Sūkta 89
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nṛmedha Āṅgirasa; Purumedha Āṅgirasa
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Anuṣṭubh
Metres by ṛk
1st set of styles bṛhatī (1, 7); pādanicṛtpaṅkti (2); nicṛdbṛhatī (3); virāṭpaṅkti (4); virāḍanuṣṭup (5); nicṛdanuṣṭup (6)
2nd set of styles bṛhatī (1, 3, 7); satobṛhatī (2, 4); anuṣṭubh (5, 6)
-
Ṛk 1
बृ॒हदिंद्रा॑य गायत॒ मरु॑तो वृत्र॒हंत॑मं ।
येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ॥बृहद् इन्द्राय गायत मरुतो वृत्रहन्तमम् |
येन ज्योतिर् अजनयन्न् ऋतावृधो देवं देवाय जागृवि ||bṛhádíndrāya gāyata máruto vṛtrahántamam ǀ
yéna jyótirájanayannṛtāvṛ́dho devám devā́ya jā́gṛvi ǁbṛhad indrāya gāyata maruto vṛtrahantamam |
yena jyotir ajanayann ṛtāvṛdho devaṃ devāya jāgṛvi ||बृ॒हत् । इन्द्रा॑य । गा॒य॒त॒ । मरु॑तः । वृ॒त्र॒हम्ऽत॑मम् ।
येन॑ । ज्योतिः॑ । अज॑नयन् । ऋ॒त॒ऽवृधः॑ । दे॒वम् । दे॒वाय॑ । जागृ॑वि ॥बृहत् । इन्द्राय । गायत । मरुतः । वृत्रहम्ऽतमम् ।
येन । ज्योतिः । अजनयन् । ऋतऽवृधः । देवम् । देवाय । जागृवि ॥bṛhát ǀ índrāya ǀ gāyata ǀ márutaḥ ǀ vṛtrahám-tamam ǀ
yéna ǀ jyótiḥ ǀ ájanayan ǀ ṛta-vṛ́dhaḥ ǀ devám ǀ devā́ya ǀ jā́gṛvi ǁbṛhat ǀ indrāya ǀ gāyata ǀ marutaḥ ǀ vṛtraham-tamam ǀ
yena ǀ jyotiḥ ǀ ajanayan ǀ ṛta-vṛdhaḥ ǀ devam ǀ devāya ǀ jāgṛvi ǁ8.89.1 Aṣṭaka 6.6.12.1Anuvāka 8.9.63
-
Ṛk 2
अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेंद्रो॑ द्यु॒म्न्याभ॑वत् ।
दे॒वास्त॑ इंद्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ॥अपाधमद् अभिशस्तीर् अशस्तिहाथेन्द्रो द्युम्न्य् आभवत् |
देवास् त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ||ápādhamadabhíśastīraśastihā́théndro dyumnyā́bhavat ǀ
devā́sta indra sakhyā́ya yemire bṛ́hadbhāno márudgaṇa ǁapādhamad abhiśastīr aśastihāthendro dyumny ābhavat |
devās ta indra sakhyāya yemire bṛhadbhāno marudgaṇa ||अप॑ । अ॒ध॒म॒त् । अ॒भिऽश॑स्तीः । अ॒श॒स्ति॒ऽहा । अथ॑ । इन्द्रः॑ । द्यु॒म्नी । आ । अ॒भ॒व॒त् ।
दे॒वाः । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ । बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो । मरु॑त्ऽगण ॥अप । अधमत् । अभिऽशस्तीः । अशस्तिऽहा । अथ । इन्द्रः । द्युम्नी । आ । अभवत् ।
देवाः । ते । इन्द्र । सख्याय । येमिरे । बृहद्भानो इति बृहत्ऽभानो । मरुत्ऽगण ॥ápa ǀ adhamat ǀ abhí-śastīḥ ǀ aśasti-hā́ ǀ átha ǀ índraḥ ǀ dyumnī́ ǀ ā́ ǀ abhavat ǀ
devā́ḥ ǀ te ǀ indra ǀ sakhyā́ya ǀ yemire ǀ bṛ́hadbhāno íti bṛ́hat-bhāno ǀ márut-gaṇa ǁapa ǀ adhamat ǀ abhi-śastīḥ ǀ aśasti-hā ǀ atha ǀ indraḥ ǀ dyumnī ǀ ā ǀ abhavat ǀ
devāḥ ǀ te ǀ indra ǀ sakhyāya ǀ yemire ǀ bṛhadbhāno iti bṛhat-bhāno ǀ marut-gaṇa ǁ8.89.2 Aṣṭaka 6.6.12.2Anuvāka 8.9.64
-
Ṛk 3
प्र व॒ इंद्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत ।
वृ॒त्रं ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा ॥प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत |
वृत्रं हनति वृत्रहा शतक्रतुर् वज्रेण शतपर्वणा ||prá va índrāya bṛhaté máruto bráhmārcata ǀ
vṛtrám hanati vṛtrahā́ śatákraturvájreṇa śatáparvaṇā ǁpra va indrāya bṛhate maruto brahmārcata |
vṛtraṃ hanati vṛtrahā śatakratur vajreṇa śataparvaṇā ||प्र । वः॒ । इन्द्रा॑य । बृ॒ह॒ते । मरु॑तः । ब्रह्म॑ । अ॒र्च॒त॒ ।
वृ॒त्रम् । ह॒न॒ति॒ । वृ॒त्र॒ऽहा । श॒तऽक्र॑तुः । वज्रे॑ण । श॒तऽप॑र्वणा ॥प्र । वः । इन्द्राय । बृहते । मरुतः । ब्रह्म । अर्चत ।
वृत्रम् । हनति । वृत्रऽहा । शतऽक्रतुः । वज्रेण । शतऽपर्वणा ॥prá ǀ vaḥ ǀ índrāya ǀ bṛhaté ǀ márutaḥ ǀ bráhma ǀ arcata ǀ
vṛtrám ǀ hanati ǀ vṛtra-hā́ ǀ śatá-kratuḥ ǀ vájreṇa ǀ śatá-parvaṇā ǁpra ǀ vaḥ ǀ indrāya ǀ bṛhate ǀ marutaḥ ǀ brahma ǀ arcata ǀ
vṛtram ǀ hanati ǀ vṛtra-hā ǀ śata-kratuḥ ǀ vajreṇa ǀ śata-parvaṇā ǁ8.89.3 Aṣṭaka 6.6.12.3Anuvāka 8.9.65
-
Ṛk 4
अ॒भि प्र भ॑र धृष॒ता धृ॑षन्मनः॒ श्रव॑श्चित्ते असद्बृ॒हत् ।
अर्षं॒त्वापो॒ जव॑सा॒ वि मा॒तरो॒ हनो॑ वृ॒त्रं जया॒ स्वः॑ ॥अभि प्र भर धृषता धृषन्मनः श्रवश् चित् ते असद् बृहत् |
अर्षन्त्व् आपो जवसा वि मातरो हनो वृत्रं जया स्वः ||abhí prá bhara dhṛṣatā́ dhṛṣanmanaḥ śrávaścitte asadbṛhát ǀ
árṣantvā́po jávasā ví mātáro háno vṛtrám jáyā sváḥ ǁabhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaś cit te asad bṛhat |
arṣantv āpo javasā vi mātaro hano vṛtraṃ jayā svaḥ ||अ॒भि । प्र । भ॒र॒ । धृ॒ष॒ता । धृ॒ष॒त्ऽम॒नः॒ । श्रवः॑ । चि॒त् । ते॒ । अ॒स॒त् । बृ॒हत् ।
अर्ष॑न्तु । आपः॑ । जव॑सा । वि । मा॒तरः॑ । हनः॑ । वृ॒त्रम् । जय॑ । स्वः॑ ॥अभि । प्र । भर । धृषता । धृषत्ऽमनः । श्रवः । चित् । ते । असत् । बृहत् ।
अर्षन्तु । आपः । जवसा । वि । मातरः । हनः । वृत्रम् । जय । स्वः ॥abhí ǀ prá ǀ bhara ǀ dhṛṣatā́ ǀ dhṛṣat-manaḥ ǀ śrávaḥ ǀ cit ǀ te ǀ asat ǀ bṛhát ǀ
árṣantu ǀ ā́paḥ ǀ jávasā ǀ ví ǀ mātáraḥ ǀ hánaḥ ǀ vṛtrám ǀ jáya ǀ sváḥ ǁabhi ǀ pra ǀ bhara ǀ dhṛṣatā ǀ dhṛṣat-manaḥ ǀ śravaḥ ǀ cit ǀ te ǀ asat ǀ bṛhat ǀ
arṣantu ǀ āpaḥ ǀ javasā ǀ vi ǀ mātaraḥ ǀ hanaḥ ǀ vṛtram ǀ jaya ǀ svaḥ ǁ8.89.4 Aṣṭaka 6.6.12.4Anuvāka 8.9.66
-
Ṛk 5
यज्जाय॑था अपूर्व्य॒ मघ॑वन्वृत्र॒हत्या॑य ।
तत्पृ॑थि॒वीम॑प्रथय॒स्तद॑स्तभ्ना उ॒त द्यां ॥यज् जायथा अपूर्व्य मघवन् वृत्रहत्याय |
तत् पृथिवीम् अप्रथयस् तद् अस्तभ्ना उत द्याम् ||yájjā́yathā apūrvya mághavanvṛtrahátyāya ǀ
tátpṛthivī́maprathayastádastabhnā utá dyām ǁyaj jāyathā apūrvya maghavan vṛtrahatyāya |
tat pṛthivīm aprathayas tad astabhnā uta dyām ||यत् । जाय॑थाः । अ॒पू॒र्व्य॒ । मघ॑ऽवन् । वृ॒त्र॒ऽहत्या॑य ।
तत् । पृ॒थि॒वीम् । अ॒प्र॒थ॒यः॒ । तत् । अ॒स्त॒भ्नाः॒ । उ॒त । द्याम् ॥यत् । जायथाः । अपूर्व्य । मघऽवन् । वृत्रऽहत्याय ।
तत् । पृथिवीम् । अप्रथयः । तत् । अस्तभ्नाः । उत । द्याम् ॥yát ǀ jā́yathāḥ ǀ apūrvya ǀ mágha-van ǀ vṛtra-hátyāya ǀ
tát ǀ pṛthivī́m ǀ aprathayaḥ ǀ tát ǀ astabhnāḥ ǀ utá ǀ dyā́m ǁyat ǀ jāyathāḥ ǀ apūrvya ǀ magha-van ǀ vṛtra-hatyāya ǀ
tat ǀ pṛthivīm ǀ aprathayaḥ ǀ tat ǀ astabhnāḥ ǀ uta ǀ dyām ǁ8.89.5 Aṣṭaka 6.6.12.5Anuvāka 8.9.67
-
Ṛk 6
तत्ते॑ य॒ज्ञो अ॑जायत॒ तद॒र्क उ॒त हस्कृ॑तिः ।
तद्विश्व॑मभि॒भूर॑सि॒ यज्जा॒तं यच्च॒ जंत्वं॑ ॥तत् ते यज्ञो अजायत तद् अर्क उत हस्कृतिः |
तद् विश्वम् अभिभूर् असि यज् जातं यच् च जन्त्वम् ||tátte yajñó ajāyata tádarká utá háskṛtiḥ ǀ
tádvíśvamabhibhū́rasi yájjātám yácca jántvam ǁtat te yajño ajāyata tad arka uta haskṛtiḥ |
tad viśvam abhibhūr asi yaj jātaṃ yac ca jantvam ||तत् । ते॒ । य॒ज्ञः । अ॒जा॒य॒त॒ । तत् । अ॒र्कः । उ॒त । हस्कृ॑तिः ।
तत् । विश्व॑म् । अ॒भि॒ऽभूः । अ॒सि॒ । यत् । जा॒तम् । यत् । च॒ । जन्त्व॑म् ॥तत् । ते । यज्ञः । अजायत । तत् । अर्कः । उत । हस्कृतिः ।
तत् । विश्वम् । अभिऽभूः । असि । यत् । जातम् । यत् । च । जन्त्वम् ॥tát ǀ te ǀ yajñáḥ ǀ ajāyata ǀ tát ǀ arkáḥ ǀ utá ǀ háskṛtiḥ ǀ
tát ǀ víśvam ǀ abhi-bhū́ḥ ǀ asi ǀ yát ǀ jātám ǀ yát ǀ ca ǀ jántvam ǁtat ǀ te ǀ yajñaḥ ǀ ajāyata ǀ tat ǀ arkaḥ ǀ uta ǀ haskṛtiḥ ǀ
tat ǀ viśvam ǀ abhi-bhūḥ ǀ asi ǀ yat ǀ jātam ǀ yat ǀ ca ǀ jantvam ǁ8.89.6 Aṣṭaka 6.6.12.6Anuvāka 8.9.68
-
Ṛk 7
आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यं॑ रोहयो दि॒वि ।
घ॒र्मं न सामं॑तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व॑णसे बृ॒हत् ॥आमासु पक्वम् ऐरय आ सूर्यं रोहयो दिवि |
घर्मं न सामन् तपता सुवृक्तिभिर् जुष्टं गिर्वणसे बृहत् ||āmā́su pakvámáiraya ā́ sū́ryam rohayo diví ǀ
gharmám ná sā́mantapatā suvṛktíbhirjúṣṭam gírvaṇase bṛhát ǁāmāsu pakvam airaya ā sūryaṃ rohayo divi |
gharmaṃ na sāman tapatā suvṛktibhir juṣṭaṃ girvaṇase bṛhat ||आ॒मासु॑ । प॒क्वम् । ऐर॑यः । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि ।
घ॒र्मम् । न । साम॑न् । त॒प॒त॒ । सु॒वृ॒क्तिऽभिः॑ । जुष्ट॑म् । गिर्व॑णसे । बृ॒हत् ॥आमासु । पक्वम् । ऐरयः । आ । सूर्यम् । रोहयः । दिवि ।
घर्मम् । न । सामन् । तपत । सुवृक्तिऽभिः । जुष्टम् । गिर्वणसे । बृहत् ॥āmā́su ǀ pakvám ǀ áirayaḥ ǀ ā́ ǀ sū́ryam ǀ rohayaḥ ǀ diví ǀ
gharmám ǀ ná ǀ sā́man ǀ tapata ǀ suvṛktí-bhiḥ ǀ júṣṭam ǀ gírvaṇase ǀ bṛhát ǁāmāsu ǀ pakvam ǀ airayaḥ ǀ ā ǀ sūryam ǀ rohayaḥ ǀ divi ǀ
gharmam ǀ na ǀ sāman ǀ tapata ǀ suvṛkti-bhiḥ ǀ juṣṭam ǀ girvaṇase ǀ bṛhat ǁ8.89.7 Aṣṭaka 6.6.12.7Anuvāka 8.9.69
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.