Sūkta 79
- Devatā देवता
- Soma
- Ṛṣi ऋषि
- Kṛtnu Bhārgava
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
Metres by ṛk
1st set of styles gāyatrī (4, 5, 7, 8); nicṛdgāyatrī (1, 2, 6); virāṭgāyatrī (3); nicṛdanuṣṭup (9)
2nd set of styles gāyatrī (1-8); anuṣṭubh (9)
-
Ṛk 1
अ॒यं कृ॒त्नुरगृ॑भीतो विश्व॒जिदु॒द्भिदित्सोमः॑ ।
ऋषि॒र्विप्रः॒ काव्ये॑न ॥अयं कृत्नुर् अगृभीतो विश्वजिद् उद्भिद् इत् सोमः |
ऋषिर् विप्रः काव्येन ||ayám kṛtnúrágṛbhīto viśvajídudbhídítsómaḥ ǀ
ṛ́ṣirvípraḥ kā́vyena ǁayaṃ kṛtnur agṛbhīto viśvajid udbhid it somaḥ |
ṛṣir vipraḥ kāvyena ||अ॒यम् । कृ॒त्नुः । अगृ॑भीतः । वि॒श्व॒ऽजित् । उ॒त्ऽभित् । इत् । सोमः॑ ।
ऋषिः॑ । विप्रः॑ । काव्ये॑न ॥अयम् । कृत्नुः । अगृभीतः । विश्वऽजित् । उत्ऽभित् । इत् । सोमः ।
ऋषिः । विप्रः । काव्येन ॥ayám ǀ kṛtnúḥ ǀ ágṛbhītaḥ ǀ viśva-jít ǀ ut-bhít ǀ ít ǀ sómaḥ ǀ
ṛ́ṣiḥ ǀ vípraḥ ǀ kā́vyena ǁayam ǀ kṛtnuḥ ǀ agṛbhītaḥ ǀ viśva-jit ǀ ut-bhit ǀ it ǀ somaḥ ǀ
ṛṣiḥ ǀ vipraḥ ǀ kāvyena ǁ8.79.1 Aṣṭaka 6.5.33.1Anuvāka 8.8.131
-
Ṛk 2
अ॒भ्यू॑र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रं ।
प्रेमं॒धः ख्य॒न्निः श्रो॒णो भू॑त् ॥अभ्य् ऊर्णोति यन् नग्नम् भिषक्ति विश्वं यत् तुरम् |
प्रेम् अन्धः ख्यन् निः श्रोणो भूत् ||abhyū́rṇoti yánnagnám bhiṣákti víśvam yátturám ǀ
prémandháḥ khyanníḥ śroṇó bhūt ǁabhy ūrṇoti yan nagnam bhiṣakti viśvaṃ yat turam |
prem andhaḥ khyan niḥ śroṇo bhūt ||अ॒भि । ऊ॒र्णो॒ति॒ । यत् । न॒ग्नम् । भि॒षक्ति॑ । विश्व॑म् । यत् । तु॒रम् ।
प्र । ई॒म् । अ॒न्धः । ख्य॒त् । निः । श्रो॒णः । भू॒त् ॥अभि । ऊर्णोति । यत् । नग्नम् । भिषक्ति । विश्वम् । यत् । तुरम् ।
प्र । ईम् । अन्धः । ख्यत् । निः । श्रोणः । भूत् ॥abhí ǀ ūrṇoti ǀ yát ǀ nagnám ǀ bhiṣákti ǀ víśvam ǀ yát ǀ turám ǀ
prá ǀ īm ǀ andháḥ ǀ khyat ǀ níḥ ǀ śroṇáḥ ǀ bhūt ǁabhi ǀ ūrṇoti ǀ yat ǀ nagnam ǀ bhiṣakti ǀ viśvam ǀ yat ǀ turam ǀ
pra ǀ īm ǀ andhaḥ ǀ khyat ǀ niḥ ǀ śroṇaḥ ǀ bhūt ǁ8.79.2 Aṣṭaka 6.5.33.2Anuvāka 8.8.132
-
Ṛk 3
त्वं सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्यः ।
उ॒रु यं॒तासि॒ वरू॑थं ॥त्वं सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्यः |
उरु यन्तासि वरूथम् ||tvám soma tanūkṛ́dbhyo dvéṣobhyo’nyákṛtebhyaḥ ǀ
urú yantā́si várūtham ǁtvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhyaḥ |
uru yantāsi varūtham ||त्वम् । सो॒म॒ । त॒नू॒कृत्ऽभ्यः॑ । द्वेषः॑ऽभ्यः । अ॒न्यऽकृ॑तेभ्यः ।
उ॒रु । य॒न्ता । अ॒सि॒ । वरू॑थम् ॥त्वम् । सोम । तनूकृत्ऽभ्यः । द्वेषःऽभ्यः । अन्यऽकृतेभ्यः ।
उरु । यन्ता । असि । वरूथम् ॥tvám ǀ soma ǀ tanūkṛ́t-bhyaḥ ǀ dvéṣaḥ-bhyaḥ ǀ anyá-kṛtebhyaḥ ǀ
urú ǀ yantā́ ǀ asi ǀ várūtham ǁtvam ǀ soma ǀ tanūkṛt-bhyaḥ ǀ dveṣaḥ-bhyaḥ ǀ anya-kṛtebhyaḥ ǀ
uru ǀ yantā ǀ asi ǀ varūtham ǁ8.79.3 Aṣṭaka 6.5.33.3Anuvāka 8.8.133
-
Ṛk 4
त्वं चि॒त्ती तव॒ दक्षै॑र्दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन् ।
यावी॑र॒घस्य॑ चि॒द्द्वेषः॑ ॥त्वं चित्ती तव दक्षैर् दिव आ पृथिव्या ऋजीषिन् |
यावीर् अघस्य चिद् द्वेषः ||tvám cittī́ táva dákṣairdivá ā́ pṛthivyā́ ṛjīṣin ǀ
yā́vīraghásya ciddvéṣaḥ ǁtvaṃ cittī tava dakṣair diva ā pṛthivyā ṛjīṣin |
yāvīr aghasya cid dveṣaḥ ||त्वम् । चि॒त्ती । तव॑ । दक्षैः॑ । दि॒वः । आ । पृ॒थि॒व्याः । ऋ॒जी॒षि॒न् ।
यावीः॑ । अ॒घस्य॑ । चि॒त् । द्वेषः॑ ॥त्वम् । चित्ती । तव । दक्षैः । दिवः । आ । पृथिव्याः । ऋजीषिन् ।
यावीः । अघस्य । चित् । द्वेषः ॥tvám ǀ cittī́ ǀ táva ǀ dákṣaiḥ ǀ diváḥ ǀ ā́ ǀ pṛthivyā́ḥ ǀ ṛjīṣin ǀ
yā́vīḥ ǀ aghásya ǀ cit ǀ dvéṣaḥ ǁtvam ǀ cittī ǀ tava ǀ dakṣaiḥ ǀ divaḥ ǀ ā ǀ pṛthivyāḥ ǀ ṛjīṣin ǀ
yāvīḥ ǀ aghasya ǀ cit ǀ dveṣaḥ ǁ8.79.4 Aṣṭaka 6.5.33.4Anuvāka 8.8.134
-
Ṛk 5
अ॒र्थिनो॒ यंति॒ चेदर्थं॒ गच्छा॒निद्द॒दुषो॑ रा॒तिं ।
व॒वृ॒ज्युस्तृष्य॑तः॒ कामं॑ ॥अर्थिनो यन्ति चेद् अर्थं गच्छान् इद् ददुषो रातिम् |
ववृज्युस् तृष्यतः कामम् ||arthíno yánti cédártham gácchāníddadúṣo rātím ǀ
vavṛjyústṛ́ṣyataḥ kā́mam ǁarthino yanti ced arthaṃ gacchān id daduṣo rātim |
vavṛjyus tṛṣyataḥ kāmam ||अ॒र्थिनः॑ । यन्ति॑ । च॒ । इत् । अर्थ॑म् । गच्छा॑न् । इत् । द॒दुषः॑ । रा॒तिम् ।
व॒वृ॒ज्युः । तृष्य॑तः । काम॑म् ॥अर्थिनः । यन्ति । च । इत् । अर्थम् । गच्छान् । इत् । ददुषः । रातिम् ।
ववृज्युः । तृष्यतः । कामम् ॥arthínaḥ ǀ yánti ǀ ca ǀ ít ǀ ártham ǀ gácchān ǀ ít ǀ dadúṣaḥ ǀ rātím ǀ
vavṛjyúḥ ǀ tṛ́ṣyataḥ ǀ kā́mam ǁarthinaḥ ǀ yanti ǀ ca ǀ it ǀ artham ǀ gacchān ǀ it ǀ daduṣaḥ ǀ rātim ǀ
vavṛjyuḥ ǀ tṛṣyataḥ ǀ kāmam ǁ8.79.5 Aṣṭaka 6.5.33.5Anuvāka 8.8.135
-
Ṛk 6
वि॒दद्यत्पू॒र्व्यं न॒ष्टमुदी॑मृता॒युमी॑रयत् ।
प्रेमायु॑स्तारी॒दती॑र्णं ॥विदद् यत् पूर्व्यं नष्टम् उद् ईम् ऋतायुम् ईरयत् |
प्रेम् आयुस् तारीद् अतीर्णम् ||vidádyátpūrvyám naṣṭámúdīmṛtāyúmīrayat ǀ
prémā́yustārīdátīrṇam ǁvidad yat pūrvyaṃ naṣṭam ud īm ṛtāyum īrayat |
prem āyus tārīd atīrṇam ||वि॒दत् । यत् । पू॒र्व्यम् । न॒ष्टम् । उत् । ई॒म् । ऋ॒त॒ऽयुम् । ई॒र॒य॒त् ।
प्र । ई॒म् । आयुः॑ । ता॒री॒त् । अती॑र्णम् ॥विदत् । यत् । पूर्व्यम् । नष्टम् । उत् । ईम् । ऋतऽयुम् । ईरयत् ।
प्र । ईम् । आयुः । तारीत् । अतीर्णम् ॥vidát ǀ yát ǀ pūrvyám ǀ naṣṭám ǀ út ǀ īm ǀ ṛta-yúm ǀ īrayat ǀ
prá ǀ īm ǀ ā́yuḥ ǀ tārīt ǀ átīrṇam ǁvidat ǀ yat ǀ pūrvyam ǀ naṣṭam ǀ ut ǀ īm ǀ ṛta-yum ǀ īrayat ǀ
pra ǀ īm ǀ āyuḥ ǀ tārīt ǀ atīrṇam ǁ8.79.6 Aṣṭaka 6.5.34.1Anuvāka 8.8.136
-
Ṛk 7
सु॒शेवो॑ नो मृळ॒याकु॒रदृ॑प्तक्रतुरवा॒तः ।
भवा॑ नः सोम॒ शं हृ॒दे ॥सुशेवो नो मृऌअयाकुर् अदृप्तक्रतुर् अवातः |
भवा नः सोम शं हृदे ||suśévo no mṛḷayā́kurádṛptakraturavātáḥ ǀ
bhávā naḥ soma śám hṛdé ǁsuśevo no mṛḷayākur adṛptakratur avātaḥ |
bhavā naḥ soma śaṃ hṛde ||सु॒ऽशेवः॑ । नः॒ । मृ॒ळ॒याकुः॑ । अदृ॑प्तऽक्रतुः । अ॒वा॒तः ।
भव॑ । नः॒ । सो॒म॒ । शम् । हृ॒दे ॥सुऽशेवः । नः । मृळयाकुः । अदृप्तऽक्रतुः । अवातः ।
भव । नः । सोम । शम् । हृदे ॥su-śévaḥ ǀ naḥ ǀ mṛḷayā́kuḥ ǀ ádṛpta-kratuḥ ǀ avātáḥ ǀ
bháva ǀ naḥ ǀ soma ǀ śám ǀ hṛdé ǁsu-śevaḥ ǀ naḥ ǀ mṛḷayākuḥ ǀ adṛpta-kratuḥ ǀ avātaḥ ǀ
bhava ǀ naḥ ǀ soma ǀ śam ǀ hṛde ǁ8.79.7 Aṣṭaka 6.5.34.2Anuvāka 8.8.137
-
Ṛk 8
मा नः॑ सोम॒ सं वी॑विजो॒ मा वि बी॑भिषथा राजन् ।
मा नो॒ हार्दि॑ त्वि॒षा व॑धीः ॥मा नः सोम सं वीविजो मा वि बीभिषथा राजन् |
मा नो हार्दि त्विषा वधीः ||mā́ naḥ soma sám vīvijo mā́ ví bībhiṣathā rājan ǀ
mā́ no hā́rdi tviṣā́ vadhīḥ ǁmā naḥ soma saṃ vīvijo mā vi bībhiṣathā rājan |
mā no hārdi tviṣā vadhīḥ ||मा । नः॒ । सो॒म॒ । सम् । वी॒वि॒जः॒ । मा । वि । बी॒भि॒ष॒थाः॒ । रा॒ज॒न् ।
मा । नः॒ । हार्दि॑ । त्वि॒षा । व॒धीः॒ ॥मा । नः । सोम । सम् । वीविजः । मा । वि । बीभिषथाः । राजन् ।
मा । नः । हार्दि । त्विषा । वधीः ॥mā́ ǀ naḥ ǀ soma ǀ sám ǀ vīvijaḥ ǀ mā́ ǀ ví ǀ bībhiṣathāḥ ǀ rājan ǀ
mā́ ǀ naḥ ǀ hā́rdi ǀ tviṣā́ ǀ vadhīḥ ǁmā ǀ naḥ ǀ soma ǀ sam ǀ vīvijaḥ ǀ mā ǀ vi ǀ bībhiṣathāḥ ǀ rājan ǀ
mā ǀ naḥ ǀ hārdi ǀ tviṣā ǀ vadhīḥ ǁ8.79.8 Aṣṭaka 6.5.34.3Anuvāka 8.8.138
-
Ṛk 9
अव॒ यत्स्वे स॒धस्थे॑ दे॒वानां॑ दुर्म॒तीरीक्षे॑ ।
राज॒न्नप॒ द्विषः॑ सेध॒ मीढ्वो॒ अप॒ स्रिधः॑ सेध ॥अव यत् स्वे सधस्थे देवानां दुर्मतीर् ईक्षे |
राजन्न् अप द्विषः सेध मीढ्वो अप स्रिधः सेध ||áva yátsvé sadhásthe devā́nām durmatī́rī́kṣe ǀ
rā́jannápa dvíṣaḥ sedha mī́ḍhvo ápa srídhaḥ sedha ǁava yat sve sadhasthe devānāṃ durmatīr īkṣe |
rājann apa dviṣaḥ sedha mīḍhvo apa sridhaḥ sedha ||अव॑ । यत् । स्वे । स॒धऽस्थे॑ । दे॒वाना॑म् । दुः॒ऽम॒तीः । ईक्षे॑ ।
राज॑न् । अप॑ । द्विषः॑ । से॒ध॒ । मीढ्वः॑ । अप॑ । स्रिधः॑ । से॒ध॒ ॥अव । यत् । स्वे । सधऽस्थे । देवानाम् । दुःऽमतीः । ईक्षे ।
राजन् । अप । द्विषः । सेध । मीढ्वः । अप । स्रिधः । सेध ॥áva ǀ yát ǀ své ǀ sadhá-sthe ǀ devā́nām ǀ duḥ-matī́ḥ ǀ ī́kṣe ǀ
rā́jan ǀ ápa ǀ dvíṣaḥ ǀ sedha ǀ mī́ḍhvaḥ ǀ ápa ǀ srídhaḥ ǀ sedha ǁava ǀ yat ǀ sve ǀ sadha-sthe ǀ devānām ǀ duḥ-matīḥ ǀ īkṣe ǀ
rājan ǀ apa ǀ dviṣaḥ ǀ sedha ǀ mīḍhvaḥ ǀ apa ǀ sridhaḥ ǀ sedha ǁ8.79.9 Aṣṭaka 6.5.34.4Anuvāka 8.8.139
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.