Sūkta 73
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Gopavana Ātreya Or Saptavadhri Ātreya
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 2, 4, 5, 7, 9-11, 16-18); nicṛdgāyatrī (3, 8, 12-15); virāḍgāyatrī (6)
2nd set of styles gāyatrī
-
Ṛk 1
उदी॑राथामृताय॒ते युं॒जाथा॑मश्विना॒ रथं॑ ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥उद् ईराथाम् ऋतायते युञ्जाथाम् अश्विना रथम् |
अन्ति षद् भूतु वाम् अवः ||údīrāthāmṛtāyaté yuñjā́thāmaśvinā rátham ǀ
ánti ṣádbhūtu vāmávaḥ ǁud īrāthām ṛtāyate yuñjāthām aśvinā ratham |
anti ṣad bhūtu vām avaḥ ||उत् । ई॒रा॒था॒म् । ऋ॒त॒ऽय॒ते । यु॒ञ्जाथा॑म् । अ॒श्वि॒ना॒ । रथ॑म् ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥उत् । ईराथाम् । ऋतऽयते । युञ्जाथाम् । अश्विना । रथम् ।
अन्ति । सत् । भूतु । वाम् । अवः ॥út ǀ īrāthām ǀ ṛta-yaté ǀ yuñjā́thām ǀ aśvinā ǀ rátham ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁut ǀ īrāthām ǀ ṛta-yate ǀ yuñjāthām ǀ aśvinā ǀ ratham ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ8.73.1 Aṣṭaka 6.5.18.1Anuvāka 8.8.49
-
Ṛk 2
नि॒मिष॑श्चि॒ज्जवी॑यसा॒ रथे॒ना या॑तमश्विना ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥निमिषश् चिज् जवीयसा रथेना यातम् अश्विना |
अन्ति षद् भूतु वाम् अवः ||nimíṣaścijjávīyasā ráthenā́ yātamaśvinā ǀ
ánti ṣádbhūtu vāmávaḥ ǁnimiṣaś cij javīyasā rathenā yātam aśvinā |
anti ṣad bhūtu vām avaḥ ||नि॒ऽमिषः॑ । चि॒त् । जवी॑यसा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥निऽमिषः । चित् । जवीयसा । रथेन । आ । यातम् । अश्विना ।
अन्ति । सत् । भूतु । वाम् । अवः ॥ni-míṣaḥ ǀ cit ǀ jávīyasā ǀ ráthena ǀ ā́ ǀ yātam ǀ aśvinā ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁni-miṣaḥ ǀ cit ǀ javīyasā ǀ rathena ǀ ā ǀ yātam ǀ aśvinā ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ8.73.2 Aṣṭaka 6.5.18.2Anuvāka 8.8.50
-
Ṛk 3
उप॑ स्तृणीत॒मत्र॑ये हि॒मेन॑ घ॒र्मम॑श्विना ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥उप स्तृणीतम् अत्रये हिमेन घर्मम् अश्विना |
अन्ति षद् भूतु वाम् अवः ||úpa stṛṇītamátraye hiména gharmámaśvinā ǀ
ánti ṣádbhūtu vāmávaḥ ǁupa stṛṇītam atraye himena gharmam aśvinā |
anti ṣad bhūtu vām avaḥ ||उप॑ । स्तृ॒णी॒त॒म् । अत्र॑ये । हि॒मेन॑ । घ॒र्मम् । अ॒श्वि॒ना॒ ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥उप । स्तृणीतम् । अत्रये । हिमेन । घर्मम् । अश्विना ।
अन्ति । सत् । भूतु । वाम् । अवः ॥úpa ǀ stṛṇītam ǀ átraye ǀ hiména ǀ gharmám ǀ aśvinā ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁupa ǀ stṛṇītam ǀ atraye ǀ himena ǀ gharmam ǀ aśvinā ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ8.73.3 Aṣṭaka 6.5.18.3Anuvāka 8.8.51
-
Ṛk 4
कुह॑ स्थः॒ कुह॑ जग्मथुः॒ कुह॑ श्ये॒नेव॑ पेतथुः ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः |
अन्ति षद् भूतु वाम् अवः ||kúha sthaḥ kúha jagmathuḥ kúha śyenéva petathuḥ ǀ
ánti ṣádbhūtu vāmávaḥ ǁkuha sthaḥ kuha jagmathuḥ kuha śyeneva petathuḥ |
anti ṣad bhūtu vām avaḥ ||कुह॑ । स्थः॒ । कुह॑ । ज॒ग्म॒थुः॒ । कुह॑ । श्ये॒नाऽइ॑व । पे॒त॒थुः॒ ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥कुह । स्थः । कुह । जग्मथुः । कुह । श्येनाऽइव । पेतथुः ।
अन्ति । सत् । भूतु । वाम् । अवः ॥kúha ǀ sthaḥ ǀ kúha ǀ jagmathuḥ ǀ kúha ǀ śyenā́-iva ǀ petathuḥ ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁkuha ǀ sthaḥ ǀ kuha ǀ jagmathuḥ ǀ kuha ǀ śyenā-iva ǀ petathuḥ ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ8.73.4 Aṣṭaka 6.5.18.4Anuvāka 8.8.52
-
Ṛk 5
यद॒द्य कर्हि॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हवं॑ ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥यद् अद्य कर्हि कर्हि चिच् छुश्रूयातम् इमं हवम् |
अन्ति षद् भूतु वाम् अवः ||yádadyá kárhi kárhi cicchuśrūyā́tamimám hávam ǀ
ánti ṣádbhūtu vāmávaḥ ǁyad adya karhi karhi cic chuśrūyātam imaṃ havam |
anti ṣad bhūtu vām avaḥ ||यत् । अ॒द्य । कर्हि॑ । कर्हि॑ । चि॒त् । शु॒श्रु॒यात॑म् । इ॒मम् । हव॑म् ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥यत् । अद्य । कर्हि । कर्हि । चित् । शुश्रुयातम् । इमम् । हवम् ।
अन्ति । सत् । भूतु । वाम् । अवः ॥yát ǀ adyá ǀ kárhi ǀ kárhi ǀ cit ǀ śuśruyā́tam ǀ imám ǀ hávam ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁyat ǀ adya ǀ karhi ǀ karhi ǀ cit ǀ śuśruyātam ǀ imam ǀ havam ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ8.73.5 Aṣṭaka 6.5.18.5Anuvāka 8.8.53
-
Ṛk 6
अ॒श्विना॑ याम॒हूत॑मा॒ नेदि॑ष्ठं या॒म्याप्यं॑ ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥अश्विना यामहूतमा नेदिष्ठं याम्य् आप्यम् |
अन्ति षद् भूतु वाम् अवः ||aśvínā yāmahū́tamā nédiṣṭham yāmyā́pyam ǀ
ánti ṣádbhūtu vāmávaḥ ǁaśvinā yāmahūtamā nediṣṭhaṃ yāmy āpyam |
anti ṣad bhūtu vām avaḥ ||अ॒श्विना॑ । या॒म॒ऽहूत॑मा । नेदि॑ष्ठम् । या॒मि॒ । आप्य॑म् ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥अश्विना । यामऽहूतमा । नेदिष्ठम् । यामि । आप्यम् ।
अन्ति । सत् । भूतु । वाम् । अवः ॥aśvínā ǀ yāma-hū́tamā ǀ nédiṣṭham ǀ yāmi ǀ ā́pyam ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁaśvinā ǀ yāma-hūtamā ǀ nediṣṭham ǀ yāmi ǀ āpyam ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ8.73.6 Aṣṭaka 6.5.19.1Anuvāka 8.8.54
-
Ṛk 7
अवं॑त॒मत्र॑ये गृ॒हं कृ॑णु॒तं यु॒वम॑श्विना ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥अवन्तम् अत्रये गृहं कृणुतं युवम् अश्विना |
अन्ति षद् भूतु वाम् अवः ||ávantamátraye gṛhám kṛṇutám yuvámaśvinā ǀ
ánti ṣádbhūtu vāmávaḥ ǁavantam atraye gṛhaṃ kṛṇutaṃ yuvam aśvinā |
anti ṣad bhūtu vām avaḥ ||अव॑न्तम् । अत्र॑ये । गृ॒हम् । कृ॒णु॒तम् । यु॒वम् । अ॒श्वि॒ना॒ ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥अवन्तम् । अत्रये । गृहम् । कृणुतम् । युवम् । अश्विना ।
अन्ति । सत् । भूतु । वाम् । अवः ॥ávantam ǀ átraye ǀ gṛhám ǀ kṛṇutám ǀ yuvám ǀ aśvinā ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁavantam ǀ atraye ǀ gṛham ǀ kṛṇutam ǀ yuvam ǀ aśvinā ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ8.73.7 Aṣṭaka 6.5.19.2Anuvāka 8.8.55
-
Ṛk 8
वरे॑थे अ॒ग्निमा॒तपो॒ वद॑ते व॒ल्ग्वत्र॑ये ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥वरेथे अग्निम् आतपो वदते वल्ग्व् अत्रये |
अन्ति षद् भूतु वाम् अवः ||várethe agnímātápo vádate valgvátraye ǀ
ánti ṣádbhūtu vāmávaḥ ǁvarethe agnim ātapo vadate valgv atraye |
anti ṣad bhūtu vām avaḥ ||वरे॑थे॒ इति॑ । अ॒ग्निम् । आ॒ऽतपः॑ । वद॑ते । व॒ल्गु । अत्र॑ये ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥वरेथे इति । अग्निम् । आऽतपः । वदते । वल्गु । अत्रये ।
अन्ति । सत् । भूतु । वाम् । अवः ॥várethe íti ǀ agním ǀ ā-tápaḥ ǀ vádate ǀ valgú ǀ átraye ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁvarethe iti ǀ agnim ǀ ā-tapaḥ ǀ vadate ǀ valgu ǀ atraye ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ8.73.8 Aṣṭaka 6.5.19.3Anuvāka 8.8.56
-
Ṛk 9
प्र स॒प्तव॑ध्रिरा॒शसा॒ धारा॑म॒ग्नेर॑शायत ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥प्र सप्तवध्रिर् आशसा धाराम् अग्नेर् अशायत |
अन्ति षद् भूतु वाम् अवः ||prá saptávadhrirāśásā dhā́rāmagnéraśāyata ǀ
ánti ṣádbhūtu vāmávaḥ ǁpra saptavadhrir āśasā dhārām agner aśāyata |
anti ṣad bhūtu vām avaḥ ||प्र । स॒प्तऽव॑ध्रिः । आ॒ऽशसा॑ । धारा॑म् । अ॒ग्नेः । अ॒शा॒य॒त॒ ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥प्र । सप्तऽवध्रिः । आऽशसा । धाराम् । अग्नेः । अशायत ।
अन्ति । सत् । भूतु । वाम् । अवः ॥prá ǀ saptá-vadhriḥ ǀ ā-śásā ǀ dhā́rām ǀ agnéḥ ǀ aśāyata ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁpra ǀ sapta-vadhriḥ ǀ ā-śasā ǀ dhārām ǀ agneḥ ǀ aśāyata ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ8.73.9 Aṣṭaka 6.5.19.4Anuvāka 8.8.57
-
Ṛk 10
इ॒हा ग॑तं वृषण्वसू शृणु॒तं म॑ इ॒मं हवं॑ ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥इहा गतं वृषण्वसू शृणुतम् म इमं हवम् |
अन्ति षद् भूतु वाम् अवः ||ihā́ gatam vṛṣaṇvasū śṛṇutám ma imám hávam ǀ
ánti ṣádbhūtu vāmávaḥ ǁihā gataṃ vṛṣaṇvasū śṛṇutam ma imaṃ havam |
anti ṣad bhūtu vām avaḥ ||इ॒ह । आ । ग॒त॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । शृ॒णु॒तम् । मे॒ । इ॒मम् । हव॑म् ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥इह । आ । गतम् । वृषण्वसू इति वृषण्ऽवसू । शृणुतम् । मे । इमम् । हवम् ।
अन्ति । सत् । भूतु । वाम् । अवः ॥ihá ǀ ā́ ǀ gatam ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ śṛṇutám ǀ me ǀ imám ǀ hávam ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁiha ǀ ā ǀ gatam ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ śṛṇutam ǀ me ǀ imam ǀ havam ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ8.73.10 Aṣṭaka 6.5.19.5Anuvāka 8.8.58
-
Ṛk 11
किमि॒दं वां॑ पुराण॒वज्जर॑तोरिव शस्यते ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥किम् इदं वाम् पुराणवज् जरतोर् इव शस्यते |
अन्ति षद् भूतु वाम् अवः ||kímidám vām purāṇavájjáratoriva śasyate ǀ
ánti ṣádbhūtu vāmávaḥ ǁkim idaṃ vām purāṇavaj jarator iva śasyate |
anti ṣad bhūtu vām avaḥ ||किम् । इ॒दम् । वा॒म् । पु॒रा॒ण॒ऽवत् । जर॑तोःऽइव । श॒स्य॒ते॒ ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥किम् । इदम् । वाम् । पुराणऽवत् । जरतोःऽइव । शस्यते ।
अन्ति । सत् । भूतु । वाम् । अवः ॥kím ǀ idám ǀ vām ǀ purāṇa-vát ǀ járatoḥ-iva ǀ śasyate ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁkim ǀ idam ǀ vām ǀ purāṇa-vat ǀ jaratoḥ-iva ǀ śasyate ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ8.73.11 Aṣṭaka 6.5.20.1Anuvāka 8.8.59
-
Ṛk 12
स॒मा॒नं वां॑ सजा॒त्यं॑ समा॒नो बंधु॑रश्विना ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥समानं वां सजात्यं समानो बन्धुर् अश्विना |
अन्ति षद् भूतु वाम् अवः ||samānám vām sajātyám samānó bándhuraśvinā ǀ
ánti ṣádbhūtu vāmávaḥ ǁsamānaṃ vāṃ sajātyaṃ samāno bandhur aśvinā |
anti ṣad bhūtu vām avaḥ ||स॒मा॒नम् । वा॒म् । स॒ऽजा॒त्य॑म् । स॒मा॒नः । बन्धुः॑ । अ॒श्वि॒ना॒ ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥समानम् । वाम् । सऽजात्यम् । समानः । बन्धुः । अश्विना ।
अन्ति । सत् । भूतु । वाम् । अवः ॥samānám ǀ vām ǀ sa-jātyám ǀ samānáḥ ǀ bándhuḥ ǀ aśvinā ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁsamānam ǀ vām ǀ sa-jātyam ǀ samānaḥ ǀ bandhuḥ ǀ aśvinā ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ8.73.12 Aṣṭaka 6.5.20.2Anuvāka 8.8.60
-
Ṛk 13
यो वां॒ रजां॑स्यश्विना॒ रथो॑ वि॒याति॒ रोद॑सी ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥यो वां रजांस्य् अश्विना रथो वियाति रोदसी |
अन्ति षद् भूतु वाम् अवः ||yó vām rájāṃsyaśvinā rátho viyā́ti ródasī ǀ
ánti ṣádbhūtu vāmávaḥ ǁyo vāṃ rajāṃsy aśvinā ratho viyāti rodasī |
anti ṣad bhūtu vām avaḥ ||यः । वा॒म् । रजां॑सि । अ॒श्वि॒ना॒ । रथः॑ । वि॒ऽयाति॑ । रोद॑सी॒ इति॑ ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥यः । वाम् । रजांसि । अश्विना । रथः । विऽयाति । रोदसी इति ।
अन्ति । सत् । भूतु । वाम् । अवः ॥yáḥ ǀ vām ǀ rájāṃsi ǀ aśvinā ǀ ráthaḥ ǀ vi-yā́ti ǀ ródasī íti ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁyaḥ ǀ vām ǀ rajāṃsi ǀ aśvinā ǀ rathaḥ ǀ vi-yāti ǀ rodasī iti ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ8.73.13 Aṣṭaka 6.5.20.3Anuvāka 8.8.61
-
Ṛk 14
आ नो॒ गव्ये॑भि॒रश्व्यैः॑ स॒हस्रै॒रुप॑ गच्छतं ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥आ नो गव्येभिर् अश्व्यैः सहस्रैर् उप गच्छतम् |
अन्ति षद् भूतु वाम् अवः ||ā́ no gávyebhiráśvyaiḥ sahásrairúpa gacchatam ǀ
ánti ṣádbhūtu vāmávaḥ ǁā no gavyebhir aśvyaiḥ sahasrair upa gacchatam |
anti ṣad bhūtu vām avaḥ ||आ । नः॒ । गव्ये॑भिः । अश्व्यैः॑ । स॒हस्रैः॑ । उप॑ । ग॒च्छ॒त॒म् ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥आ । नः । गव्येभिः । अश्व्यैः । सहस्रैः । उप । गच्छतम् ।
अन्ति । सत् । भूतु । वाम् । अवः ॥ā́ ǀ naḥ ǀ gávyebhiḥ ǀ áśvyaiḥ ǀ sahásraiḥ ǀ úpa ǀ gacchatam ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁā ǀ naḥ ǀ gavyebhiḥ ǀ aśvyaiḥ ǀ sahasraiḥ ǀ upa ǀ gacchatam ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ8.73.14 Aṣṭaka 6.5.20.4Anuvāka 8.8.62
-
Ṛk 15
मा नो॒ गव्ये॑भि॒रश्व्यैः॑ स॒हस्रे॑भि॒रति॑ ख्यतं ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥मा नो गव्येभिर् अश्व्यैः सहस्रेभिर् अति ख्यतम् |
अन्ति षद् भूतु वाम् अवः ||mā́ no gávyebhiráśvyaiḥ sahásrebhiráti khyatam ǀ
ánti ṣádbhūtu vāmávaḥ ǁmā no gavyebhir aśvyaiḥ sahasrebhir ati khyatam |
anti ṣad bhūtu vām avaḥ ||मा । नः॒ । गव्ये॑भिः । अश्व्यैः॑ । स॒हस्रे॑भिः । अति॑ । ख्य॒त॒म् ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥मा । नः । गव्येभिः । अश्व्यैः । सहस्रेभिः । अति । ख्यतम् ।
अन्ति । सत् । भूतु । वाम् । अवः ॥mā́ ǀ naḥ ǀ gávyebhiḥ ǀ áśvyaiḥ ǀ sahásrebhiḥ ǀ áti ǀ khyatam ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁmā ǀ naḥ ǀ gavyebhiḥ ǀ aśvyaiḥ ǀ sahasrebhiḥ ǀ ati ǀ khyatam ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ8.73.15 Aṣṭaka 6.5.20.5Anuvāka 8.8.63
-
Ṛk 16
अ॒रु॒णप्सु॑रु॒षा अ॑भू॒दक॒र्ज्योति॑र्ऋ॒ताव॑री ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥अरुणप्सुर् उषा अभूद् अकर् ज्योतिर् ऋतावरी |
अन्ति षद् भूतु वाम् अवः ||aruṇápsuruṣā́ abhūdákarjyótirṛtā́varī ǀ
ánti ṣádbhūtu vāmávaḥ ǁaruṇapsur uṣā abhūd akar jyotir ṛtāvarī |
anti ṣad bhūtu vām avaḥ ||अ॒रु॒णऽप्सुः॑ । उ॒षाः । अ॒भू॒त् । अकः॑ । ज्योतिः॑ । ऋ॒तऽव॑री ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥अरुणऽप्सुः । उषाः । अभूत् । अकः । ज्योतिः । ऋतऽवरी ।
अन्ति । सत् । भूतु । वाम् । अवः ॥aruṇá-psuḥ ǀ uṣā́ḥ ǀ abhūt ǀ ákaḥ ǀ jyótiḥ ǀ ṛtá-varī ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁaruṇa-psuḥ ǀ uṣāḥ ǀ abhūt ǀ akaḥ ǀ jyotiḥ ǀ ṛta-varī ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ8.73.16 Aṣṭaka 6.5.20.6Anuvāka 8.8.64
-
Ṛk 17
अ॒श्विना॒ सु वि॒चाक॑शद्वृ॒क्षं प॑रशु॒माँ इ॑व ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥अश्विना सु विचाकशद् वृक्षम् परशुमां इव |
अन्ति षद् भूतु वाम् अवः ||aśvínā sú vicā́kaśadvṛkṣám paraśumā́m̐ iva ǀ
ánti ṣádbhūtu vāmávaḥ ǁaśvinā su vicākaśad vṛkṣam paraśumāṃ iva |
anti ṣad bhūtu vām avaḥ ||अ॒श्विना॑ । सु । वि॒ऽचाक॑शत् । वृ॒क्षम् । प॒र॒शु॒मान्ऽइ॑व ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥अश्विना । सु । विऽचाकशत् । वृक्षम् । परशुमान्ऽइव ।
अन्ति । सत् । भूतु । वाम् । अवः ॥aśvínā ǀ sú ǀ vi-cā́kaśat ǀ vṛkṣám ǀ paraśumā́n-iva ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁaśvinā ǀ su ǀ vi-cākaśat ǀ vṛkṣam ǀ paraśumān-iva ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ8.73.17 Aṣṭaka 6.5.20.7Anuvāka 8.8.65
-
Ṛk 18
पुरं॒ न धृ॑ष्ण॒वा रु॑ज कृ॒ष्णया॑ बाधि॒तो वि॒शा ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥पुरं न धृष्णव् आ रुज कृष्णया बाधितो विशा |
अन्ति षद् भूतु वाम् अवः ||púram ná dhṛṣṇavā́ ruja kṛṣṇáyā bādhitó viśā́ ǀ
ánti ṣádbhūtu vāmávaḥ ǁpuraṃ na dhṛṣṇav ā ruja kṛṣṇayā bādhito viśā |
anti ṣad bhūtu vām avaḥ ||पुर॑म् । न । धृ॒ष्णो॒ इति॑ । आ । रु॒ज॒ । कृ॒ष्णया॑ । बा॒धि॒तः । वि॒शा ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥पुरम् । न । धृष्णो इति । आ । रुज । कृष्णया । बाधितः । विशा ।
अन्ति । सत् । भूतु । वाम् । अवः ॥púram ǀ ná ǀ dhṛṣṇo íti ǀ ā́ ǀ ruja ǀ kṛṣṇáyā ǀ bādhitáḥ ǀ viśā́ ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁpuram ǀ na ǀ dhṛṣṇo iti ǀ ā ǀ ruja ǀ kṛṣṇayā ǀ bādhitaḥ ǀ viśā ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ8.73.18 Aṣṭaka 6.5.20.8Anuvāka 8.8.66
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.