Ṛgveda · Maṇḍala 8 · Sūkta 73

Ṛk 8.73.18

Aśvins · Gopavana Ātreya Or Saptavadhri Ātreya

The whole sūkta Link

Saṃhitā

पुरं॒ न धृ॑ष्ण॒वा रु॑ज कृ॒ष्णया॑ बाधि॒तो वि॒शा ।
अंति॒ षद्भू॑तु वा॒मवः॑ ॥

पुरं न धृष्णव् आ रुज कृष्णया बाधितो विशा |
अन्ति षद् भूतु वाम् अवः ||

púram ná dhṛṣṇavā́ ruja kṛṣṇáyā bādhitó viśā́ ǀ
ánti ṣádbhūtu vāmávaḥ ǁ

puraṃ na dhṛṣṇav ā ruja kṛṣṇayā bādhito viśā |
anti ṣad bhūtu vām avaḥ ||

Padapāṭha

पुर॑म् । न । धृ॒ष्णो॒ इति॑ । आ । रु॒ज॒ । कृ॒ष्णया॑ । बा॒धि॒तः । वि॒शा ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

पुरम् । न । धृष्णो इति । आ । रुज । कृष्णया । बाधितः । विशा ।
अन्ति । सत् । भूतु । वाम् । अवः ॥

púram ǀ ná ǀ dhṛṣṇo íti ǀ ā́ ǀ ruja ǀ kṛṣṇáyā ǀ bādhitáḥ ǀ viśā́ ǀ
ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

puram ǀ na ǀ dhṛṣṇo iti ǀ ā ǀ ruja ǀ kṛṣṇayā ǀ bādhitaḥ ǀ viśā ǀ
anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
08.073.18
Aṣṭaka · Adhyāya · Varga · Ṛk
6.5.20.08
Maṇḍala · Anuvāka · Ṛk
08.08.066
Devatā देवता
Aśvins
Ṛṣi ऋषि
Gopavana Ātreya Or Saptavadhri Ātreya
Chandas छन्दस्
Gāyatrī
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.73.18

Interpretations

Sāyaṇa

विशोविशोवइति पंचदशर्चं चतुर्थंसूक्तं । अत्रेयमनुक्रमणिका-विशोविशोवः पञ्चोनाग्नेयं त्वनुष्टुम्मुखास्तृचाश्चत्वारोन्त्यास्तिस्रोनुष्टुभ आर्क्षस्य श्रुतर्वणोदानस्तुतिरिति । अनुवृत्तेर्गोपवनऋषिः आदितस्तृषु तृचेषु सर्वाः प्रथमाअनुष्टुभः द्वितीयातृतीये प्राग्वत्सप्रपरिभाषया गायत्र्यौ त्रयोदश्याद्यास्तिस्रोनुष्टुभः अस्योत्तरस्यचाग्निर्देवता अन्त्यस्तिस्रः श्रुतर्वनाम्रोराज्ञोदानस्तुतिः । व्योमविश्वदेवस्तुत्पञ्चशारदीयेष्विदंसूक्तमाज्य- शस्त्रं । सूत्रितञ्च-विशोविशोवोअतिथिमित्याज्यमिति ।