ durgā́ṇi rathyó yathā ǀ
syā́médíndrasya śármaṇyādityā́nāmutā́vasyaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁpari ṇo vṛṇajann aghā durgāṇi rathyo yathā |
syāmed indrasya śarmaṇy ādityānām utāvasy anehaso va ūtayaḥ suūtayo va ūtayaḥ ||परि॑ । नः॒ । वृ॒ण॒ज॒न् । अ॒घा । दुः॒ऽगानि॑ । र॒थ्यः॑ । य॒था॒ ।
स्याम॑ । इत् । इन्द्र॑स्य । शर्म॑णि । आ॒दि॒त्याना॑म् । उ॒त । अव॑सि । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥परि । नः । वृणजन् । अघा । दुःऽगानि । रथ्यः । यथा ।
स्याम । इत् । इन्द्रस्य । शर्मणि । आदित्यानाम् । उत । अवसि । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥pári ǀ naḥ ǀ vṛṇajan ǀ aghā́ ǀ duḥ-gā́ni ǀ rathyáḥ ǀ yathā ǀ
syā́ma ǀ ít ǀ índrasya ǀ śármaṇi ǀ ādityā́nām ǀ utá ǀ ávasi ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁpari ǀ naḥ ǀ vṛṇajan ǀ aghā ǀ duḥ-gāni ǀ rathyaḥ ǀ yathā ǀ
syāma ǀ it ǀ indrasya ǀ śarmaṇi ǀ ādityānām ǀ uta ǀ avasi ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ8.47.5 Aṣṭaka 6.4.7.5Anuvāka 8.6.143
-
Ṛk 6
प॒रि॒ह्वृ॒तेद॒ना जनो॑ यु॒ष्माद॑त्तस्य वायति ।
देवा॒ अद॑भ्रमाश वो॒ यमा॑दित्या॒ अहे॑तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥परिह्वृतेद् अना जनो युष्मादत्तस्य वायति |
देवा अदभ्रम् आश वो यम् आदित्या अहेतनानेहसो व ऊतयः सुऊतयो व ऊतयः ||parihvṛtédanā́ jáno yuṣmā́dattasya vāyati ǀ
dévā ádabhramāśa vo yámādityā áhetanāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁparihvṛted anā jano yuṣmādattasya vāyati |
devā adabhram āśa vo yam ādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ ||प॒रि॒ऽह्वृ॒ता । इत् । अ॒ना । जनः॑ । यु॒ष्माऽद॑त्तस्य । वा॒य॒ति॒ ।
देवाः॑ । अद॑भ्रम् । आ॒श॒ । वः॒ । यम् । आ॒दि॒त्याः॒ । अहे॑तन । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥परिऽह्वृता । इत् । अना । जनः । युष्माऽदत्तस्य । वायति ।
देवाः । अदभ्रम् । आश । वः । यम् । आदित्याः । अहेतन । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥pari-hvṛtā́ ǀ ít ǀ anā́ ǀ jánaḥ ǀ yuṣmā́-dattasya ǀ vāyati ǀ
dévāḥ ǀ ádabhram ǀ āśa ǀ vaḥ ǀ yám ǀ ādityāḥ ǀ áhetana ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁpari-hvṛtā ǀ it ǀ anā ǀ janaḥ ǀ yuṣmā-dattasya ǀ vāyati ǀ
devāḥ ǀ adabhram ǀ āśa ǀ vaḥ ǀ yam ǀ ādityāḥ ǀ ahetana ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ8.47.6 Aṣṭaka 6.4.8.1Anuvāka 8.6.144
-
Ṛk 7
न तं ति॒ग्मं च॒न त्यजो॒ न द्रा॑सद॒भि तं गु॒रु ।
यस्मा॑ उ॒ शर्म॑ स॒प्रथ॒ आदि॑त्यासो॒ अरा॑ध्वमने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥न तं तिग्मं चन त्यजो न द्रासद् अभि तं गुरु |
यस्मा उ शर्म सप्रथ आदित्यासो अराध्वम् अनेहसो व ऊतयः सुऊतयो व ऊतयः ||ná tám tigmám caná tyájo ná drāsadabhí tám gurú ǀ
yásmā u śárma saprátha ā́dityāso árādhvamaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁna taṃ tigmaṃ cana tyajo na drāsad abhi taṃ guru |
yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ ||न । तम् । ति॒ग्मम् । च॒न । त्यजः॑ । न । द्रा॒स॒त् । अ॒भि । तम् । गु॒रु ।
यस्मै॑ । ऊं॒ इति॑ । शर्म॑ । स॒ऽप्रथः॑ । आदि॑त्यासः । अरा॑ध्वम् । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥न । तम् । तिग्मम् । चन । त्यजः । न । द्रासत् । अभि । तम् । गुरु ।
यस्मै । ऊं इति । शर्म । सऽप्रथः । आदित्यासः । अराध्वम् । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ná ǀ tám ǀ tigmám ǀ caná ǀ tyájaḥ ǀ ná ǀ drāsat ǀ abhí ǀ tám ǀ gurú ǀ
yásmai ǀ ūṃ íti ǀ śárma ǀ sa-práthaḥ ǀ ā́dityāsaḥ ǀ árādhvam ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁna ǀ tam ǀ tigmam ǀ cana ǀ tyajaḥ ǀ na ǀ drāsat ǀ abhi ǀ tam ǀ guru ǀ
yasmai ǀ ūṃ iti ǀ śarma ǀ sa-prathaḥ ǀ ādityāsaḥ ǀ arādhvam ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ8.47.7 Aṣṭaka 6.4.8.2Anuvāka 8.6.145
-
Ṛk 8
यु॒ष्मे दे॑वा॒ अपि॑ ष्मसि॒ युध्यं॑त इव॒ वर्म॑सु ।
यू॒यं म॒हो न॒ एन॑सो यू॒यमर्भा॑दुरुष्यताने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु |
यूयम् महो न एनसो यूयम् अर्भाद् उरुष्यतानेहसो व ऊतयः सुऊतयो व ऊतयः ||yuṣmé devā ápi ṣmasi yúdhyanta iva vármasu ǀ
yūyám mahó na énaso yūyámárbhāduruṣyatāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁyuṣme devā api ṣmasi yudhyanta iva varmasu |
yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ ||यु॒ष्मे इति॑ । दे॒वाः॒ । अपि॑ । स्म॒सि॒ । युध्य॑न्तःऽइव । वर्म॑ऽसु ।
यू॒यम् । म॒हः । नः॒ । एन॑सः । यू॒यम् । अर्भा॑त् । उ॒रु॒ष्य॒त॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥युष्मे इति । देवाः । अपि । स्मसि । युध्यन्तःऽइव । वर्मऽसु ।
यूयम् । महः । नः । एनसः । यूयम् । अर्भात् । उरुष्यत । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥yuṣmé íti ǀ devāḥ ǀ ápi ǀ smasi ǀ yúdhyantaḥ-iva ǀ várma-su ǀ
yūyám ǀ maháḥ ǀ naḥ ǀ énasaḥ ǀ yūyám ǀ árbhāt ǀ uruṣyata ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁyuṣme iti ǀ devāḥ ǀ api ǀ smasi ǀ yudhyantaḥ-iva ǀ varma-su ǀ
yūyam ǀ mahaḥ ǀ naḥ ǀ enasaḥ ǀ yūyam ǀ arbhāt ǀ uruṣyata ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ8.47.8 Aṣṭaka 6.4.8.3Anuvāka 8.6.146
-
Ṛk 9
अदि॑तिर्न उरुष्य॒त्वदि॑तिः॒ शर्म॑ यच्छतु ।
मा॒ता मि॒त्रस्य॑ रे॒वतो॑ऽर्य॒म्णो वरु॑णस्य चाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥अदितिर् न उरुष्यत्व् अदितिः शर्म यच्छतु |
माता मित्रस्य रेवतो ऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुऊतयो व ऊतयः ||áditirna uruṣyatváditiḥ śárma yacchatu ǀ
mātā́ mitrásya reváto’ryamṇó váruṇasya cāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁaditir na uruṣyatv aditiḥ śarma yacchatu |
mātā mitrasya revato 'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ ||अदि॑तिः । नः॒ । उ॒रु॒ष्य॒तु॒ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ ।
मा॒ता । मि॒त्रस्य॑ । रे॒वतः॑ । अ॒र्य॒म्णः । वरु॑णस्य । च॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥अदितिः । नः । उरुष्यतु । अदितिः । शर्म । यच्छतु ।
माता । मित्रस्य । रेवतः । अर्यम्णः । वरुणस्य । च । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥áditiḥ ǀ naḥ ǀ uruṣyatu ǀ áditiḥ ǀ śárma ǀ yacchatu ǀ
mātā́ ǀ mitrásya ǀ revátaḥ ǀ aryamṇáḥ ǀ váruṇasya ǀ ca ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁaditiḥ ǀ naḥ ǀ uruṣyatu ǀ aditiḥ ǀ śarma ǀ yacchatu ǀ
mātā ǀ mitrasya ǀ revataḥ ǀ aryamṇaḥ ǀ varuṇasya ǀ ca ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ8.47.9 Aṣṭaka 6.4.8.4Anuvāka 8.6.147
-
Ṛk 10
यद्दे॑वाः॒ शर्म॑ शर॒णं यद्भ॒द्रं यद॑नातु॒रं ।
त्रि॒धातु॒ यद्व॑रू॒थ्यं१॒॑ तद॒स्मासु॒ वि यं॑तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥यद् देवाः शर्म शरणं यद् भद्रं यद् अनातुरम् |
त्रिधातु यद् वरूथ्यं तद् अस्मासु वि यन्तनानेहसो व ऊतयः सुऊतयो व ऊतयः ||yáddevāḥ śárma śaraṇám yádbhadrám yádanāturám ǀ
tridhā́tu yádvarūthyám tádasmā́su ví yantanāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁyad devāḥ śarma śaraṇaṃ yad bhadraṃ yad anāturam |
tridhātu yad varūthyaṃ tad asmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ ||यत् । दे॒वाः॒ । शर्म॑ । श॒र॒णम् । यत् । भ॒द्रम् । यत् । अ॒ना॒तु॒रम् ।
त्रि॒ऽधातु॑ । यत् । व॒रू॒थ्य॑म् । तत् । अ॒स्मासु॑ । वि । य॒न्त॒न॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥यत् । देवाः । शर्म । शरणम् । यत् । भद्रम् । यत् । अनातुरम् ।
त्रिऽधातु । यत् । वरूथ्यम् । तत् । अस्मासु । वि । यन्तन । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥yát ǀ devāḥ ǀ śárma ǀ śaraṇám ǀ yát ǀ bhadrám ǀ yát ǀ anāturám ǀ
tri-dhā́tu ǀ yát ǀ varūthyám ǀ tát ǀ asmā́su ǀ ví ǀ yantana ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁyat ǀ devāḥ ǀ śarma ǀ śaraṇam ǀ yat ǀ bhadram ǀ yat ǀ anāturam ǀ
tri-dhātu ǀ yat ǀ varūthyam ǀ tat ǀ asmāsu ǀ vi ǀ yantana ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ8.47.10 Aṣṭaka 6.4.8.5Anuvāka 8.6.148
-
Ṛk 11
आदि॑त्या॒ अव॒ हि ख्यताधि॒ कूला॑दिव॒ स्पशः॑ ।
सु॒ती॒र्थमर्व॑तो य॒थानु॑ नो नेषथा सु॒गम॑ने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥आदित्या अव हि ख्यताधि कूलाद् इव स्पशः |
सुतीर्थम् अर्वतो यथानु नो नेषथा सुगम् अनेहसो व ऊतयः सुऊतयो व ऊतयः ||ā́dityā áva hí khyátā́dhi kū́lādiva spáśaḥ ǀ
sutīrthámárvato yathā́nu no neṣathā sugámaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁādityā ava hi khyatādhi kūlād iva spaśaḥ |
sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ ||आदि॑त्याः । अव॑ । हि । ख्यत॑ । अधि॑ । कूला॑त्ऽइव । स्पशः॑ ।
सु॒ऽती॒र्थम् । अर्व॑तः । य॒था॒ । अनु॑ । नः॒ । ने॒ष॒थ॒ । सु॒ऽगम् । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥आदित्याः । अव । हि । ख्यत । अधि । कूलात्ऽइव । स्पशः ।
सुऽतीर्थम् । अर्वतः । यथा । अनु । नः । नेषथ । सुऽगम् । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ā́dityāḥ ǀ áva ǀ hí ǀ khyáta ǀ ádhi ǀ kū́lāt-iva ǀ spáśaḥ ǀ
su-tīrthám ǀ árvataḥ ǀ yathā ǀ ánu ǀ naḥ ǀ neṣatha ǀ su-gám ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁādityāḥ ǀ ava ǀ hi ǀ khyata ǀ adhi ǀ kūlāt-iva ǀ spaśaḥ ǀ
su-tīrtham ǀ arvataḥ ǀ yathā ǀ anu ǀ naḥ ǀ neṣatha ǀ su-gam ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ8.47.11 Aṣṭaka 6.4.9.1Anuvāka 8.6.149
-
Ṛk 12
नेह भ॒द्रं र॑क्ष॒स्विने॒ नाव॒यै नोप॒या उ॒त ।
गवे॑ च भ॒द्रं धे॒नवे॑ वी॒राय॑ च श्रवस्य॒ते॑ऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥नेह भद्रं रक्षस्विने नावयै नोपया उत |
गवे च भद्रं धेनवे वीराय च श्रवस्यते ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ||néhá bhadrám rakṣasvíne nā́vayái nópayā́ utá ǀ
gáve ca bhadrám dhenáve vīrā́ya ca śravasyaté’neháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁneha bhadraṃ rakṣasvine nāvayai nopayā uta |
gave ca bhadraṃ dhenave vīrāya ca śravasyate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ ||न । इ॒ह । भ॒द्रम् । र॒क्ष॒स्विने॑ । न । अ॒व॒ऽयै । न । उ॒प॒ऽयै । उ॒त ।
गवे॑ । च॒ । भ॒द्रम् । धे॒नवे॑ । वी॒राय॑ । च॒ । श्र॒व॒स्य॒ते । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥न । इह । भद्रम् । रक्षस्विने । न । अवऽयै । न । उपऽयै । उत ।
गवे । च । भद्रम् । धेनवे । वीराय । च । श्रवस्यते । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ná ǀ ihá ǀ bhadrám ǀ rakṣasvíne ǀ ná ǀ ava-yái ǀ ná ǀ upa-yái ǀ utá ǀ
gáve ǀ ca ǀ bhadrám ǀ dhenáve ǀ vīrā́ya ǀ ca ǀ śravasyaté ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁna ǀ iha ǀ bhadram ǀ rakṣasvine ǀ na ǀ ava-yai ǀ na ǀ upa-yai ǀ uta ǀ
gave ǀ ca ǀ bhadram ǀ dhenave ǀ vīrāya ǀ ca ǀ śravasyate ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ8.47.12 Aṣṭaka 6.4.9.2Anuvāka 8.6.150
-
Ṛk 13
यदा॒विर्यद॑पी॒च्यं१॒॑ देवा॑सो॒ अस्ति॑ दुष्कृ॒तं ।
त्रि॒ते तद्विश्व॑मा॒प्त्य आ॒रे अ॒स्मद्द॑धातनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥यद् आविर् यद् अपीच्यं देवासो अस्ति दुष्कृतम् |
त्रिते तद् विश्वम् आप्त्य आरे अस्मद् दधातनानेहसो व ऊतयः सुऊतयो व ऊतयः ||yádāvíryádapīcyám dévāso ásti duṣkṛtám ǀ
trité tádvíśvamāptyá āré asmáddadhātanāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁyad āvir yad apīcyaṃ devāso asti duṣkṛtam |
trite tad viśvam āptya āre asmad dadhātanānehaso va ūtayaḥ suūtayo va ūtayaḥ ||यत् । आ॒विः । यत् । अ॒पी॒च्य॑म् । देवा॑सः । अस्ति॑ । दुः॒ऽकृ॒तम् ।
त्रि॒ते । तत् । विश्व॑म् । आ॒प्त्ये । आ॒रे । अ॒स्मत् । द॒धा॒त॒न॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥यत् । आविः । यत् । अपीच्यम् । देवासः । अस्ति । दुःऽकृतम् ।
त्रिते । तत् । विश्वम् । आप्त्ये । आरे । अस्मत् । दधातन । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥yát ǀ āvíḥ ǀ yát ǀ apīcyám ǀ dévāsaḥ ǀ ásti ǀ duḥ-kṛtám ǀ
trité ǀ tát ǀ víśvam ǀ āptyé ǀ āré ǀ asmát ǀ dadhātana ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁyat ǀ āviḥ ǀ yat ǀ apīcyam ǀ devāsaḥ ǀ asti ǀ duḥ-kṛtam ǀ
trite ǀ tat ǀ viśvam ǀ āptye ǀ āre ǀ asmat ǀ dadhātana ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ8.47.13 Aṣṭaka 6.4.9.3Anuvāka 8.6.151
-
Ṛk 14
यच्च॒ गोषु॑ दु॒ःष्वप्न्यं॒ यच्चा॒स्मे दु॑हितर्दिवः ।
त्रि॒ताय॒ तद्वि॑भावर्या॒प्त्याय॒ परा॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥यच् च गोषु दुष्ष्वप्न्यं यच् चास्मे दुहितर् दिवः |
त्रिताय तद् विभावर्य् आप्त्याय परा वहानेहसो व ऊतयः सुऊतयो व ऊतयः ||yácca góṣu duḥṣvápnyam yáccāsmé duhitardivaḥ ǀ
tritā́ya tádvibhāvaryāptyā́ya párā vahāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁyac ca goṣu duṣṣvapnyaṃ yac cāsme duhitar divaḥ |
tritāya tad vibhāvary āptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ ||यत् । च॒ । गोषु॑ । दुः॒ऽस्वप्न्य॑म् । यत् । च॒ । अ॒स्मे इति॑ । दु॒हि॒तः॒ । दि॒वः॒ ।
त्रि॒ताय॑ । तत् । वि॒भा॒ऽव॒रि॒ । आ॒प्त्याय॑ । परा॑ । व॒ह॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥यत् । च । गोषु । दुःऽस्वप्न्यम् । यत् । च । अस्मे इति । दुहितः । दिवः ।
त्रिताय । तत् । विभाऽवरि । आप्त्याय । परा । वह । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥yát ǀ ca ǀ góṣu ǀ duḥ-svápnyam ǀ yát ǀ ca ǀ asmé íti ǀ duhitaḥ ǀ divaḥ ǀ
tritā́ya ǀ tát ǀ vibhā-vari ǀ āptyā́ya ǀ párā ǀ vaha ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁyat ǀ ca ǀ goṣu ǀ duḥ-svapnyam ǀ yat ǀ ca ǀ asme iti ǀ duhitaḥ ǀ divaḥ ǀ
tritāya ǀ tat ǀ vibhā-vari ǀ āptyāya ǀ parā ǀ vaha ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ8.47.14 Aṣṭaka 6.4.9.4Anuvāka 8.6.152
-
Ṛk 15
नि॒ष्कं वा॑ घा कृ॒णव॑ते॒ स्रजं॑ वा दुहितर्दिवः ।
त्रि॒ते दु॒ःष्वप्न्यं॒ सर्व॑मा॒प्त्ये परि॑ दद्मस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥निष्कं वा घा कृणवते स्रजं वा दुहितर् दिवः |
त्रिते दुष्ष्वप्न्यं सर्वम् आप्त्ये परि दद्मस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः ||niṣkám vā ghā kṛṇávate srájam vā duhitardivaḥ ǀ
trité duḥṣvápnyam sárvamāptyé pári dadmasyaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁniṣkaṃ vā ghā kṛṇavate srajaṃ vā duhitar divaḥ |
trite duṣṣvapnyaṃ sarvam āptye pari dadmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ ||नि॒ष्कम् । वा॒ । घ॒ । कृ॒णव॑ते । स्रज॑म् । वा॒ । दु॒हि॒तः॒ । दि॒वः॒ ।
त्रि॒ते । दुः॒ऽस्वप्न्य॑म् । सर्व॑म् । आ॒प्त्ये । परि॑ । द॒द्म॒सि॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥निष्कम् । वा । घ । कृणवते । स्रजम् । वा । दुहितः । दिवः ।
त्रिते । दुःऽस्वप्न्यम् । सर्वम् । आप्त्ये । परि । दद्मसि । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥niṣkám ǀ vā ǀ gha ǀ kṛṇávate ǀ srájam ǀ vā ǀ duhitaḥ ǀ divaḥ ǀ
trité ǀ duḥ-svápnyam ǀ sárvam ǀ āptyé ǀ pári ǀ dadmasi ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁniṣkam ǀ vā ǀ gha ǀ kṛṇavate ǀ srajam ǀ vā ǀ duhitaḥ ǀ divaḥ ǀ
trite ǀ duḥ-svapnyam ǀ sarvam ǀ āptye ǀ pari ǀ dadmasi ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ8.47.15 Aṣṭaka 6.4.9.5Anuvāka 8.6.153
-
Ṛk 16
तद॑न्नाय॒ तद॑पसे॒ तं भा॒गमु॑पसे॒दुषे॑ ।
त्रि॒ताय॑ च द्वि॒ताय॒ चोषो॑ दु॒ःष्वप्न्यं॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥तदन्नाय तदपसे तम् भागम् उपसेदुषे |
त्रिताय च द्विताय चोषो दुष्ष्वप्न्यं वहानेहसो व ऊतयः सुऊतयो व ऊतयः ||tádannāya tádapase tám bhāgámupasedúṣe ǀ
tritā́ya ca dvitā́ya cóṣo duḥṣvápnyam vahāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁtadannāya tadapase tam bhāgam upaseduṣe |
tritāya ca dvitāya coṣo duṣṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ ||तत्ऽअ॑न्नाय । तत्ऽअ॑पसे । तम् । भा॒गम् । उ॒प॒ऽसे॒दुषे॑ ।
त्रि॒ताय॑ । च॒ । द्वि॒ताय॑ । च॒ । उषः॑ । दुः॒ऽस्वप्न्य॑म् । व॒ह॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥तत्ऽअन्नाय । तत्ऽअपसे । तम् । भागम् । उपऽसेदुषे ।
त्रिताय । च । द्विताय । च । उषः । दुःऽस्वप्न्यम् । वह । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥tát-annāya ǀ tát-apase ǀ tám ǀ bhāgám ǀ upa-sedúṣe ǀ
tritā́ya ǀ ca ǀ dvitā́ya ǀ ca ǀ úṣaḥ ǀ duḥ-svápnyam ǀ vaha ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁtat-annāya ǀ tat-apase ǀ tam ǀ bhāgam ǀ upa-seduṣe ǀ
tritāya ǀ ca ǀ dvitāya ǀ ca ǀ uṣaḥ ǀ duḥ-svapnyam ǀ vaha ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ8.47.16 Aṣṭaka 6.4.10.1Anuvāka 8.6.154
-
Ṛk 17
यथा॑ क॒लां यथा॑ श॒फं यथ॑ ऋ॒णं सं॒नया॑मसि ।
ए॒वा दु॒ःष्वप्न्यं॒ सर्व॑मा॒प्त्ये सं न॑यामस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥यथा कलां यथा शफं यथ ऋणं संनयामसि |
एवा दुष्ष्वप्न्यं सर्वम् आप्त्ये सं नयामस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः ||yáthā kalā́m yáthā śaphám yátha ṛṇám saṃnáyāmasi ǀ
evā́ duḥṣvápnyam sárvamāptyé sám nayāmasyaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁyathā kalāṃ yathā śaphaṃ yatha ṛṇaṃ saṃnayāmasi |
evā duṣṣvapnyaṃ sarvam āptye saṃ nayāmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ ||यथा॑ । क॒लाम् । यथा॑ । श॒फम् । यथा॑ । ऋ॒णम् । स॒म्ऽनया॑मसि ।
ए॒व । दुः॒ऽस्वप्न्य॑म् । सर्व॑म् । आ॒प्त्ये । सम् । न॒या॒म॒सि॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥यथा । कलाम् । यथा । शफम् । यथा । ऋणम् । सम्ऽनयामसि ।
एव । दुःऽस्वप्न्यम् । सर्वम् । आप्त्ये । सम् । नयामसि । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥yáthā ǀ kalā́m ǀ yáthā ǀ śaphám ǀ yáthā ǀ ṛṇám ǀ sam-náyāmasi ǀ
evá ǀ duḥ-svápnyam ǀ sárvam ǀ āptyé ǀ sám ǀ nayāmasi ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁyathā ǀ kalām ǀ yathā ǀ śapham ǀ yathā ǀ ṛṇam ǀ sam-nayāmasi ǀ
eva ǀ duḥ-svapnyam ǀ sarvam ǀ āptye ǀ sam ǀ nayāmasi ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ8.47.17 Aṣṭaka 6.4.10.2Anuvāka 8.6.155
-
Ṛk 18
अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यं ।
उषो॒ यस्मा॑द्दु॒ःष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छत्वने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥अजैष्माद्यासनाम चाभूमानागसो वयम् |
उषो यस्माद् दुष्ष्वप्न्याद् अभैष्माप तद् उच्छत्व् अनेहसो व ऊतयः सुऊतयो व ऊतयः ||ájaiṣmādyā́sanāma cā́bhūmā́nāgaso vayám ǀ
úṣo yásmādduḥṣvápnyādábhaiṣmā́pa táducchatvaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁajaiṣmādyāsanāma cābhūmānāgaso vayam |
uṣo yasmād duṣṣvapnyād abhaiṣmāpa tad ucchatv anehaso va ūtayaḥ suūtayo va ūtayaḥ ||अजै॑ष्म । अ॒द्य । अस॑नाम । च॒ । अभू॑म । अना॑गसः । व॒यम् ।
उषः॑ । यस्मा॑त् । दुः॒ऽस्वप्न्या॑त् । अभै॑ष्म । अप॑ । तत् । उ॒च्छ॒तु॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥अजैष्म । अद्य । असनाम । च । अभूम । अनागसः । वयम् ।
उषः । यस्मात् । दुःऽस्वप्न्यात् । अभैष्म । अप । तत् । उच्छतु । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ájaiṣma ǀ adyá ǀ ásanāma ǀ ca ǀ ábhūma ǀ ánāgasaḥ ǀ vayám ǀ
úṣaḥ ǀ yásmāt ǀ duḥ-svápnyāt ǀ ábhaiṣma ǀ ápa ǀ tát ǀ ucchatu ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁajaiṣma ǀ adya ǀ asanāma ǀ ca ǀ abhūma ǀ anāgasaḥ ǀ vayam ǀ
uṣaḥ ǀ yasmāt ǀ duḥ-svapnyāt ǀ abhaiṣma ǀ apa ǀ tat ǀ ucchatu ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ8.47.18 Aṣṭaka 6.4.10.3Anuvāka 8.6.156
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.