Ṛk 8.89.7
Saṃhitā
आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यं॑ रोहयो दि॒वि ।
घ॒र्मं न सामं॑तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व॑णसे बृ॒हत् ॥
आमासु पक्वम् ऐरय आ सूर्यं रोहयो दिवि |
घर्मं न सामन् तपता सुवृक्तिभिर् जुष्टं गिर्वणसे बृहत् ||
āmā́su pakvámáiraya ā́ sū́ryam rohayo diví ǀ
gharmám ná sā́mantapatā suvṛktíbhirjúṣṭam gírvaṇase bṛhát ǁ
āmāsu pakvam airaya ā sūryaṃ rohayo divi |
gharmaṃ na sāman tapatā suvṛktibhir juṣṭaṃ girvaṇase bṛhat ||
Padapāṭha
आ॒मासु॑ । प॒क्वम् । ऐर॑यः । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि ।
घ॒र्मम् । न । साम॑न् । त॒प॒त॒ । सु॒वृ॒क्तिऽभिः॑ । जुष्ट॑म् । गिर्व॑णसे । बृ॒हत् ॥
आमासु । पक्वम् । ऐरयः । आ । सूर्यम् । रोहयः । दिवि ।
घर्मम् । न । सामन् । तपत । सुवृक्तिऽभिः । जुष्टम् । गिर्वणसे । बृहत् ॥
āmā́su ǀ pakvám ǀ áirayaḥ ǀ ā́ ǀ sū́ryam ǀ rohayaḥ ǀ diví ǀ
gharmám ǀ ná ǀ sā́man ǀ tapata ǀ suvṛktí-bhiḥ ǀ júṣṭam ǀ gírvaṇase ǀ bṛhát ǁ
āmāsu ǀ pakvam ǀ airayaḥ ǀ ā ǀ sūryam ǀ rohayaḥ ǀ divi ǀ
gharmam ǀ na ǀ sāman ǀ tapata ǀ suvṛkti-bhiḥ ǀ juṣṭam ǀ girvaṇase ǀ bṛhat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.089.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.12.07
- Maṇḍala · Anuvāka · Ṛk
- 08.09.069
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nṛmedha Āṅgirasa; Purumedha Āṅgirasa
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Anuṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.