Ṛk 8.47.13
Saṃhitā
यदा॒विर्यद॑पी॒च्यं१॒॑ देवा॑सो॒ अस्ति॑ दुष्कृ॒तं ।
त्रि॒ते तद्विश्व॑मा॒प्त्य आ॒रे अ॒स्मद्द॑धातनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
यद् आविर् यद् अपीच्यं देवासो अस्ति दुष्कृतम् |
त्रिते तद् विश्वम् आप्त्य आरे अस्मद् दधातनानेहसो व ऊतयः सुऊतयो व ऊतयः ||
yádāvíryádapīcyám dévāso ásti duṣkṛtám ǀ
trité tádvíśvamāptyá āré asmáddadhātanāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ
yad āvir yad apīcyaṃ devāso asti duṣkṛtam |
trite tad viśvam āptya āre asmad dadhātanānehaso va ūtayaḥ suūtayo va ūtayaḥ ||
Padapāṭha
यत् । आ॒विः । यत् । अ॒पी॒च्य॑म् । देवा॑सः । अस्ति॑ । दुः॒ऽकृ॒तम् ।
त्रि॒ते । तत् । विश्व॑म् । आ॒प्त्ये । आ॒रे । अ॒स्मत् । द॒धा॒त॒न॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥
यत् । आविः । यत् । अपीच्यम् । देवासः । अस्ति । दुःऽकृतम् ।
त्रिते । तत् । विश्वम् । आप्त्ये । आरे । अस्मत् । दधातन । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥
yát ǀ āvíḥ ǀ yát ǀ apīcyám ǀ dévāsaḥ ǀ ásti ǀ duḥ-kṛtám ǀ
trité ǀ tát ǀ víśvam ǀ āptyé ǀ āré ǀ asmát ǀ dadhātana ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ
yat ǀ āviḥ ǀ yat ǀ apīcyam ǀ devāsaḥ ǀ asti ǀ duḥ-kṛtam ǀ
trite ǀ tat ǀ viśvam ǀ āptye ǀ āre ǀ asmat ǀ dadhātana ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.047.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.09.03
- Maṇḍala · Anuvāka · Ṛk
- 08.06.151
- Devatā देवता
- 1-13, 17: Ādityās; 14-16, 18: Ādityās, Uṣas
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Mahāpaṅkti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.