Sūkta 94
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Bindu Āṅgirasa Or Pūtadakṣa Āṅgirasa
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (4, 6, 10-12); gāyatrī (3, 5, 7, 9); virāḍgāyatrī (1, 2, 8)
2nd set of styles gāyatrī
-
Ṛk 1
गौर्ध॑यति म॒रुतां॑ श्रव॒स्युर्मा॒ता म॒घोनां॑ ।
यु॒क्ता वह्नी॒ रथा॑नां ॥गौर् धयति मरुतां श्रवस्युर् माता मघोनाम् |
युक्ता वह्नी रथानाम् ||gáurdhayati marútām śravasyúrmātā́ maghónām ǀ
yuktā́ váhnī ráthānām ǁgaur dhayati marutāṃ śravasyur mātā maghonām |
yuktā vahnī rathānām ||गौः । ध॒य॒ति॒ । म॒रुता॑म् । श्र॒व॒स्युः । मा॒ता । म॒घोना॑म् ।
यु॒क्ता । वह्निः॑ । रथा॑नाम् ॥गौः । धयति । मरुताम् । श्रवस्युः । माता । मघोनाम् ।
युक्ता । वह्निः । रथानाम् ॥gáuḥ ǀ dhayati ǀ marútām ǀ śravasyúḥ ǀ mātā́ ǀ maghónām ǀ
yuktā́ ǀ váhniḥ ǀ ráthānām ǁgauḥ ǀ dhayati ǀ marutām ǀ śravasyuḥ ǀ mātā ǀ maghonām ǀ
yuktā ǀ vahniḥ ǀ rathānām ǁ8.94.1 Aṣṭaka 6.6.28.1Anuvāka 8.10.1
-
Ṛk 2
यस्या॑ दे॒वा उ॒पस्थे॑ व्र॒ता विश्वे॑ धा॒रयं॑ते ।
सूर्या॒मासा॑ दृ॒शे कं ॥यस्या देवा उपस्थे व्रता विश्वे धारयन्ते |
सूर्यामासा दृशे कम् ||yásyā devā́ upásthe vratā́ víśve dhāráyante ǀ
sū́ryāmā́sā dṛśé kám ǁyasyā devā upasthe vratā viśve dhārayante |
sūryāmāsā dṛśe kam ||यस्याः॑ । दे॒वाः । उ॒पऽस्थे॑ । व्र॒ता । विश्वे॑ । धा॒रय॑न्ते ।
सूर्या॒मासा॑ । दृ॒शे । कम् ॥यस्याः । देवाः । उपऽस्थे । व्रता । विश्वे । धारयन्ते ।
सूर्यामासा । दृशे । कम् ॥yásyāḥ ǀ devā́ḥ ǀ upá-sthe ǀ vratā́ ǀ víśve ǀ dhāráyante ǀ
sū́ryāmā́sā ǀ dṛśé ǀ kám ǁyasyāḥ ǀ devāḥ ǀ upa-sthe ǀ vratā ǀ viśve ǀ dhārayante ǀ
sūryāmāsā ǀ dṛśe ǀ kam ǁ8.94.2 Aṣṭaka 6.6.28.2Anuvāka 8.10.2
-
Ṛk 3
तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणंति का॒रवः॑ ।
म॒रुतः॒ सोम॑पीतये ॥तत् सु नो विश्वे अर्य आ सदा गृणन्ति कारवः |
मरुतः सोमपीतये ||tátsú no víśve aryá ā́ sádā gṛṇanti kārávaḥ ǀ
marútaḥ sómapītaye ǁtat su no viśve arya ā sadā gṛṇanti kāravaḥ |
marutaḥ somapītaye ||तत् । सु । नः॒ । विश्वे॑ । अ॒र्यः । आ । सदा॑ । गृ॒ण॒न्ति॒ । का॒रवः॑ ।
म॒रुतः॑ । सोम॑ऽपीतये ॥तत् । सु । नः । विश्वे । अर्यः । आ । सदा । गृणन्ति । कारवः ।
मरुतः । सोमऽपीतये ॥tát ǀ sú ǀ naḥ ǀ víśve ǀ aryáḥ ǀ ā́ ǀ sádā ǀ gṛṇanti ǀ kārávaḥ ǀ
marútaḥ ǀ sóma-pītaye ǁtat ǀ su ǀ naḥ ǀ viśve ǀ aryaḥ ǀ ā ǀ sadā ǀ gṛṇanti ǀ kāravaḥ ǀ
marutaḥ ǀ soma-pītaye ǁ8.94.3 Aṣṭaka 6.6.28.3Anuvāka 8.10.3
-
Ṛk 4
अस्ति॒ सोमो॑ अ॒यं सु॒तः पिबं॑त्यस्य म॒रुतः॑ ।
उ॒त स्व॒राजो॑ अ॒श्विना॑ ॥अस्ति सोमो अयं सुतः पिबन्त्य् अस्य मरुतः |
उत स्वराजो अश्विना ||ásti sómo ayám sutáḥ píbantyasya marútaḥ ǀ
utá svarā́jo aśvínā ǁasti somo ayaṃ sutaḥ pibanty asya marutaḥ |
uta svarājo aśvinā ||अस्ति॑ । सोमः॑ । अ॒यम् । सु॒तः । पिब॑न्ति । अ॒स्य॒ । म॒रुतः॑ ।
उ॒त । स्व॒ऽराजः॑ । अ॒श्विना॑ ॥अस्ति । सोमः । अयम् । सुतः । पिबन्ति । अस्य । मरुतः ।
उत । स्वऽराजः । अश्विना ॥ásti ǀ sómaḥ ǀ ayám ǀ sutáḥ ǀ píbanti ǀ asya ǀ marútaḥ ǀ
utá ǀ sva-rā́jaḥ ǀ aśvínā ǁasti ǀ somaḥ ǀ ayam ǀ sutaḥ ǀ pibanti ǀ asya ǀ marutaḥ ǀ
uta ǀ sva-rājaḥ ǀ aśvinā ǁ8.94.4 Aṣṭaka 6.6.28.4Anuvāka 8.10.4
-
Ṛk 5
पिबं॑ति मि॒त्रो अ॑र्य॒मा तना॑ पू॒तस्य॒ वरु॑णः ।
त्रि॒ष॒ध॒स्थस्य॒ जाव॑तः ॥पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः |
त्रिषधस्थस्य जावतः ||píbanti mitró aryamā́ tánā pūtásya váruṇaḥ ǀ
triṣadhasthásya jā́vataḥ ǁpibanti mitro aryamā tanā pūtasya varuṇaḥ |
triṣadhasthasya jāvataḥ ||पिब॑न्ति । मि॒त्रः । अ॒र्य॒मा । तना॑ । पू॒तस्य॑ । वरु॑णः ।
त्रि॒ऽस॒ध॒स्थस्य॑ । जाऽव॑तः ॥पिबन्ति । मित्रः । अर्यमा । तना । पूतस्य । वरुणः ।
त्रिऽसधस्थस्य । जाऽवतः ॥píbanti ǀ mitráḥ ǀ aryamā́ ǀ tánā ǀ pūtásya ǀ váruṇaḥ ǀ
tri-sadhasthásya ǀ jā́-vataḥ ǁpibanti ǀ mitraḥ ǀ aryamā ǀ tanā ǀ pūtasya ǀ varuṇaḥ ǀ
tri-sadhasthasya ǀ jā-vataḥ ǁ8.94.5 Aṣṭaka 6.6.28.5Anuvāka 8.10.5
-
Ṛk 6
उ॒तो न्व॑स्य॒ जोष॒माँ इंद्रः॑ सु॒तस्य॒ गोम॑तः ।
प्रा॒तर्होते॑व मत्सति ॥उतो न्व् अस्य जोषम् आं इन्द्रः सुतस्य गोमतः |
प्रातर् होतेव मत्सति ||utó nvásya jóṣamā́m̐ índraḥ sutásya gómataḥ ǀ
prātárhóteva matsati ǁuto nv asya joṣam āṃ indraḥ sutasya gomataḥ |
prātar hoteva matsati ||उ॒तो इति॑ । नु । अ॒स्य॒ । जोष॑म् । आ । इन्द्रः॑ । सु॒तस्य॑ । गोऽम॑तः ।
प्रा॒तः । होता॑ऽइव । म॒त्स॒ति॒ ॥उतो इति । नु । अस्य । जोषम् । आ । इन्द्रः । सुतस्य । गोऽमतः ।
प्रातः । होताऽइव । मत्सति ॥utó íti ǀ nú ǀ asya ǀ jóṣam ǀ ā́ ǀ índraḥ ǀ sutásya ǀ gó-mataḥ ǀ
prātáḥ ǀ hótā-iva ǀ matsati ǁuto iti ǀ nu ǀ asya ǀ joṣam ǀ ā ǀ indraḥ ǀ sutasya ǀ go-mataḥ ǀ
prātaḥ ǀ hotā-iva ǀ matsati ǁ8.94.6 Aṣṭaka 6.6.28.6Anuvāka 8.10.6
-
Ṛk 7
कद॑त्विषंत सू॒रय॑स्ति॒र आप॑ इव॒ स्रिधः॑ ।
अर्षं॑ति पू॒तद॑क्षसः ॥कद् अत्विषन्त सूरयस् तिर आप इव स्रिधः |
अर्षन्ति पूतदक्षसः ||kádatviṣanta sūráyastirá ā́pa iva srídhaḥ ǀ
árṣanti pūtádakṣasaḥ ǁkad atviṣanta sūrayas tira āpa iva sridhaḥ |
arṣanti pūtadakṣasaḥ ||कत् । अ॒त्वि॒ष॒न्त॒ । सू॒रयः॑ । ति॒रः । आपः॑ऽइव । स्रिधः॑ ।
अर्ष॑न्ति । पू॒तऽद॑क्षसः ॥कत् । अत्विषन्त । सूरयः । तिरः । आपःऽइव । स्रिधः ।
अर्षन्ति । पूतऽदक्षसः ॥kát ǀ atviṣanta ǀ sūráyaḥ ǀ tiráḥ ǀ ā́paḥ-iva ǀ srídhaḥ ǀ
árṣanti ǀ pūtá-dakṣasaḥ ǁkat ǀ atviṣanta ǀ sūrayaḥ ǀ tiraḥ ǀ āpaḥ-iva ǀ sridhaḥ ǀ
arṣanti ǀ pūta-dakṣasaḥ ǁ8.94.7 Aṣṭaka 6.6.29.1Anuvāka 8.10.7
-
Ṛk 8
कद्वो॑ अ॒द्य म॒हानां॑ दे॒वाना॒मवो॑ वृणे ।
त्मना॑ च द॒स्मव॑र्चसां ॥कद् वो अद्य महानां देवानाम् अवो वृणे |
त्मना च दस्मवर्चसाम् ||kádvo adyá mahā́nām devā́nāmávo vṛṇe ǀ
tmánā ca dasmávarcasām ǁkad vo adya mahānāṃ devānām avo vṛṇe |
tmanā ca dasmavarcasām ||कत् । वः॒ । अ॒द्य । म॒हाना॑म् । दे॒वाना॑म् । अवः॑ । वृ॒णे॒ ।
त्मना॑ । च॒ । द॒स्मऽव॑र्चसाम् ॥कत् । वः । अद्य । महानाम् । देवानाम् । अवः । वृणे ।
त्मना । च । दस्मऽवर्चसाम् ॥kát ǀ vaḥ ǀ adyá ǀ mahā́nām ǀ devā́nām ǀ ávaḥ ǀ vṛṇe ǀ
tmánā ǀ ca ǀ dasmá-varcasām ǁkat ǀ vaḥ ǀ adya ǀ mahānām ǀ devānām ǀ avaḥ ǀ vṛṇe ǀ
tmanā ǀ ca ǀ dasma-varcasām ǁ8.94.8 Aṣṭaka 6.6.29.2Anuvāka 8.10.8
-
Ṛk 9
आ ये विश्वा॒ पार्थि॑वानि प॒प्रथ॑न्रोच॒ना दि॒वः ।
म॒रुतः॒ सोम॑पीतये ॥आ ये विश्वा पार्थिवानि पप्रथन् रोचना दिवः |
मरुतः सोमपीतये ||ā́ yé víśvā pā́rthivāni papráthanrocanā́ diváḥ ǀ
marútaḥ sómapītaye ǁā ye viśvā pārthivāni paprathan rocanā divaḥ |
marutaḥ somapītaye ||आ । ये । विश्वा॑ । पार्थि॑वानि । प॒प्रथ॑न् । रो॒च॒ना । दि॒वः ।
म॒रुतः॑ । सोम॑ऽपीतये ॥आ । ये । विश्वा । पार्थिवानि । पप्रथन् । रोचना । दिवः ।
मरुतः । सोमऽपीतये ॥ā́ ǀ yé ǀ víśvā ǀ pā́rthivāni ǀ papráthan ǀ rocanā́ ǀ diváḥ ǀ
marútaḥ ǀ sóma-pītaye ǁā ǀ ye ǀ viśvā ǀ pārthivāni ǀ paprathan ǀ rocanā ǀ divaḥ ǀ
marutaḥ ǀ soma-pītaye ǁ8.94.9 Aṣṭaka 6.6.29.3Anuvāka 8.10.9
-
Ṛk 10
त्यान्नु पू॒तद॑क्षसो दि॒वो वो॑ मरुतो हुवे ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥त्यान् नु पूतदक्षसो दिवो वो मरुतो हुवे |
अस्य सोमस्य पीतये ||tyā́nnú pūtádakṣaso divó vo maruto huve ǀ
asyá sómasya pītáye ǁtyān nu pūtadakṣaso divo vo maruto huve |
asya somasya pītaye ||त्यान् । नु । पू॒तऽद॑क्षसः । दि॒वः । वः॒ । म॒रु॒तः॒ । हु॒वे॒ ।
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥त्यान् । नु । पूतऽदक्षसः । दिवः । वः । मरुतः । हुवे ।
अस्य । सोमस्य । पीतये ॥tyā́n ǀ nú ǀ pūtá-dakṣasaḥ ǀ diváḥ ǀ vaḥ ǀ marutaḥ ǀ huve ǀ
asyá ǀ sómasya ǀ pītáye ǁtyān ǀ nu ǀ pūta-dakṣasaḥ ǀ divaḥ ǀ vaḥ ǀ marutaḥ ǀ huve ǀ
asya ǀ somasya ǀ pītaye ǁ8.94.10 Aṣṭaka 6.6.29.4Anuvāka 8.10.10
-
Ṛk 11
त्यान्नु ये वि रोद॑सी तस्त॒भुर्म॒रुतो॑ हुवे ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥त्यान् नु ये वि रोदसी तस्तभुर् मरुतो हुवे |
अस्य सोमस्य पीतये ||tyā́nnú yé ví ródasī tastabhúrmarúto huve ǀ
asyá sómasya pītáye ǁtyān nu ye vi rodasī tastabhur maruto huve |
asya somasya pītaye ||त्यान् । नु । ये । वि । रोद॑सी॒ इति॑ । त॒स्त॒भुः । म॒रुतः॑ । हु॒वे॒ ।
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥त्यान् । नु । ये । वि । रोदसी इति । तस्तभुः । मरुतः । हुवे ।
अस्य । सोमस्य । पीतये ॥tyā́n ǀ nú ǀ yé ǀ ví ǀ ródasī íti ǀ tastabhúḥ ǀ marútaḥ ǀ huve ǀ
asyá ǀ sómasya ǀ pītáye ǁtyān ǀ nu ǀ ye ǀ vi ǀ rodasī iti ǀ tastabhuḥ ǀ marutaḥ ǀ huve ǀ
asya ǀ somasya ǀ pītaye ǁ8.94.11 Aṣṭaka 6.6.29.5Anuvāka 8.10.11
-
Ṛk 12
त्यं नु मारु॑तं ग॒णं गि॑रि॒ष्ठां वृष॑णं हुवे ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे |
अस्य सोमस्य पीतये ||tyám nú mā́rutam gaṇám giriṣṭhā́m vṛ́ṣaṇam huve ǀ
asyá sómasya pītáye ǁtyaṃ nu mārutaṃ gaṇaṃ giriṣṭhāṃ vṛṣaṇaṃ huve |
asya somasya pītaye ||त्यम् । नु । मारु॑तम् । ग॒णम् । गि॒रि॒ऽस्थाम् । वृष॑णम् । हु॒वे॒ ।
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥त्यम् । नु । मारुतम् । गणम् । गिरिऽस्थाम् । वृषणम् । हुवे ।
अस्य । सोमस्य । पीतये ॥tyám ǀ nú ǀ mā́rutam ǀ gaṇám ǀ giri-sthā́m ǀ vṛ́ṣaṇam ǀ huve ǀ
asyá ǀ sómasya ǀ pītáye ǁtyam ǀ nu ǀ mārutam ǀ gaṇam ǀ giri-sthām ǀ vṛṣaṇam ǀ huve ǀ
asya ǀ somasya ǀ pītaye ǁ8.94.12 Aṣṭaka 6.6.29.6Anuvāka 8.10.12
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.