Sūkta 28
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Manu Vaivasvata
- Chandas छन्दस्
- Gāyatrī, Pura-Uṣṇih
Metres by ṛk
1st set of styles gāyatrī (1, 2); virāḍgāyatrī (3, 5); virāḍuṣnik (4)
2nd set of styles gāyatrī (1-3, 5); pura-uṣṇih (4)
-
Ṛk 1
ये त्रिं॒शति॒ त्रय॑स्प॒रो दे॒वासो॑ ब॒र्हिरास॑दन् ।
वि॒दन्नह॑ द्वि॒तास॑नन् ॥ये त्रिंशति त्रयस् परो देवासो बर्हिर् आसदन् |
विदन्न् अह द्वितासनन् ||yé triṃśáti tráyasparó devā́so barhírā́sadan ǀ
vidánnáha dvitā́sanan ǁye triṃśati trayas paro devāso barhir āsadan |
vidann aha dvitāsanan ||ये । त्रिं॒शति॑ । त्रयः॑ । प॒रः । दे॒वासः॑ । ब॒र्हिः । आ । अस॑दन् ।
वि॒दन् । अह॑ । द्वि॒ता । अ॒स॒न॒न् ॥ये । त्रिंशति । त्रयः । परः । देवासः । बर्हिः । आ । असदन् ।
विदन् । अह । द्विता । असनन् ॥yé ǀ triṃśáti ǀ tráyaḥ ǀ paráḥ ǀ devā́saḥ ǀ barhíḥ ǀ ā́ ǀ ásadan ǀ
vidán ǀ áha ǀ dvitā́ ǀ asanan ǁye ǀ triṃśati ǀ trayaḥ ǀ paraḥ ǀ devāsaḥ ǀ barhiḥ ǀ ā ǀ asadan ǀ
vidan ǀ aha ǀ dvitā ǀ asanan ǁ8.28.1 Aṣṭaka 6.2.35.1Anuvāka 8.4.168
-
Ṛk 2
वरु॑णो मि॒त्रो अ॑र्य॒मा स्मद्रा॑तिषाचो अ॒ग्नयः॑ ।
पत्नी॑वंतो॒ वष॑ट्कृताः ॥वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः |
पत्नीवन्तो वषट्कृताः ||váruṇo mitró aryamā́ smádrātiṣāco agnáyaḥ ǀ
pátnīvanto váṣaṭkṛtāḥ ǁvaruṇo mitro aryamā smadrātiṣāco agnayaḥ |
patnīvanto vaṣaṭkṛtāḥ ||वरु॑णः । मि॒त्रः । अ॒र्य॒मा । स्मद्रा॑तिऽसाचः । अ॒ग्नयः॑ ।
पत्नी॑ऽवन्तः । वष॑ट्ऽकृताः ॥वरुणः । मित्रः । अर्यमा । स्मद्रातिऽसाचः । अग्नयः ।
पत्नीऽवन्तः । वषट्ऽकृताः ॥váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ smádrāti-sācaḥ ǀ agnáyaḥ ǀ
pátnī-vantaḥ ǀ váṣaṭ-kṛtāḥ ǁvaruṇaḥ ǀ mitraḥ ǀ aryamā ǀ smadrāti-sācaḥ ǀ agnayaḥ ǀ
patnī-vantaḥ ǀ vaṣaṭ-kṛtāḥ ǁ8.28.2 Aṣṭaka 6.2.35.2Anuvāka 8.4.169
-
Ṛk 3
ते नो॑ गो॒पा अ॑पा॒च्यास्त उद॒क्त इ॒त्था न्य॑क् ।
पु॒रस्ता॒त्सर्व॑या वि॒शा ॥ते नो गोपा अपाच्यास् त उदक् त इत्था न्यक् |
पुरस्तात् सर्वया विशा ||té no gopā́ apācyā́stá údaktá itthā́ nyák ǀ
purástātsárvayā viśā́ ǁte no gopā apācyās ta udak ta itthā nyak |
purastāt sarvayā viśā ||ते । नः॒ । गो॒पाः । अ॒पा॒च्याः । ते । उद॑क् । ते । इ॒त्था । न्य॑क् ।
पु॒रस्ता॑त् । सर्व॑या । वि॒शा ॥ते । नः । गोपाः । अपाच्याः । ते । उदक् । ते । इत्था । न्यक् ।
पुरस्तात् । सर्वया । विशा ॥té ǀ naḥ ǀ gopā́ḥ ǀ apācyā́ḥ ǀ té ǀ údak ǀ té ǀ itthā́ ǀ nyák ǀ
purástāt ǀ sárvayā ǀ viśā́ ǁte ǀ naḥ ǀ gopāḥ ǀ apācyāḥ ǀ te ǀ udak ǀ te ǀ itthā ǀ nyak ǀ
purastāt ǀ sarvayā ǀ viśā ǁ8.28.3 Aṣṭaka 6.2.35.3Anuvāka 8.4.170
-
Ṛk 4
यथा॒ वशं॑ति दे॒वास्तथेद॑स॒त्तदे॑षां॒ नकि॒रा मि॑नत् ।
अरा॑वा च॒न मर्त्यः॑ ॥यथा वशन्ति देवास् तथेद् असत् तद् एषां नकिर् आ मिनत् |
अरावा चन मर्त्यः ||yáthā váśanti devā́státhédasattádeṣām nákirā́ minat ǀ
árāvā caná mártyaḥ ǁyathā vaśanti devās tathed asat tad eṣāṃ nakir ā minat |
arāvā cana martyaḥ ||यथा॑ । वश॑न्ति । दे॒वाः । तथा॑ । इत् । अ॒स॒त् । तत् । ए॒षा॒म् । नकिः॑ । आ । मि॒न॒त् ।
अरा॑वा । च॒न । मर्त्यः॑ ॥यथा । वशन्ति । देवाः । तथा । इत् । असत् । तत् । एषाम् । नकिः । आ । मिनत् ।
अरावा । चन । मर्त्यः ॥yáthā ǀ váśanti ǀ devā́ḥ ǀ táthā ǀ ít ǀ asat ǀ tát ǀ eṣām ǀ nákiḥ ǀ ā́ ǀ minat ǀ
árāvā ǀ caná ǀ mártyaḥ ǁyathā ǀ vaśanti ǀ devāḥ ǀ tathā ǀ it ǀ asat ǀ tat ǀ eṣām ǀ nakiḥ ǀ ā ǀ minat ǀ
arāvā ǀ cana ǀ martyaḥ ǁ8.28.4 Aṣṭaka 6.2.35.4Anuvāka 8.4.171
-
Ṛk 5
स॒प्ता॒नां स॒प्त ऋ॒ष्टयः॑ स॒प्त द्यु॒म्नान्ये॑षां ।
स॒प्तो अधि॒ श्रियो॑ धिरे ॥सप्तानां सप्त ऋष्टयः सप्त द्युम्नान्य् एषाम् |
सप्तो अधि श्रियो धिरे ||saptānā́m saptá ṛṣṭáyaḥ saptá dyumnā́nyeṣām ǀ
saptó ádhi śríyo dhire ǁsaptānāṃ sapta ṛṣṭayaḥ sapta dyumnāny eṣām |
sapto adhi śriyo dhire ||स॒प्ता॒नाम् । स॒प्त । ऋ॒ष्टयः॑ । स॒प्त । द्यु॒म्नानि॑ । ए॒षा॒म् ।
स॒प्तो इति॑ । अधि॑ । श्रियः॑ । धि॒रे॒ ॥सप्तानाम् । सप्त । ऋष्टयः । सप्त । द्युम्नानि । एषाम् ।
सप्तो इति । अधि । श्रियः । धिरे ॥saptānā́m ǀ saptá ǀ ṛṣṭáyaḥ ǀ saptá ǀ dyumnā́ni ǀ eṣām ǀ
saptó íti ǀ ádhi ǀ śríyaḥ ǀ dhire ǁsaptānām ǀ sapta ǀ ṛṣṭayaḥ ǀ sapta ǀ dyumnāni ǀ eṣām ǀ
sapto iti ǀ adhi ǀ śriyaḥ ǀ dhire ǁ8.28.5 Aṣṭaka 6.2.35.5Anuvāka 8.4.172
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.