Ṛk 8.79.2
Saṃhitā
अ॒भ्यू॑र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रं ।
प्रेमं॒धः ख्य॒न्निः श्रो॒णो भू॑त् ॥
अभ्य् ऊर्णोति यन् नग्नम् भिषक्ति विश्वं यत् तुरम् |
प्रेम् अन्धः ख्यन् निः श्रोणो भूत् ||
abhyū́rṇoti yánnagnám bhiṣákti víśvam yátturám ǀ
prémandháḥ khyanníḥ śroṇó bhūt ǁ
abhy ūrṇoti yan nagnam bhiṣakti viśvaṃ yat turam |
prem andhaḥ khyan niḥ śroṇo bhūt ||
Padapāṭha
अ॒भि । ऊ॒र्णो॒ति॒ । यत् । न॒ग्नम् । भि॒षक्ति॑ । विश्व॑म् । यत् । तु॒रम् ।
प्र । ई॒म् । अ॒न्धः । ख्य॒त् । निः । श्रो॒णः । भू॒त् ॥
अभि । ऊर्णोति । यत् । नग्नम् । भिषक्ति । विश्वम् । यत् । तुरम् ।
प्र । ईम् । अन्धः । ख्यत् । निः । श्रोणः । भूत् ॥
abhí ǀ ūrṇoti ǀ yát ǀ nagnám ǀ bhiṣákti ǀ víśvam ǀ yát ǀ turám ǀ
prá ǀ īm ǀ andháḥ ǀ khyat ǀ níḥ ǀ śroṇáḥ ǀ bhūt ǁ
abhi ǀ ūrṇoti ǀ yat ǀ nagnam ǀ bhiṣakti ǀ viśvam ǀ yat ǀ turam ǀ
pra ǀ īm ǀ andhaḥ ǀ khyat ǀ niḥ ǀ śroṇaḥ ǀ bhūt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.079.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.5.33.02
- Maṇḍala · Anuvāka · Ṛk
- 08.08.132
- Devatā देवता
- Soma
- Ṛṣi ऋषि
- Kṛtnu Bhārgava
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.