Sūkta 32
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Medhātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (2, 4, 6, 8-12, 14, 16, 17, 21, 22, 24-26); nicṛdgāyatrī (1, 7, 13, 15, 27, 28); virāḍgāyatrī (3, 5, 19, 20, 23, 29); bhuriggāyatrī (18, 30)
2nd set of styles gāyatrī
-
Ṛk 1
प्र कृ॒तान्यृ॑जी॒षिणः॒ कण्वा॒ इंद्र॑स्य॒ गाथ॑या ।
मदे॒ सोम॑स्य वोचत ॥प्र कृतान्य् ऋजीषिणः कण्वा इन्द्रस्य गाथया |
मदे सोमस्य वोचत ||prá kṛtā́nyṛjīṣíṇaḥ káṇvā índrasya gā́thayā ǀ
máde sómasya vocata ǁpra kṛtāny ṛjīṣiṇaḥ kaṇvā indrasya gāthayā |
made somasya vocata ||प्र । कृ॒तानि॑ । ऋ॒जी॒षिणः॑ । कण्वाः॑ । इन्द्र॑स्य । गाथ॑या ।
मदे॑ । सोम॑स्य । वो॒च॒त॒ ॥प्र । कृतानि । ऋजीषिणः । कण्वाः । इन्द्रस्य । गाथया ।
मदे । सोमस्य । वोचत ॥prá ǀ kṛtā́ni ǀ ṛjīṣíṇaḥ ǀ káṇvāḥ ǀ índrasya ǀ gā́thayā ǀ
máde ǀ sómasya ǀ vocata ǁpra ǀ kṛtāni ǀ ṛjīṣiṇaḥ ǀ kaṇvāḥ ǀ indrasya ǀ gāthayā ǀ
made ǀ somasya ǀ vocata ǁ8.32.1 Aṣṭaka 6.3.1.1Anuvāka 8.5.19
-
Ṛk 2
यः सृबिं॑द॒मन॑र्शनिं॒ पिप्रुं॑ दा॒सम॑ही॒शुवं॑ ।
वधी॑दु॒ग्रो रि॒णन्न॒पः ॥यः सृबिन्दम् अनर्शनिम् पिप्रुं दासम् अहीशुवम् |
वधीद् उग्रो रिणन्न् अपः ||yáḥ sṛ́bindamánarśanim píprum dāsámahīśúvam ǀ
vádhīdugró riṇánnapáḥ ǁyaḥ sṛbindam anarśanim pipruṃ dāsam ahīśuvam |
vadhīd ugro riṇann apaḥ ||यः । सृबि॑न्दम् । अन॑र्शनिम् । पिप्रु॑म् । दा॒सम् । अ॒ही॒शुव॑म् ।
वधी॑त् । उ॒ग्रः । रि॒णन् । अ॒पः ॥यः । सृबिन्दम् । अनर्शनिम् । पिप्रुम् । दासम् । अहीशुवम् ।
वधीत् । उग्रः । रिणन् । अपः ॥yáḥ ǀ sṛ́bindam ǀ ánarśanim ǀ píprum ǀ dāsám ǀ ahīśúvam ǀ
vádhīt ǀ ugráḥ ǀ riṇán ǀ apáḥ ǁyaḥ ǀ sṛbindam ǀ anarśanim ǀ piprum ǀ dāsam ǀ ahīśuvam ǀ
vadhīt ǀ ugraḥ ǀ riṇan ǀ apaḥ ǁ8.32.2 Aṣṭaka 6.3.1.2Anuvāka 8.5.20
-
Ṛk 3
न्यर्बु॑दस्य वि॒ष्टपं॑ व॒र्ष्माणं॑ बृह॒तस्ति॑र ।
कृ॒षे तदिं॑द्र॒ पौंस्यं॑ ॥न्य् अर्बुदस्य विष्टपं वर्ष्माणम् बृहतस् तिर |
कृषे तद् इन्द्र पौंस्यम् ||nyárbudasya viṣṭápam varṣmā́ṇam bṛhatástira ǀ
kṛṣé tádindra páuṃsyam ǁny arbudasya viṣṭapaṃ varṣmāṇam bṛhatas tira |
kṛṣe tad indra pauṃsyam ||नि । अर्बु॑दस्य । वि॒ष्टप॑म् । व॒र्ष्माण॑म् । बृ॒ह॒तः । ति॒र॒ ।
कृ॒षे । तत् । इ॒न्द्र॒ । पौंस्य॑म् ॥नि । अर्बुदस्य । विष्टपम् । वर्ष्माणम् । बृहतः । तिर ।
कृषे । तत् । इन्द्र । पौंस्यम् ॥ní ǀ árbudasya ǀ viṣṭápam ǀ varṣmā́ṇam ǀ bṛhatáḥ ǀ tira ǀ
kṛṣé ǀ tát ǀ indra ǀ páuṃsyam ǁni ǀ arbudasya ǀ viṣṭapam ǀ varṣmāṇam ǀ bṛhataḥ ǀ tira ǀ
kṛṣe ǀ tat ǀ indra ǀ pauṃsyam ǁ8.32.3 Aṣṭaka 6.3.1.3Anuvāka 8.5.21
-
Ṛk 4
प्रति॑ श्रु॒ताय॑ वो धृ॒षत्तूर्णा॑शं॒ न गि॒रेरधि॑ ।
हु॒वे सु॑शि॒प्रमू॒तये॑ ॥प्रति श्रुताय वो धृषत् तूर्णाशं न गिरेर् अधि |
हुवे सुशिप्रम् ऊतये ||práti śrutā́ya vo dhṛṣáttū́rṇāśam ná girérádhi ǀ
huvé suśiprámūtáye ǁprati śrutāya vo dhṛṣat tūrṇāśaṃ na girer adhi |
huve suśipram ūtaye ||प्रति॑ । श्रु॒ताय॑ । वः॒ । धृ॒षत् । तूर्णा॑शम् । न । गि॒रेः । अधि॑ ।
हु॒वे । सु॒ऽशि॒प्रम् । ऊ॒तये॑ ॥प्रति । श्रुताय । वः । धृषत् । तूर्णाशम् । न । गिरेः । अधि ।
हुवे । सुऽशिप्रम् । ऊतये ॥práti ǀ śrutā́ya ǀ vaḥ ǀ dhṛṣát ǀ tū́rṇāśam ǀ ná ǀ giréḥ ǀ ádhi ǀ
huvé ǀ su-śiprám ǀ ūtáye ǁprati ǀ śrutāya ǀ vaḥ ǀ dhṛṣat ǀ tūrṇāśam ǀ na ǀ gireḥ ǀ adhi ǀ
huve ǀ su-śipram ǀ ūtaye ǁ8.32.4 Aṣṭaka 6.3.1.4Anuvāka 8.5.22
-
Ṛk 5
स गोरश्व॑स्य॒ वि व्र॒जं मं॑दा॒नः सो॒म्येभ्यः॑ ।
पुरं॒ न शू॑र दर्षसि ॥स गोर् अश्वस्य वि व्रजम् मन्दानः सोम्येभ्यः |
पुरं न शूर दर्षसि ||sá góráśvasya ví vrajám mandānáḥ somyébhyaḥ ǀ
púram ná śūra darṣasi ǁsa gor aśvasya vi vrajam mandānaḥ somyebhyaḥ |
puraṃ na śūra darṣasi ||सः । गोः । अश्व॑स्य । वि । व्र॒जम् । म॒न्दा॒नः । सो॒म्येभ्यः॑ ।
पुर॑म् । न । शू॒र॒ । द॒र्ष॒सि॒ ॥सः । गोः । अश्वस्य । वि । व्रजम् । मन्दानः । सोम्येभ्यः ।
पुरम् । न । शूर । दर्षसि ॥sáḥ ǀ góḥ ǀ áśvasya ǀ ví ǀ vrajám ǀ mandānáḥ ǀ somyébhyaḥ ǀ
púram ǀ ná ǀ śūra ǀ darṣasi ǁsaḥ ǀ goḥ ǀ aśvasya ǀ vi ǀ vrajam ǀ mandānaḥ ǀ somyebhyaḥ ǀ
puram ǀ na ǀ śūra ǀ darṣasi ǁ8.32.5 Aṣṭaka 6.3.1.5Anuvāka 8.5.23
-
Ṛk 6
यदि॑ मे रा॒रणः॑ सु॒त उ॒क्थे वा॒ दध॑से॒ चनः॑ ।
आ॒रादुप॑ स्व॒धा ग॑हि ॥यदि मे रारणः सुत उक्थे वा दधसे चनः |
आराद् उप स्वधा गहि ||yádi me rāráṇaḥ sutá ukthé vā dádhase cánaḥ ǀ
ārā́dúpa svadhā́ gahi ǁyadi me rāraṇaḥ suta ukthe vā dadhase canaḥ |
ārād upa svadhā gahi ||यदि॑ । मे॒ । र॒रणः॑ । सु॒ते । उ॒क्थे । वा॒ । दध॑से । चनः॑ ।
आ॒रात् । उप॑ । स्व॒धा । आ । ग॒हि॒ ॥यदि । मे । ररणः । सुते । उक्थे । वा । दधसे । चनः ।
आरात् । उप । स्वधा । आ । गहि ॥yádi ǀ me ǀ raráṇaḥ ǀ suté ǀ ukthé ǀ vā ǀ dádhase ǀ cánaḥ ǀ
ārā́t ǀ úpa ǀ svadhā́ ǀ ā́ ǀ gahi ǁyadi ǀ me ǀ raraṇaḥ ǀ sute ǀ ukthe ǀ vā ǀ dadhase ǀ canaḥ ǀ
ārāt ǀ upa ǀ svadhā ǀ ā ǀ gahi ǁ8.32.6 Aṣṭaka 6.3.2.1Anuvāka 8.5.24
-
Ṛk 7
व॒यं घा॑ ते॒ अपि॑ ष्मसि स्तो॒तार॑ इंद्र गिर्वणः ।
त्वं नो॑ जिन्व सोमपाः ॥वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः |
त्वं नो जिन्व सोमपाः ||vayám ghā te ápi ṣmasi stotā́ra indra girvaṇaḥ ǀ
tvám no jinva somapāḥ ǁvayaṃ ghā te api ṣmasi stotāra indra girvaṇaḥ |
tvaṃ no jinva somapāḥ ||व॒यम् । घ॒ । ते॒ । अपि॑ । स्म॒सि॒ । स्तो॒तारः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
त्वम् । नः॒ । जि॒न्व॒ । सो॒म॒ऽपाः॒ ॥वयम् । घ । ते । अपि । स्मसि । स्तोतारः । इन्द्र । गिर्वणः ।
त्वम् । नः । जिन्व । सोमऽपाः ॥vayám ǀ gha ǀ te ǀ ápi ǀ smasi ǀ stotā́raḥ ǀ indra ǀ girvaṇaḥ ǀ
tvám ǀ naḥ ǀ jinva ǀ soma-pāḥ ǁvayam ǀ gha ǀ te ǀ api ǀ smasi ǀ stotāraḥ ǀ indra ǀ girvaṇaḥ ǀ
tvam ǀ naḥ ǀ jinva ǀ soma-pāḥ ǁ8.32.7 Aṣṭaka 6.3.2.2Anuvāka 8.5.25
-
Ṛk 8
उ॒त नः॑ पि॒तुमा भ॑र संररा॒णो अवि॑क्षितं ।
मघ॑व॒न्भूरि॑ ते॒ वसु॑ ॥उत नः पितुम् आ भर संरराणो अविक्षितम् |
मघवन् भूरि ते वसु ||utá naḥ pitúmā́ bhara saṃrarāṇó ávikṣitam ǀ
mághavanbhū́ri te vásu ǁuta naḥ pitum ā bhara saṃrarāṇo avikṣitam |
maghavan bhūri te vasu ||उ॒त । नः॒ । पि॒तुम् । आ । भ॒र॒ । स॒म्ऽर॒रा॒णः । अवि॑ऽक्षितम् ।
मघ॑ऽवन् । भूरि॑ । ते॒ । वसु॑ ॥उत । नः । पितुम् । आ । भर । सम्ऽरराणः । अविऽक्षितम् ।
मघऽवन् । भूरि । ते । वसु ॥utá ǀ naḥ ǀ pitúm ǀ ā́ ǀ bhara ǀ sam-rarāṇáḥ ǀ ávi-kṣitam ǀ
mágha-van ǀ bhū́ri ǀ te ǀ vásu ǁuta ǀ naḥ ǀ pitum ǀ ā ǀ bhara ǀ sam-rarāṇaḥ ǀ avi-kṣitam ǀ
magha-van ǀ bhūri ǀ te ǀ vasu ǁ8.32.8 Aṣṭaka 6.3.2.3Anuvāka 8.5.26
-
Ṛk 9
उ॒त नो॒ गोम॑तस्कृधि॒ हिर॑ण्यवतो अ॒श्विनः॑ ।
इळा॑भिः॒ सं र॑भेमहि ॥उत नो गोमतस् कृधि हिरण्यवतो अश्विनः |
इऌआभिः सं रभेमहि ||utá no gómataskṛdhi híraṇyavato aśvínaḥ ǀ
íḷābhiḥ sám rabhemahi ǁuta no gomatas kṛdhi hiraṇyavato aśvinaḥ |
iḷābhiḥ saṃ rabhemahi ||उ॒त । नः॒ । गोऽम॑तः । कृ॒धि॒ । हिर॑ण्यऽवतः । अ॒श्विनः॑ ।
इळा॑भिः । सम् । र॒भे॒म॒हि॒ ॥उत । नः । गोऽमतः । कृधि । हिरण्यऽवतः । अश्विनः ।
इळाभिः । सम् । रभेमहि ॥utá ǀ naḥ ǀ gó-mataḥ ǀ kṛdhi ǀ híraṇya-vataḥ ǀ aśvínaḥ ǀ
íḷābhiḥ ǀ sám ǀ rabhemahi ǁuta ǀ naḥ ǀ go-mataḥ ǀ kṛdhi ǀ hiraṇya-vataḥ ǀ aśvinaḥ ǀ
iḷābhiḥ ǀ sam ǀ rabhemahi ǁ8.32.9 Aṣṭaka 6.3.2.4Anuvāka 8.5.27
-
Ṛk 10
बृ॒बदु॑क्थं हवामहे सृ॒प्रक॑रस्नमू॒तये॑ ।
साधु॑ कृ॒ण्वंत॒मव॑से ॥बृबदुक्थं हवामहे सृप्रकरस्नम् ऊतये |
साधु कृण्वन्तम् अवसे ||bṛbáduktham havāmahe sṛprákarasnamūtáye ǀ
sā́dhu kṛṇvántamávase ǁbṛbadukthaṃ havāmahe sṛprakarasnam ūtaye |
sādhu kṛṇvantam avase ||बृ॒बत्ऽउ॑क्थम् । ह॒वा॒म॒हे॒ । सृ॒प्रऽक॑रस्नम् । ऊ॒तये॑ ।
साधु॑ । कृ॒ण्वन्त॑म् । अव॑से ॥बृबत्ऽउक्थम् । हवामहे । सृप्रऽकरस्नम् । ऊतये ।
साधु । कृण्वन्तम् । अवसे ॥bṛbát-uktham ǀ havāmahe ǀ sṛprá-karasnam ǀ ūtáye ǀ
sā́dhu ǀ kṛṇvántam ǀ ávase ǁbṛbat-uktham ǀ havāmahe ǀ sṛpra-karasnam ǀ ūtaye ǀ
sādhu ǀ kṛṇvantam ǀ avase ǁ8.32.10 Aṣṭaka 6.3.2.5Anuvāka 8.5.28
-
Ṛk 11
यः सं॒स्थे चि॑च्छ॒तक्र॑तु॒रादीं॑ कृ॒णोति॑ वृत्र॒हा ।
ज॒रि॒तृभ्यः॑ पुरू॒वसुः॑ ॥यः संस्थे चिच् छतक्रतुर् आद् ईं कृणोति वृत्रहा |
जरितृभ्यः पुरूवसुः ||yáḥ saṃsthé cicchatákraturā́dīm kṛṇóti vṛtrahā́ ǀ
jaritṛ́bhyaḥ purūvásuḥ ǁyaḥ saṃsthe cic chatakratur ād īṃ kṛṇoti vṛtrahā |
jaritṛbhyaḥ purūvasuḥ ||यः । स॒म्ऽस्थे । चि॒त् । श॒तऽक्र॑तुः । आत् । ई॒म् । कृ॒णोति॑ । वृ॒त्र॒ऽहा ।
ज॒रि॒तृऽभ्यः॑ । पु॒रु॒ऽवसुः॑ ॥यः । सम्ऽस्थे । चित् । शतऽक्रतुः । आत् । ईम् । कृणोति । वृत्रऽहा ।
जरितृऽभ्यः । पुरुऽवसुः ॥yáḥ ǀ sam-sthé ǀ cit ǀ śatá-kratuḥ ǀ ā́t ǀ īm ǀ kṛṇóti ǀ vṛtra-hā́ ǀ
jaritṛ́-bhyaḥ ǀ puru-vásuḥ ǁyaḥ ǀ sam-sthe ǀ cit ǀ śata-kratuḥ ǀ āt ǀ īm ǀ kṛṇoti ǀ vṛtra-hā ǀ
jaritṛ-bhyaḥ ǀ puru-vasuḥ ǁ8.32.11 Aṣṭaka 6.3.3.1Anuvāka 8.5.29
-
Ṛk 12
स नः॑ श॒क्रश्चि॒दा श॑क॒द्दान॑वाँ अंतराभ॒रः ।
इंद्रो॒ विश्वा॑भिरू॒तिभिः॑ ॥स नः शक्रश् चिद् आ शकद् दानवां अन्तराभरः |
इन्द्रो विश्वाभिर् ऊतिभिः ||sá naḥ śakráścidā́ śakaddā́navām̐ antarābharáḥ ǀ
índro víśvābhirūtíbhiḥ ǁsa naḥ śakraś cid ā śakad dānavāṃ antarābharaḥ |
indro viśvābhir ūtibhiḥ ||सः । नः॒ । श॒क्रः । चि॒त् । आ । श॒क॒त् । दान॑ऽवान् । अ॒न्त॒र॒ऽआ॒भ॒रः ।
इन्द्रः॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ॥सः । नः । शक्रः । चित् । आ । शकत् । दानऽवान् । अन्तरऽआभरः ।
इन्द्रः । विश्वाभिः । ऊतिऽभिः ॥sáḥ ǀ naḥ ǀ śakráḥ ǀ cit ǀ ā́ ǀ śakat ǀ dā́na-vān ǀ antara-ābharáḥ ǀ
índraḥ ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǁsaḥ ǀ naḥ ǀ śakraḥ ǀ cit ǀ ā ǀ śakat ǀ dāna-vān ǀ antara-ābharaḥ ǀ
indraḥ ǀ viśvābhiḥ ǀ ūti-bhiḥ ǁ8.32.12 Aṣṭaka 6.3.3.2Anuvāka 8.5.30
-
Ṛk 13
यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्त्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।
तमिंद्र॑म॒भि गा॑यत ॥यो रायो ऽवनिर् महान् सुपारः सुन्वतः सखा |
तम् इन्द्रम् अभि गायत ||yó rāyó’vánirmahā́ntsupāráḥ sunvatáḥ sákhā ǀ
támíndramabhí gāyata ǁyo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā |
tam indram abhi gāyata ||यः । रा॒यः । अ॒वनिः॑ । म॒हान् । सु॒ऽपा॒रः । सु॒न्व॒तः । सखा॑ ।
तम् । इन्द्र॑म् । अ॒भि । गा॒य॒त॒ ॥यः । रायः । अवनिः । महान् । सुऽपारः । सुन्वतः । सखा ।
तम् । इन्द्रम् । अभि । गायत ॥yáḥ ǀ rāyáḥ ǀ avániḥ ǀ mahā́n ǀ su-pāráḥ ǀ sunvatáḥ ǀ sákhā ǀ
tám ǀ índram ǀ abhí ǀ gāyata ǁyaḥ ǀ rāyaḥ ǀ avaniḥ ǀ mahān ǀ su-pāraḥ ǀ sunvataḥ ǀ sakhā ǀ
tam ǀ indram ǀ abhi ǀ gāyata ǁ8.32.13 Aṣṭaka 6.3.3.3Anuvāka 8.5.31
-
Ṛk 14
आ॒यं॒तारं॒ महि॑ स्थि॒रं पृत॑नासु श्रवो॒जितं॑ ।
भूरे॒रीशा॑न॒मोज॑सा ॥आयन्तारम् महि स्थिरम् पृतनासु श्रवोजितम् |
भूरेर् ईशानम् ओजसा ||āyantā́ram máhi sthirám pṛ́tanāsu śravojítam ǀ
bhū́rerī́śānamójasā ǁāyantāram mahi sthiram pṛtanāsu śravojitam |
bhūrer īśānam ojasā ||आ॒ऽय॒न्तार॑म् । महि॑ । स्थि॒रम् । पृत॑नासु । श्र॒वः॒ऽजित॑म् ।
भूरेः॑ । ईशा॑नम् । ओज॑सा ॥आऽयन्तारम् । महि । स्थिरम् । पृतनासु । श्रवःऽजितम् ।
भूरेः । ईशानम् । ओजसा ॥ā-yantā́ram ǀ máhi ǀ sthirám ǀ pṛ́tanāsu ǀ śravaḥ-jítam ǀ
bhū́reḥ ǀ ī́śānam ǀ ójasā ǁā-yantāram ǀ mahi ǀ sthiram ǀ pṛtanāsu ǀ śravaḥ-jitam ǀ
bhūreḥ ǀ īśānam ǀ ojasā ǁ8.32.14 Aṣṭaka 6.3.3.4Anuvāka 8.5.32
-
Ṛk 15
नकि॑रस्य॒ शची॑नां नियं॒ता सू॒नृता॑नां ।
नकि॑र्व॒क्ता न दा॒दिति॑ ॥नकिर् अस्य शचीनां नियन्ता सूनृतानाम् |
नकिर् वक्ता न दाद् इति ||nákirasya śácīnām niyantā́ sūnṛ́tānām ǀ
nákirvaktā́ ná dādíti ǁnakir asya śacīnāṃ niyantā sūnṛtānām |
nakir vaktā na dād iti ||नकिः॑ । अ॒स्य॒ । शची॑नाम् । नि॒ऽय॒न्ता । सू॒नृता॑नाम् ।
नकिः॑ । व॒क्ता । न । दा॒त् । इति॑ ॥नकिः । अस्य । शचीनाम् । निऽयन्ता । सूनृतानाम् ।
नकिः । वक्ता । न । दात् । इति ॥nákiḥ ǀ asya ǀ śácīnām ǀ ni-yantā́ ǀ sūnṛ́tānām ǀ
nákiḥ ǀ vaktā́ ǀ ná ǀ dāt ǀ íti ǁnakiḥ ǀ asya ǀ śacīnām ǀ ni-yantā ǀ sūnṛtānām ǀ
nakiḥ ǀ vaktā ǀ na ǀ dāt ǀ iti ǁ8.32.15 Aṣṭaka 6.3.3.5Anuvāka 8.5.33
-
Ṛk 16
न नू॒नं ब्र॒ह्मणा॑मृ॒णं प्रा॑शू॒नाम॑स्ति सुन्व॒तां ।
न सोमो॑ अप्र॒ता प॑पे ॥न नूनम् ब्रह्मणाम् ऋणम् प्राशूनाम् अस्ति सुन्वताम् |
न सोमो अप्रता पपे ||ná nūnám brahmáṇāmṛṇám prāśūnā́masti sunvatā́m ǀ
ná sómo apratā́ pape ǁna nūnam brahmaṇām ṛṇam prāśūnām asti sunvatām |
na somo apratā pape ||न । नू॒नम् । ब्र॒ह्मणा॑म् । ऋ॒णम् । प्रा॒शू॒नाम् । अ॒स्ति॒ । सु॒न्व॒ताम् ।
न । सोमः॑ । अ॒प्र॒ता । प॒पे॒ ॥न । नूनम् । ब्रह्मणाम् । ऋणम् । प्राशूनाम् । अस्ति । सुन्वताम् ।
न । सोमः । अप्रता । पपे ॥ná ǀ nūnám ǀ brahmáṇām ǀ ṛṇám ǀ prāśūnā́m ǀ asti ǀ sunvatā́m ǀ
ná ǀ sómaḥ ǀ apratā́ ǀ pape ǁna ǀ nūnam ǀ brahmaṇām ǀ ṛṇam ǀ prāśūnām ǀ asti ǀ sunvatām ǀ
na ǀ somaḥ ǀ apratā ǀ pape ǁ8.32.16 Aṣṭaka 6.3.4.1Anuvāka 8.5.34
-
Ṛk 17
पन्य॒ इदुप॑ गायत॒ पन्य॑ उ॒क्थानि॑ शंसत ।
ब्रह्मा॑ कृणोत॒ पन्य॒ इत् ॥पन्य इद् उप गायत पन्य उक्थानि शंसत |
ब्रह्मा कृणोत पन्य इत् ||pánya ídúpa gāyata pánya ukthā́ni śaṃsata ǀ
bráhmā kṛṇota pánya ít ǁpanya id upa gāyata panya ukthāni śaṃsata |
brahmā kṛṇota panya it ||पन्ये॑ । इत् । उप॑ । गा॒य॒त॒ । पन्ये॑ । उ॒क्थानि॑ । शं॒स॒त॒ ।
ब्रह्म॑ । कृ॒णो॒त॒ । पन्ये॑ । इत् ॥पन्ये । इत् । उप । गायत । पन्ये । उक्थानि । शंसत ।
ब्रह्म । कृणोत । पन्ये । इत् ॥pánye ǀ ít ǀ úpa ǀ gāyata ǀ pánye ǀ ukthā́ni ǀ śaṃsata ǀ
bráhma ǀ kṛṇota ǀ pánye ǀ ít ǁpanye ǀ it ǀ upa ǀ gāyata ǀ panye ǀ ukthāni ǀ śaṃsata ǀ
brahma ǀ kṛṇota ǀ panye ǀ it ǁ8.32.17 Aṣṭaka 6.3.4.2Anuvāka 8.5.35
-
Ṛk 18
पन्य॒ आ द॑र्दिरच्छ॒ता स॒हस्रा॑ वा॒ज्यवृ॑तः ।
इंद्रो॒ यो यज्व॑नो वृ॒धः ॥पन्य आ दर्दिरच् छता सहस्रा वाज्य् अवृतः |
इन्द्रो यो यज्वनो वृधः ||pánya ā́ dardiracchatā́ sahásrā vājyávṛtaḥ ǀ
índro yó yájvano vṛdháḥ ǁpanya ā dardirac chatā sahasrā vājy avṛtaḥ |
indro yo yajvano vṛdhaḥ ||पन्यः॑ । आ । द॒र्दि॒र॒त् । श॒ता । स॒हस्रा॑ । वा॒जी । अवृ॑तः ।
इन्द्रः॑ । यः । यज्व॑नः । वृ॒धः ॥पन्यः । आ । दर्दिरत् । शता । सहस्रा । वाजी । अवृतः ।
इन्द्रः । यः । यज्वनः । वृधः ॥pányaḥ ǀ ā́ ǀ dardirat ǀ śatā́ ǀ sahásrā ǀ vājī́ ǀ ávṛtaḥ ǀ
índraḥ ǀ yáḥ ǀ yájvanaḥ ǀ vṛdháḥ ǁpanyaḥ ǀ ā ǀ dardirat ǀ śatā ǀ sahasrā ǀ vājī ǀ avṛtaḥ ǀ
indraḥ ǀ yaḥ ǀ yajvanaḥ ǀ vṛdhaḥ ǁ8.32.18 Aṣṭaka 6.3.4.3Anuvāka 8.5.36
-
Ṛk 19
वि षू च॑र स्व॒धा अनु॑ कृष्टी॒नामन्वा॒हुवः॑ ।
इंद्र॒ पिब॑ सु॒तानां॑ ॥वि षू चर स्वधा अनु कृष्टीनाम् अन्व् आहुवः |
इन्द्र पिब सुतानाम् ||ví ṣū́ cara svadhā́ ánu kṛṣṭīnā́mánvāhúvaḥ ǀ
índra píba sutā́nām ǁvi ṣū cara svadhā anu kṛṣṭīnām anv āhuvaḥ |
indra piba sutānām ||वि । सु । च॒र॒ । स्व॒धाः । अनु॑ । कृ॒ष्टी॒नाम् । अनु॑ । आ॒ऽहुवः॑ ।
इन्द्र॑ । पिब॑ । सु॒ताना॑म् ॥वि । सु । चर । स्वधाः । अनु । कृष्टीनाम् । अनु । आऽहुवः ।
इन्द्र । पिब । सुतानाम् ॥ví ǀ sú ǀ cara ǀ svadhā́ḥ ǀ ánu ǀ kṛṣṭīnā́m ǀ ánu ǀ ā-húvaḥ ǀ
índra ǀ píba ǀ sutā́nām ǁvi ǀ su ǀ cara ǀ svadhāḥ ǀ anu ǀ kṛṣṭīnām ǀ anu ǀ ā-huvaḥ ǀ
indra ǀ piba ǀ sutānām ǁ8.32.19 Aṣṭaka 6.3.4.4Anuvāka 8.5.37
-
Ṛk 20
पिब॒ स्वधै॑नवानामु॒त यस्तुग्र्ये॒ सचा॑ ।
उ॒तायमिं॑द्र॒ यस्तव॑ ॥पिब स्वधैनवानाम् उत यस् तुग्र्ये सचा |
उतायम् इन्द्र यस् तव ||píba svádhainavānāmutá yástúgrye sácā ǀ
utā́yámindra yástáva ǁpiba svadhainavānām uta yas tugrye sacā |
utāyam indra yas tava ||पिब॑ । स्वऽधै॑नवानाम् । उ॒त । यः । तुग्र्ये॑ । सचा॑ ।
उ॒त । अ॒यम् । इ॒न्द्र॒ । यः । तव॑ ॥पिब । स्वऽधैनवानाम् । उत । यः । तुग्र्ये । सचा ।
उत । अयम् । इन्द्र । यः । तव ॥píba ǀ svá-dhainavānām ǀ utá ǀ yáḥ ǀ túgrye ǀ sácā ǀ
utá ǀ ayám ǀ indra ǀ yáḥ ǀ táva ǁpiba ǀ sva-dhainavānām ǀ uta ǀ yaḥ ǀ tugrye ǀ sacā ǀ
uta ǀ ayam ǀ indra ǀ yaḥ ǀ tava ǁ8.32.20 Aṣṭaka 6.3.4.5Anuvāka 8.5.38
-
Ṛk 21
अती॑हि मन्युषा॒विणं॑ सुषु॒वांस॑मु॒पार॑णे ।
इ॒मं रा॒तं सु॒तं पि॑ब ॥अतीहि मन्युषाविणं सुषुवांसम् उपारणे |
इमं रातं सुतम् पिब ||átīhi manyuṣāvíṇam suṣuvā́ṃsamupā́raṇe ǀ
imám rātám sutám piba ǁatīhi manyuṣāviṇaṃ suṣuvāṃsam upāraṇe |
imaṃ rātaṃ sutam piba ||अति॑ । इ॒हि॒ । म॒न्यु॒ऽसा॒विन॑म् । सु॒सु॒ऽवांस॑म् । उ॒प॒ऽअर॑णे ।
इ॒मम् । रा॒तम् । सु॒तम् । पि॒ब॒ ॥अति । इहि । मन्युऽसाविनम् । सुसुऽवांसम् । उपऽअरणे ।
इमम् । रातम् । सुतम् । पिब ॥áti ǀ ihi ǀ manyu-sāvínam ǀ susu-vā́ṃsam ǀ upa-áraṇe ǀ
imám ǀ rātám ǀ sutám ǀ piba ǁati ǀ ihi ǀ manyu-sāvinam ǀ susu-vāṃsam ǀ upa-araṇe ǀ
imam ǀ rātam ǀ sutam ǀ piba ǁ8.32.21 Aṣṭaka 6.3.5.1Anuvāka 8.5.39
-
Ṛk 22
इ॒हि ति॒स्रः प॑रा॒वत॑ इ॒हि पंच॒ जनाँ॒ अति॑ ।
धेना॑ इंद्राव॒चाक॑शत् ॥इहि तिस्रः परावत इहि पञ्च जनां अति |
धेना इन्द्रावचाकशत् ||ihí tisráḥ parāváta ihí páñca jánām̐ áti ǀ
dhénā indrāvacā́kaśat ǁihi tisraḥ parāvata ihi pañca janāṃ ati |
dhenā indrāvacākaśat ||इ॒हि । ति॒स्रः । प॒रा॒ऽवतः॑ । इ॒हि । पञ्च॑ । जना॑न् । अति॑ ।
धेनाः॑ । इ॒न्द्र॒ । अ॒व॒ऽचाक॑शत् ॥इहि । तिस्रः । पराऽवतः । इहि । पञ्च । जनान् । अति ।
धेनाः । इन्द्र । अवऽचाकशत् ॥ihí ǀ tisráḥ ǀ parā-vátaḥ ǀ ihí ǀ páñca ǀ jánān ǀ áti ǀ
dhénāḥ ǀ indra ǀ ava-cā́kaśat ǁihi ǀ tisraḥ ǀ parā-vataḥ ǀ ihi ǀ pañca ǀ janān ǀ ati ǀ
dhenāḥ ǀ indra ǀ ava-cākaśat ǁ8.32.22 Aṣṭaka 6.3.5.2Anuvāka 8.5.40
-
Ṛk 23
सूर्यो॑ र॒श्मिं यथा॑ सृ॒जा त्वा॑ यच्छंतु मे॒ गिरः॑ ।
नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥सूर्यो रश्मिं यथा सृजा त्वा यच्छन्तु मे गिरः |
निम्नम् आपो न सध्र्यक् ||sū́ryo raśmím yáthā sṛjā́ tvā yacchantu me gíraḥ ǀ
nimnámā́po ná sadhryák ǁsūryo raśmiṃ yathā sṛjā tvā yacchantu me giraḥ |
nimnam āpo na sadhryak ||सूर्यः॑ । र॒श्मिम् । यथा॑ । सृ॒ज॒ । आ । त्वा॒ । य॒च्छ॒न्तु॒ । मे॒ । गिरः॑ ।
नि॒म्नम् । आपः॑ । न । स॒ध्र्य॑क् ॥सूर्यः । रश्मिम् । यथा । सृज । आ । त्वा । यच्छन्तु । मे । गिरः ।
निम्नम् । आपः । न । सध्र्यक् ॥sū́ryaḥ ǀ raśmím ǀ yáthā ǀ sṛja ǀ ā́ ǀ tvā ǀ yacchantu ǀ me ǀ gíraḥ ǀ
nimnám ǀ ā́paḥ ǀ ná ǀ sadhryák ǁsūryaḥ ǀ raśmim ǀ yathā ǀ sṛja ǀ ā ǀ tvā ǀ yacchantu ǀ me ǀ giraḥ ǀ
nimnam ǀ āpaḥ ǀ na ǀ sadhryak ǁ8.32.23 Aṣṭaka 6.3.5.3Anuvāka 8.5.41
-
Ṛk 24
अध्व॑र्य॒वा तु हि षिं॒च सोमं॑ वी॒राय॑ शि॒प्रिणे॑ ।
भरा॑ सु॒तस्य॑ पी॒तये॑ ॥अध्वर्यव् आ तु हि षिञ्च सोमं वीराय शिप्रिणे |
भरा सुतस्य पीतये ||ádhvaryavā́ tú hí ṣiñcá sómam vīrā́ya śipríṇe ǀ
bhárā sutásya pītáye ǁadhvaryav ā tu hi ṣiñca somaṃ vīrāya śipriṇe |
bharā sutasya pītaye ||अध्व॑र्यो॒ इति॑ । आ । तु । हि । सि॒ञ्च । सोम॑म् । वी॒राय॑ । शि॒प्रिणे॑ ।
भर॑ । सु॒तस्य॑ । पी॒तये॑ ॥अध्वर्यो इति । आ । तु । हि । सिञ्च । सोमम् । वीराय । शिप्रिणे ।
भर । सुतस्य । पीतये ॥ádhvaryo íti ǀ ā́ ǀ tú ǀ hí ǀ siñcá ǀ sómam ǀ vīrā́ya ǀ śipríṇe ǀ
bhára ǀ sutásya ǀ pītáye ǁadhvaryo iti ǀ ā ǀ tu ǀ hi ǀ siñca ǀ somam ǀ vīrāya ǀ śipriṇe ǀ
bhara ǀ sutasya ǀ pītaye ǁ8.32.24 Aṣṭaka 6.3.5.4Anuvāka 8.5.42
-
Ṛk 25
य उ॒द्नः फ॑लि॒गं भि॒नन्न्य१॒॑क्सिंधूँ॑र॒वासृ॑जत् ।
यो गोषु॑ प॒क्वं धा॒रय॑त् ॥य उद्नः फलिगम् भिनन् न्यक् सिन्धूंर् अवासृजत् |
यो गोषु पक्वं धारयत् ||yá udnáḥ phaligám bhinánnyáksíndhūm̐ravā́sṛjat ǀ
yó góṣu pakvám dhāráyat ǁya udnaḥ phaligam bhinan nyak sindhūṃr avāsṛjat |
yo goṣu pakvaṃ dhārayat ||यः । उ॒द्नः । फ॒लि॒ऽगम् । भि॒नत् । न्य॑क् । सिन्धू॑न् । अ॒व॒ऽअसृ॑जत् ।
यः । गोषु॑ । प॒क्वम् । धा॒रय॑त् ॥यः । उद्नः । फलिऽगम् । भिनत् । न्यक् । सिन्धून् । अवऽअसृजत् ।
यः । गोषु । पक्वम् । धारयत् ॥yáḥ ǀ udnáḥ ǀ phali-gám ǀ bhinát ǀ nyák ǀ síndhūn ǀ ava-ásṛjat ǀ
yáḥ ǀ góṣu ǀ pakvám ǀ dhāráyat ǁyaḥ ǀ udnaḥ ǀ phali-gam ǀ bhinat ǀ nyak ǀ sindhūn ǀ ava-asṛjat ǀ
yaḥ ǀ goṣu ǀ pakvam ǀ dhārayat ǁ8.32.25 Aṣṭaka 6.3.5.5Anuvāka 8.5.43
-
Ṛk 26
अह॑न्वृ॒त्रमृची॑षम और्णवा॒भम॑ही॒शुवं॑ ।
हि॒मेना॑विध्य॒दर्बु॑दं ॥अहन् वृत्रम् ऋचीषम और्णवाभम् अहीशुवम् |
हिमेनाविध्यद् अर्बुदम् ||áhanvṛtrámṛ́cīṣama aurṇavābhámahīśúvam ǀ
himénāvidhyadárbudam ǁahan vṛtram ṛcīṣama aurṇavābham ahīśuvam |
himenāvidhyad arbudam ||अह॑न् । वृ॒त्रम् । ऋची॑षमः । औ॒र्ण॒ऽवा॒भम् । अ॒ही॒शुव॑म् ।
हि॒मेन॑ । अ॒वि॒ध्य॒त् । अर्बु॑दम् ॥अहन् । वृत्रम् । ऋचीषमः । और्णऽवाभम् । अहीशुवम् ।
हिमेन । अविध्यत् । अर्बुदम् ॥áhan ǀ vṛtrám ǀ ṛ́cīṣamaḥ ǀ aurṇa-vābhám ǀ ahīśúvam ǀ
hiména ǀ avidhyat ǀ árbudam ǁahan ǀ vṛtram ǀ ṛcīṣamaḥ ǀ aurṇa-vābham ǀ ahīśuvam ǀ
himena ǀ avidhyat ǀ arbudam ǁ8.32.26 Aṣṭaka 6.3.6.1Anuvāka 8.5.44
-
Ṛk 27
प्र व॑ उ॒ग्राय॑ नि॒ष्टुरेऽषा॑ळ्हाय प्रस॒क्षिणे॑ ।
दे॒वत्तं॒ ब्रह्म॑ गायत ॥प्र व उग्राय निष्टुरे ऽषाऌहाय प्रसक्षिणे |
देवत्तम् ब्रह्म गायत ||prá va ugrā́ya niṣṭúré’ṣāḷhāya prasakṣíṇe ǀ
deváttam bráhma gāyata ǁpra va ugrāya niṣṭure 'ṣāḷhāya prasakṣiṇe |
devattam brahma gāyata ||प्र । वः॒ । उ॒ग्राय॑ । निः॒ऽतुरे॑ । अषा॑ळ्हाय । प्र॒ऽस॒क्षिणे॑ ।
दे॒वत्त॑म् । ब्रह्म॑ । गा॒य॒त॒ ॥प्र । वः । उग्राय । निःऽतुरे । अषाळ्हाय । प्रऽसक्षिणे ।
देवत्तम् । ब्रह्म । गायत ॥prá ǀ vaḥ ǀ ugrā́ya ǀ niḥ-túre ǀ áṣāḷhāya ǀ pra-sakṣíṇe ǀ
deváttam ǀ bráhma ǀ gāyata ǁpra ǀ vaḥ ǀ ugrāya ǀ niḥ-ture ǀ aṣāḷhāya ǀ pra-sakṣiṇe ǀ
devattam ǀ brahma ǀ gāyata ǁ8.32.27 Aṣṭaka 6.3.6.2Anuvāka 8.5.45
-
Ṛk 28
यो विश्वा॑न्य॒भि व्र॒ता सोम॑स्य॒ मदे॒ अंध॑सः ।
इंद्रो॑ दे॒वेषु॒ चेत॑ति ॥यो विश्वान्य् अभि व्रता सोमस्य मदे अन्धसः |
इन्द्रो देवेषु चेतति ||yó víśvānyabhí vratā́ sómasya máde ándhasaḥ ǀ
índro devéṣu cétati ǁyo viśvāny abhi vratā somasya made andhasaḥ |
indro deveṣu cetati ||यः । विश्वा॑नि । अ॒भि । व्र॒ता । सोम॑स्य । मदे॑ । अन्ध॑सः ।
इन्द्रः॑ । दे॒वेषु॑ । चेत॑ति ॥यः । विश्वानि । अभि । व्रता । सोमस्य । मदे । अन्धसः ।
इन्द्रः । देवेषु । चेतति ॥yáḥ ǀ víśvāni ǀ abhí ǀ vratā́ ǀ sómasya ǀ máde ǀ ándhasaḥ ǀ
índraḥ ǀ devéṣu ǀ cétati ǁyaḥ ǀ viśvāni ǀ abhi ǀ vratā ǀ somasya ǀ made ǀ andhasaḥ ǀ
indraḥ ǀ deveṣu ǀ cetati ǁ8.32.28 Aṣṭaka 6.3.6.3Anuvāka 8.5.46
-
Ṛk 29
इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या ।
वो॒ळ्हाम॒भि प्रयो॑ हि॒तं ॥इह त्या सधमाद्या हरी हिरण्यकेश्या |
वोऌहाम् अभि प्रयो हितम् ||ihá tyā́ sadhamā́dyā hárī híraṇyakeśyā ǀ
voḷhā́mabhí práyo hitám ǁiha tyā sadhamādyā harī hiraṇyakeśyā |
voḷhām abhi prayo hitam ||इ॒ह । त्या । स॒ध॒ऽमाद्या॑ । हरी॒ इति॑ । हिर॑ण्यऽकेश्या ।
वो॒ळ्हाम् । अ॒भि । प्रयः॑ । हि॒तम् ॥इह । त्या । सधऽमाद्या । हरी इति । हिरण्यऽकेश्या ।
वोळ्हाम् । अभि । प्रयः । हितम् ॥ihá ǀ tyā́ ǀ sadha-mā́dyā ǀ hárī íti ǀ híraṇya-keśyā ǀ
voḷhā́m ǀ abhí ǀ práyaḥ ǀ hitám ǁiha ǀ tyā ǀ sadha-mādyā ǀ harī iti ǀ hiraṇya-keśyā ǀ
voḷhām ǀ abhi ǀ prayaḥ ǀ hitam ǁ8.32.29 Aṣṭaka 6.3.6.4Anuvāka 8.5.47
-
Ṛk 30
अ॒र्वांचं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑ ।
सो॒म॒पेया॑य वक्षतः ॥अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी |
सोमपेयाय वक्षतः ||arvā́ñcam tvā puruṣṭuta priyámedhastutā hárī ǀ
somapéyāya vakṣataḥ ǁarvāñcaṃ tvā puruṣṭuta priyamedhastutā harī |
somapeyāya vakṣataḥ ||अ॒र्वाञ्च॑म् । त्वा॒ । पु॒रु॒ऽस्तु॒त॒ । प्रि॒यमे॑धऽस्तुता । हरी॒ इति॑ ।
सो॒म॒ऽपेया॑य । व॒क्ष॒तः॒ ॥अर्वाञ्चम् । त्वा । पुरुऽस्तुत । प्रियमेधऽस्तुता । हरी इति ।
सोमऽपेयाय । वक्षतः ॥arvā́ñcam ǀ tvā ǀ puru-stuta ǀ priyámedha-stutā ǀ hárī íti ǀ
soma-péyāya ǀ vakṣataḥ ǁarvāñcam ǀ tvā ǀ puru-stuta ǀ priyamedha-stutā ǀ harī iti ǀ
soma-peyāya ǀ vakṣataḥ ǁ8.32.30 Aṣṭaka 6.3.6.5Anuvāka 8.5.48
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.