Ṛk 8.89.6
Saṃhitā
तत्ते॑ य॒ज्ञो अ॑जायत॒ तद॒र्क उ॒त हस्कृ॑तिः ।
तद्विश्व॑मभि॒भूर॑सि॒ यज्जा॒तं यच्च॒ जंत्वं॑ ॥
तत् ते यज्ञो अजायत तद् अर्क उत हस्कृतिः |
तद् विश्वम् अभिभूर् असि यज् जातं यच् च जन्त्वम् ||
tátte yajñó ajāyata tádarká utá háskṛtiḥ ǀ
tádvíśvamabhibhū́rasi yájjātám yácca jántvam ǁ
tat te yajño ajāyata tad arka uta haskṛtiḥ |
tad viśvam abhibhūr asi yaj jātaṃ yac ca jantvam ||
Padapāṭha
तत् । ते॒ । य॒ज्ञः । अ॒जा॒य॒त॒ । तत् । अ॒र्कः । उ॒त । हस्कृ॑तिः ।
तत् । विश्व॑म् । अ॒भि॒ऽभूः । अ॒सि॒ । यत् । जा॒तम् । यत् । च॒ । जन्त्व॑म् ॥
तत् । ते । यज्ञः । अजायत । तत् । अर्कः । उत । हस्कृतिः ।
तत् । विश्वम् । अभिऽभूः । असि । यत् । जातम् । यत् । च । जन्त्वम् ॥
tát ǀ te ǀ yajñáḥ ǀ ajāyata ǀ tát ǀ arkáḥ ǀ utá ǀ háskṛtiḥ ǀ
tát ǀ víśvam ǀ abhi-bhū́ḥ ǀ asi ǀ yát ǀ jātám ǀ yát ǀ ca ǀ jántvam ǁ
tat ǀ te ǀ yajñaḥ ǀ ajāyata ǀ tat ǀ arkaḥ ǀ uta ǀ haskṛtiḥ ǀ
tat ǀ viśvam ǀ abhi-bhūḥ ǀ asi ǀ yat ǀ jātam ǀ yat ǀ ca ǀ jantvam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.089.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.12.06
- Maṇḍala · Anuvāka · Ṛk
- 08.09.068
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nṛmedha Āṅgirasa; Purumedha Āṅgirasa
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.