Ṛk 8.47.12
Saṃhitā
नेह भ॒द्रं र॑क्ष॒स्विने॒ नाव॒यै नोप॒या उ॒त ।
गवे॑ च भ॒द्रं धे॒नवे॑ वी॒राय॑ च श्रवस्य॒ते॑ऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
नेह भद्रं रक्षस्विने नावयै नोपया उत |
गवे च भद्रं धेनवे वीराय च श्रवस्यते ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ||
néhá bhadrám rakṣasvíne nā́vayái nópayā́ utá ǀ
gáve ca bhadrám dhenáve vīrā́ya ca śravasyaté’neháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ
neha bhadraṃ rakṣasvine nāvayai nopayā uta |
gave ca bhadraṃ dhenave vīrāya ca śravasyate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ ||
Padapāṭha
न । इ॒ह । भ॒द्रम् । र॒क्ष॒स्विने॑ । न । अ॒व॒ऽयै । न । उ॒प॒ऽयै । उ॒त ।
गवे॑ । च॒ । भ॒द्रम् । धे॒नवे॑ । वी॒राय॑ । च॒ । श्र॒व॒स्य॒ते । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥
न । इह । भद्रम् । रक्षस्विने । न । अवऽयै । न । उपऽयै । उत ।
गवे । च । भद्रम् । धेनवे । वीराय । च । श्रवस्यते । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥
ná ǀ ihá ǀ bhadrám ǀ rakṣasvíne ǀ ná ǀ ava-yái ǀ ná ǀ upa-yái ǀ utá ǀ
gáve ǀ ca ǀ bhadrám ǀ dhenáve ǀ vīrā́ya ǀ ca ǀ śravasyaté ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ
na ǀ iha ǀ bhadram ǀ rakṣasvine ǀ na ǀ ava-yai ǀ na ǀ upa-yai ǀ uta ǀ
gave ǀ ca ǀ bhadram ǀ dhenave ǀ vīrāya ǀ ca ǀ śravasyate ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.047.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.09.02
- Maṇḍala · Anuvāka · Ṛk
- 08.06.150
- Devatā देवता
- 1-13, 17: Ādityās; 14-16, 18: Ādityās, Uṣas
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Mahāpaṅkti
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.