Ṛk 8.32.15
Saṃhitā
नकि॑रस्य॒ शची॑नां नियं॒ता सू॒नृता॑नां ।
नकि॑र्व॒क्ता न दा॒दिति॑ ॥
नकिर् अस्य शचीनां नियन्ता सूनृतानाम् |
नकिर् वक्ता न दाद् इति ||
nákirasya śácīnām niyantā́ sūnṛ́tānām ǀ
nákirvaktā́ ná dādíti ǁ
nakir asya śacīnāṃ niyantā sūnṛtānām |
nakir vaktā na dād iti ||
Padapāṭha
नकिः॑ । अ॒स्य॒ । शची॑नाम् । नि॒ऽय॒न्ता । सू॒नृता॑नाम् ।
नकिः॑ । व॒क्ता । न । दा॒त् । इति॑ ॥
नकिः । अस्य । शचीनाम् । निऽयन्ता । सूनृतानाम् ।
नकिः । वक्ता । न । दात् । इति ॥
nákiḥ ǀ asya ǀ śácīnām ǀ ni-yantā́ ǀ sūnṛ́tānām ǀ
nákiḥ ǀ vaktā́ ǀ ná ǀ dāt ǀ íti ǁ
nakiḥ ǀ asya ǀ śacīnām ǀ ni-yantā ǀ sūnṛtānām ǀ
nakiḥ ǀ vaktā ǀ na ǀ dāt ǀ iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.032.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.03.05
- Maṇḍala · Anuvāka · Ṛk
- 08.05.033
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Medhātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.