Ṛgveda · Maṇḍala 8

Sūkta 33

Indra · Medhyātithi Kāṇva · 19 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Medhyātithi Kāṇva
Chandas छन्दस्
Bṛhatī, Gāyatrī, Anuṣṭubh
Metres by ṛk

1st set of styles virāḍbṛhatī (4, 7, 8, 10, 12); nicṛdbṛhatī (6, 9, 11, 14, 15); bṛhatī (1-3, 5); gāyatrī (16, 18); anuṣṭup (17, 19); ārcībhurigbṛhatī (13)

2nd set of styles bṛhatī (1-15); gāyatrī (16-18); anuṣṭubh (19)

  1. Ṛk 1

    व॒यं घ॑ त्वा सु॒तावं॑त॒ आपो॒ न वृ॒क्तब॑र्हिषः ।
    प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ॥

    वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः |
    पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ||

    vayám gha tvā sutā́vanta ā́po ná vṛktábarhiṣaḥ ǀ
    pavítrasya prasrávaṇeṣu vṛtrahanpári stotā́ra āsate ǁ

    vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ |
    pavitrasya prasravaṇeṣu vṛtrahan pari stotāra āsate ||

    व॒यम् । घ॒ । त्वा॒ । सु॒तऽव॑न्तः । आपः॑ । न । वृ॒क्तऽब॑र्हिषः ।
    प॒वित्र॑स्य । प्र॒ऽस्रव॑णेषु । वृ॒त्र॒ऽह॒न् । परि॑ । स्तो॒तारः॑ । आ॒स॒ते॒ ॥

    वयम् । घ । त्वा । सुतऽवन्तः । आपः । न । वृक्तऽबर्हिषः ।
    पवित्रस्य । प्रऽस्रवणेषु । वृत्रऽहन् । परि । स्तोतारः । आसते ॥

    vayám ǀ gha ǀ tvā ǀ sutá-vantaḥ ǀ ā́paḥ ǀ ná ǀ vṛktá-barhiṣaḥ ǀ
    pavítrasya ǀ pra-srávaṇeṣu ǀ vṛtra-han ǀ pári ǀ stotā́raḥ ǀ āsate ǁ

    vayam ǀ gha ǀ tvā ǀ suta-vantaḥ ǀ āpaḥ ǀ na ǀ vṛkta-barhiṣaḥ ǀ
    pavitrasya ǀ pra-sravaṇeṣu ǀ vṛtra-han ǀ pari ǀ stotāraḥ ǀ āsate ǁ

    8.33.1 Aṣṭaka 6.3.7.1Anuvāka 8.5.49

  2. Ṛk 2

    स्वरं॑ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिनः॑ ।
    क॒दा सु॒तं तृ॑षा॒ण ओक॒ आ ग॑म॒ इंद्र॑ स्व॒ब्दीव॒ वंस॑गः ॥

    स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः |
    कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ||

    sváranti tvā suté náro váso nireká ukthínaḥ ǀ
    kadā́ sutám tṛṣāṇá óka ā́ gama índra svabdī́va váṃsagaḥ ǁ

    svaranti tvā sute naro vaso nireka ukthinaḥ |
    kadā sutaṃ tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ ||

    स्वर॑न्ति । त्वा॒ । सु॒ते । नरः॑ । वसो॒ इति॑ । नि॒रे॒के । उ॒क्थिनः॑ ।
    क॒दा । सु॒तम् । तृ॒षा॒णः । ओकः॑ । आ । ग॒मः॒ । इन्द्र॑ । स्व॒ब्दीऽइ॑व । वंस॑गः ॥

    स्वरन्ति । त्वा । सुते । नरः । वसो इति । निरेके । उक्थिनः ।
    कदा । सुतम् । तृषाणः । ओकः । आ । गमः । इन्द्र । स्वब्दीऽइव । वंसगः ॥

    sváranti ǀ tvā ǀ suté ǀ náraḥ ǀ váso íti ǀ nireké ǀ ukthínaḥ ǀ
    kadā́ ǀ sutám ǀ tṛṣāṇáḥ ǀ ókaḥ ǀ ā́ ǀ gamaḥ ǀ índra ǀ svabdī́-iva ǀ váṃsagaḥ ǁ

    svaranti ǀ tvā ǀ sute ǀ naraḥ ǀ vaso iti ǀ nireke ǀ ukthinaḥ ǀ
    kadā ǀ sutam ǀ tṛṣāṇaḥ ǀ okaḥ ǀ ā ǀ gamaḥ ǀ indra ǀ svabdī-iva ǀ vaṃsagaḥ ǁ

    8.33.2 Aṣṭaka 6.3.7.2Anuvāka 8.5.50

  3. Ṛk 3

    कण्वे॑भिर्धृष्ण॒वा धृ॒षद्वाजं॑ दर्षि सह॒स्रिणं॑ ।
    पि॒शंग॑रूपं मघवन्विचर्षणे म॒क्षू गोमं॑तमीमहे ॥

    कण्वेभिर् धृष्णव् आ धृषद् वाजं दर्षि सहस्रिणम् |
    पिशङ्गरूपम् मघवन् विचर्षणे मक्षू गोमन्तम् ईमहे ||

    káṇvebhirdhṛṣṇavā́ dhṛṣádvā́jam darṣi sahasríṇam ǀ
    piśáṅgarūpam maghavanvicarṣaṇe makṣū́ gómantamīmahe ǁ

    kaṇvebhir dhṛṣṇav ā dhṛṣad vājaṃ darṣi sahasriṇam |
    piśaṅgarūpam maghavan vicarṣaṇe makṣū gomantam īmahe ||

    कण्वे॑भिः । धृ॒ष्णो॒ इति॑ । आ । धृ॒षत् । वाज॑म् । द॒र्षि॒ । स॒ह॒स्रिण॑म् ।
    पि॒शङ्ग॑ऽरूपम् । म॒घ॒ऽव॒न् । वि॒ऽच॒र्ष॒णे॒ । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒ ॥

    कण्वेभिः । धृष्णो इति । आ । धृषत् । वाजम् । दर्षि । सहस्रिणम् ।
    पिशङ्गऽरूपम् । मघऽवन् । विऽचर्षणे । मक्षु । गोऽमन्तम् । ईमहे ॥

    káṇvebhiḥ ǀ dhṛṣṇo íti ǀ ā́ ǀ dhṛṣát ǀ vā́jam ǀ darṣi ǀ sahasríṇam ǀ
    piśáṅga-rūpam ǀ magha-van ǀ vi-carṣaṇe ǀ makṣú ǀ gó-mantam ǀ īmahe ǁ

    kaṇvebhiḥ ǀ dhṛṣṇo iti ǀ ā ǀ dhṛṣat ǀ vājam ǀ darṣi ǀ sahasriṇam ǀ
    piśaṅga-rūpam ǀ magha-van ǀ vi-carṣaṇe ǀ makṣu ǀ go-mantam ǀ īmahe ǁ

    8.33.3 Aṣṭaka 6.3.7.3Anuvāka 8.5.51

  4. Ṛk 4

    पा॒हि गायांध॑सो॒ मद॒ इंद्रा॑य मेध्यातिथे ।
    यः सम्मि॑श्लो॒ हर्यो॒र्यः सु॒ते सचा॑ व॒ज्री रथो॑ हिर॒ण्ययः॑ ॥

    पाहि गायान्धसो मद इन्द्राय मेध्यातिथे |
    यः सम्मिश्लो हर्योर् यः सुते सचा वज्री रथो हिरण्ययः ||

    pāhí gā́yā́ndhaso máda índrāya medhyātithe ǀ
    yáḥ sámmiślo háryoryáḥ suté sácā vajrī́ rátho hiraṇyáyaḥ ǁ

    pāhi gāyāndhaso mada indrāya medhyātithe |
    yaḥ sammiślo haryor yaḥ sute sacā vajrī ratho hiraṇyayaḥ ||

    पा॒हि । गाय॑ । अन्ध॑सः । मदे॑ । इन्द्रा॑य । मे॒ध्य॒ऽअ॒ति॒थे॒ ।
    यः । सम्ऽमि॑श्लः । हर्योः॑ । यः । सु॒ते । सचा॑ । व॒ज्री । रथः॑ । हि॒र॒ण्ययः॑ ॥

    पाहि । गाय । अन्धसः । मदे । इन्द्राय । मेध्यऽअतिथे ।
    यः । सम्ऽमिश्लः । हर्योः । यः । सुते । सचा । वज्री । रथः । हिरण्ययः ॥

    pāhí ǀ gā́ya ǀ ándhasaḥ ǀ máde ǀ índrāya ǀ medhya-atithe ǀ
    yáḥ ǀ sám-miślaḥ ǀ háryoḥ ǀ yáḥ ǀ suté ǀ sácā ǀ vajrī́ ǀ ráthaḥ ǀ hiraṇyáyaḥ ǁ

    pāhi ǀ gāya ǀ andhasaḥ ǀ made ǀ indrāya ǀ medhya-atithe ǀ
    yaḥ ǀ sam-miślaḥ ǀ haryoḥ ǀ yaḥ ǀ sute ǀ sacā ǀ vajrī ǀ rathaḥ ǀ hiraṇyayaḥ ǁ

    8.33.4 Aṣṭaka 6.3.7.4Anuvāka 8.5.52

  5. Ṛk 5

    यः सु॑ष॒व्यः सु॒दक्षि॑ण इ॒नो यः सु॒क्रतु॑र्गृ॒णे ।
    य आ॑क॒रः स॒हस्रा॒ यः श॒ताम॑घ॒ इंद्रो॒ यः पू॒र्भिदा॑रि॒तः ॥

    यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर् गृणे |
    य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिद् आरितः ||

    yáḥ suṣavyáḥ sudákṣiṇa inó yáḥ sukráturgṛṇé ǀ
    yá ākaráḥ sahásrā yáḥ śatā́magha índro yáḥ pūrbhídāritáḥ ǁ

    yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukratur gṛṇe |
    ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhid āritaḥ ||

    यः । सु॒ऽस॒व्यः । सु॒ऽदक्षि॑णः । इ॒नः । यः । सु॒ऽक्रतुः॑ । गृ॒णे ।
    यः । आ॒ऽक॒रः । स॒हस्रा॑ । यः । श॒तऽम॑घः । इन्द्रः॑ । यः । पूः॒ऽभित् । आ॒रि॒तः ॥

    यः । सुऽसव्यः । सुऽदक्षिणः । इनः । यः । सुऽक्रतुः । गृणे ।
    यः । आऽकरः । सहस्रा । यः । शतऽमघः । इन्द्रः । यः । पूःऽभित् । आरितः ॥

    yáḥ ǀ su-savyáḥ ǀ su-dákṣiṇaḥ ǀ ináḥ ǀ yáḥ ǀ su-krátuḥ ǀ gṛṇé ǀ
    yáḥ ǀ ā-karáḥ ǀ sahásrā ǀ yáḥ ǀ śatá-maghaḥ ǀ índraḥ ǀ yáḥ ǀ pūḥ-bhít ǀ āritáḥ ǁ

    yaḥ ǀ su-savyaḥ ǀ su-dakṣiṇaḥ ǀ inaḥ ǀ yaḥ ǀ su-kratuḥ ǀ gṛṇe ǀ
    yaḥ ǀ ā-karaḥ ǀ sahasrā ǀ yaḥ ǀ śata-maghaḥ ǀ indraḥ ǀ yaḥ ǀ pūḥ-bhit ǀ āritaḥ ǁ

    8.33.5 Aṣṭaka 6.3.7.5Anuvāka 8.5.53

  6. Ṛk 6

    यो धृ॑षि॒तो योऽवृ॑तो॒ यो अस्ति॒ श्मश्रु॑षु श्रि॒तः ।
    विभू॑तद्युम्न॒श्च्यव॑नः पुरुष्टु॒तः क्रत्वा॒ गौरि॑व शाकि॒नः ॥

    यो धृषितो यो ऽवृतो यो अस्ति श्मश्रुषु श्रितः |
    विभूतद्युम्नश् च्यवनः पुरुष्टुतः क्रत्वा गौर् इव शाकिनः ||

    yó dhṛṣitó yó’vṛto yó ásti śmáśruṣu śritáḥ ǀ
    víbhūtadyumnaścyávanaḥ puruṣṭutáḥ krátvā gáuriva śākináḥ ǁ

    yo dhṛṣito yo 'vṛto yo asti śmaśruṣu śritaḥ |
    vibhūtadyumnaś cyavanaḥ puruṣṭutaḥ kratvā gaur iva śākinaḥ ||

    यः । धृ॒षि॒तः । यः । अवृ॑तः । यः । अस्ति॑ । श्मश्रु॑षु । श्रि॒तः ।
    विभू॑तऽद्युम्नः । च्यव॑नः । पु॒रु॒ऽस्तु॒तः । क्रत्वा॑ । गौःऽइ॑व । शा॒कि॒नः ॥

    यः । धृषितः । यः । अवृतः । यः । अस्ति । श्मश्रुषु । श्रितः ।
    विभूतऽद्युम्नः । च्यवनः । पुरुऽस्तुतः । क्रत्वा । गौःऽइव । शाकिनः ॥

    yáḥ ǀ dhṛṣitáḥ ǀ yáḥ ǀ ávṛtaḥ ǀ yáḥ ǀ ásti ǀ śmáśruṣu ǀ śritáḥ ǀ
    víbhūta-dyumnaḥ ǀ cyávanaḥ ǀ puru-stutáḥ ǀ krátvā ǀ gáuḥ-iva ǀ śākináḥ ǁ

    yaḥ ǀ dhṛṣitaḥ ǀ yaḥ ǀ avṛtaḥ ǀ yaḥ ǀ asti ǀ śmaśruṣu ǀ śritaḥ ǀ
    vibhūta-dyumnaḥ ǀ cyavanaḥ ǀ puru-stutaḥ ǀ kratvā ǀ gauḥ-iva ǀ śākinaḥ ǁ

    8.33.6 Aṣṭaka 6.3.8.1Anuvāka 8.5.54

  7. Ṛk 7

    क ईं॑ वेद सु॒ते सचा॒ पिबं॑तं॒ कद्वयो॑ दधे ।
    अ॒यं यः पुरो॑ विभि॒नत्त्योज॑सा मंदा॒नः शि॒प्र्यंध॑सः ॥

    क ईं वेद सुते सचा पिबन्तं कद् वयो दधे |
    अयं यः पुरो विभिनत्त्य् ओजसा मन्दानः शिप्र्य् अन्धसः ||

    ká īm veda suté sácā píbantam kádváyo dadhe ǀ
    ayám yáḥ púro vibhináttyójasā mandānáḥ śipryándhasaḥ ǁ

    ka īṃ veda sute sacā pibantaṃ kad vayo dadhe |
    ayaṃ yaḥ puro vibhinatty ojasā mandānaḥ śipry andhasaḥ ||

    कः । ई॒म् । वे॒द॒ । सु॒ते । सचा॑ । पिब॑न्तम् । कत् । वयः॑ । द॒धे॒ ।
    अ॒यम् । यः । पुरः॑ । वि॒ऽभि॒नत्ति॑ । ओज॑सा । म॒न्दा॒नः । शि॒प्री । अन्ध॑सः ॥

    कः । ईम् । वेद । सुते । सचा । पिबन्तम् । कत् । वयः । दधे ।
    अयम् । यः । पुरः । विऽभिनत्ति । ओजसा । मन्दानः । शिप्री । अन्धसः ॥

    káḥ ǀ īm ǀ veda ǀ suté ǀ sácā ǀ píbantam ǀ kát ǀ váyaḥ ǀ dadhe ǀ
    ayám ǀ yáḥ ǀ púraḥ ǀ vi-bhinátti ǀ ójasā ǀ mandānáḥ ǀ śiprī́ ǀ ándhasaḥ ǁ

    kaḥ ǀ īm ǀ veda ǀ sute ǀ sacā ǀ pibantam ǀ kat ǀ vayaḥ ǀ dadhe ǀ
    ayam ǀ yaḥ ǀ puraḥ ǀ vi-bhinatti ǀ ojasā ǀ mandānaḥ ǀ śiprī ǀ andhasaḥ ǁ

    8.33.7 Aṣṭaka 6.3.8.2Anuvāka 8.5.55

  8. Ṛk 8

    दा॒ना मृ॒गो न वा॑र॒णः पु॑रु॒त्रा च॒रथं॑ दधे ।
    नकि॑ष्ट्वा॒ नि य॑म॒दा सु॒ते ग॑मो म॒हांश्च॑र॒स्योज॑सा ॥

    दाना मृगो न वारणः पुरुत्रा चरथं दधे |
    नकिष् ट्वा नि यमद् आ सुते गमो महांश् चरस्य् ओजसा ||

    dānā́ mṛgó ná vāraṇáḥ purutrā́ carátham dadhe ǀ
    nákiṣṭvā ní yamadā́ suté gamo mahā́ṃścarasyójasā ǁ

    dānā mṛgo na vāraṇaḥ purutrā carathaṃ dadhe |
    nakiṣ ṭvā ni yamad ā sute gamo mahāṃś carasy ojasā ||

    दा॒ना । मृ॒गः । न । वा॒र॒णः । पु॒रु॒ऽत्रा । च॒रथ॑म् । द॒धे॒ ।
    नकिः॑ । त्वा॒ । नि । य॒म॒त् । आ । सु॒ते । ग॒मः॒ । म॒हान् । च॒र॒सि॒ । ओज॑सा ॥

    दाना । मृगः । न । वारणः । पुरुऽत्रा । चरथम् । दधे ।
    नकिः । त्वा । नि । यमत् । आ । सुते । गमः । महान् । चरसि । ओजसा ॥

    dānā́ ǀ mṛgáḥ ǀ ná ǀ vāraṇáḥ ǀ puru-trā́ ǀ carátham ǀ dadhe ǀ
    nákiḥ ǀ tvā ǀ ní ǀ yamat ǀ ā́ ǀ suté ǀ gamaḥ ǀ mahā́n ǀ carasi ǀ ójasā ǁ

    dānā ǀ mṛgaḥ ǀ na ǀ vāraṇaḥ ǀ puru-trā ǀ caratham ǀ dadhe ǀ
    nakiḥ ǀ tvā ǀ ni ǀ yamat ǀ ā ǀ sute ǀ gamaḥ ǀ mahān ǀ carasi ǀ ojasā ǁ

    8.33.8 Aṣṭaka 6.3.8.3Anuvāka 8.5.56

  9. Ṛk 9

    य उ॒ग्रः सन्ननि॑ष्टृतः स्थि॒रो रणा॑य॒ संस्कृ॑तः ।
    यदि॑ स्तो॒तुर्म॒घवा॑ शृ॒णव॒द्धवं॒ नेंद्रो॑ योष॒त्या ग॑मत् ॥

    य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः |
    यदि स्तोतुर् मघवा शृणवद् धवं नेन्द्रो योषत्य् आ गमत् ||

    yá ugráḥ sánnániṣṭṛtaḥ sthiró ráṇāya sáṃskṛtaḥ ǀ
    yádi stotúrmaghávā śṛṇávaddhávam néndro yoṣatyā́ gamat ǁ

    ya ugraḥ sann aniṣṭṛta sthiro raṇāya saṃskṛtaḥ |
    yadi stotur maghavā śṛṇavad dhavaṃ nendro yoṣaty ā gamat ||

    यः । उ॒ग्रः । सन् । अनि॑ऽस्तृतः । स्थि॒रः । रणा॑य । संस्कृ॑तः ।
    यदि॑ । स्तो॒तुः । म॒घऽवा॑ । शृ॒णव॑त् । हव॑म् । न । इन्द्रः॑ । यो॒ष॒ति॒ । आ । ग॒म॒त् ॥

    यः । उग्रः । सन् । अनिऽस्तृतः । स्थिरः । रणाय । संस्कृतः ।
    यदि । स्तोतुः । मघऽवा । शृणवत् । हवम् । न । इन्द्रः । योषति । आ । गमत् ॥

    yáḥ ǀ ugráḥ ǀ sán ǀ áni-stṛtaḥ ǀ sthiráḥ ǀ ráṇāya ǀ sáṃskṛtaḥ ǀ
    yádi ǀ stotúḥ ǀ maghá-vā ǀ śṛṇávat ǀ hávam ǀ ná ǀ índraḥ ǀ yoṣati ǀ ā́ ǀ gamat ǁ

    yaḥ ǀ ugraḥ ǀ san ǀ ani-stṛtaḥ ǀ sthiraḥ ǀ raṇāya ǀ saṃskṛtaḥ ǀ
    yadi ǀ stotuḥ ǀ magha-vā ǀ śṛṇavat ǀ havam ǀ na ǀ indraḥ ǀ yoṣati ǀ ā ǀ gamat ǁ

    8.33.9 Aṣṭaka 6.3.8.4Anuvāka 8.5.57

  10. Ṛk 10

    स॒त्यमि॒त्था वृषेद॑सि॒ वृष॑जूति॒र्नोऽवृ॑तः ।
    वृषा॒ ह्यु॑ग्र शृण्वि॒षे प॑रा॒वति॒ वृषो॑ अर्वा॒वति॑ श्रु॒तः ॥

    सत्यम् इत्था वृषेद् असि वृषजूतिर् नो ऽवृतः |
    वृषा ह्य् उग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ||

    satyámitthā́ vṛ́ṣédasi vṛ́ṣajūtirnó’vṛtaḥ ǀ
    vṛ́ṣā hyúgra śṛṇviṣé parāváti vṛ́ṣo arvāváti śrutáḥ ǁ

    satyam itthā vṛṣed asi vṛṣajūtir no 'vṛtaḥ |
    vṛṣā hy ugra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ ||

    स॒त्यम् । इ॒त्था । वृषा॑ । इत् । अ॒सि॒ । वृष॑ऽजूतिः । नः॒ । अवृ॑तः ।
    वृषा॑ । हि । उ॒ग्र॒ । शृ॒ण्वि॒षे । प॒रा॒ऽवति॑ । वृषो॒ इति॑ । अ॒र्वा॒ऽवति॑ । श्रु॒तः ॥

    सत्यम् । इत्था । वृषा । इत् । असि । वृषऽजूतिः । नः । अवृतः ।
    वृषा । हि । उग्र । शृण्विषे । पराऽवति । वृषो इति । अर्वाऽवति । श्रुतः ॥

    satyám ǀ itthā́ ǀ vṛ́ṣā ǀ ít ǀ asi ǀ vṛ́ṣa-jūtiḥ ǀ naḥ ǀ ávṛtaḥ ǀ
    vṛ́ṣā ǀ hí ǀ ugra ǀ śṛṇviṣé ǀ parā-váti ǀ vṛ́ṣo íti ǀ arvā-váti ǀ śrutáḥ ǁ

    satyam ǀ itthā ǀ vṛṣā ǀ it ǀ asi ǀ vṛṣa-jūtiḥ ǀ naḥ ǀ avṛtaḥ ǀ
    vṛṣā ǀ hi ǀ ugra ǀ śṛṇviṣe ǀ parā-vati ǀ vṛṣo iti ǀ arvā-vati ǀ śrutaḥ ǁ

    8.33.10 Aṣṭaka 6.3.8.5Anuvāka 8.5.58

  11. Ṛk 11

    वृष॑णस्ते अ॒भीश॑वो॒ वृषा॒ कशा॑ हिर॒ण्ययी॑ ।
    वृषा॒ रथो॑ मघव॒न्वृष॑णा॒ हरी॒ वृषा॒ त्वं श॑तक्रतो ॥

    वृषणस् ते अभीशवो वृषा कशा हिरण्ययी |
    वृषा रथो मघवन् वृषणा हरी वृषा त्वं शतक्रतो ||

    vṛ́ṣaṇaste abhī́śavo vṛ́ṣā káśā hiraṇyáyī ǀ
    vṛ́ṣā rátho maghavanvṛ́ṣaṇā hárī vṛ́ṣā tvám śatakrato ǁ

    vṛṣaṇas te abhīśavo vṛṣā kaśā hiraṇyayī |
    vṛṣā ratho maghavan vṛṣaṇā harī vṛṣā tvaṃ śatakrato ||

    वृष॑णः । ते॒ । अ॒भीश॑वः । वृषा॑ । कशा॑ । हि॒र॒ण्ययी॑ ।
    वृषा॑ । रथः॑ । म॒घ॒ऽव॒न् । वृष॑णा । हरी॒ इति॑ । वृषा॑ । त्वम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥

    वृषणः । ते । अभीशवः । वृषा । कशा । हिरण्ययी ।
    वृषा । रथः । मघऽवन् । वृषणा । हरी इति । वृषा । त्वम् । शतक्रतो इति शतऽक्रतो ॥

    vṛ́ṣaṇaḥ ǀ te ǀ abhī́śavaḥ ǀ vṛ́ṣā ǀ káśā ǀ hiraṇyáyī ǀ
    vṛ́ṣā ǀ ráthaḥ ǀ magha-van ǀ vṛ́ṣaṇā ǀ hárī íti ǀ vṛ́ṣā ǀ tvám ǀ śatakrato íti śata-krato ǁ

    vṛṣaṇaḥ ǀ te ǀ abhīśavaḥ ǀ vṛṣā ǀ kaśā ǀ hiraṇyayī ǀ
    vṛṣā ǀ rathaḥ ǀ magha-van ǀ vṛṣaṇā ǀ harī iti ǀ vṛṣā ǀ tvam ǀ śatakrato iti śata-krato ǁ

    8.33.11 Aṣṭaka 6.3.9.1Anuvāka 8.5.59

  12. Ṛk 12

    वृषा॒ सोता॑ सुनोतु ते॒ वृष॑न्नृजीपि॒न्ना भ॑र ।
    वृषा॑ दधन्वे॒ वृष॑णं न॒दीष्वा तुभ्यं॑ स्थातर्हरीणां ॥

    वृषा सोता सुनोतु ते वृषन्न् ऋजीपिन्न् आ भर |
    वृषा दधन्वे वृषणं नदीष्व् आ तुभ्यं स्थातर् हरीणाम् ||

    vṛ́ṣā sótā sunotu te vṛ́ṣannṛjīpinnā́ bhara ǀ
    vṛ́ṣā dadhanve vṛ́ṣaṇam nadī́ṣvā́ túbhyam sthātarharīṇām ǁ

    vṛṣā sotā sunotu te vṛṣann ṛjīpinn ā bhara |
    vṛṣā dadhanve vṛṣaṇaṃ nadīṣv ā tubhyaṃ sthātar harīṇām ||

    वृषा॑ । सोता॑ । सु॒नो॒तु॒ । ते॒ । वृष॑न् । ऋ॒जी॒पि॒न् । आ । भ॒र॒ ।
    वृषा॑ । द॒ध॒न्वे॒ । वृष॑णम् । न॒दीषु॑ । आ । तुभ्य॑म् । स्था॒तः॒ । ह॒री॒णा॒म् ॥

    वृषा । सोता । सुनोतु । ते । वृषन् । ऋजीपिन् । आ । भर ।
    वृषा । दधन्वे । वृषणम् । नदीषु । आ । तुभ्यम् । स्थातः । हरीणाम् ॥

    vṛ́ṣā ǀ sótā ǀ sunotu ǀ te ǀ vṛ́ṣan ǀ ṛjīpin ǀ ā́ ǀ bhara ǀ
    vṛ́ṣā ǀ dadhanve ǀ vṛ́ṣaṇam ǀ nadī́ṣu ǀ ā́ ǀ túbhyam ǀ sthātaḥ ǀ harīṇām ǁ

    vṛṣā ǀ sotā ǀ sunotu ǀ te ǀ vṛṣan ǀ ṛjīpin ǀ ā ǀ bhara ǀ
    vṛṣā ǀ dadhanve ǀ vṛṣaṇam ǀ nadīṣu ǀ ā ǀ tubhyam ǀ sthātaḥ ǀ harīṇām ǁ

    8.33.12 Aṣṭaka 6.3.9.2Anuvāka 8.5.60

  13. Ṛk 13

    एंद्र॑ याहि पी॒तये॒ मधु॑ शविष्ठ सो॒म्यं ।
    नायमच्छा॑ म॒घवा॑ शृ॒णव॒द्गिरो॒ ब्रह्मो॒क्था च॑ सु॒क्रतुः॑ ॥

    एन्द्र याहि पीतये मधु शविष्ठ सोम्यम् |
    नायम् अच्छा मघवा शृणवद् गिरो ब्रह्मोक्था च सुक्रतुः ||

    éndra yāhi pītáye mádhu śaviṣṭha somyám ǀ
    nā́yámácchā maghávā śṛṇávadgíro bráhmokthā́ ca sukrátuḥ ǁ

    endra yāhi pītaye madhu śaviṣṭha somyam |
    nāyam acchā maghavā śṛṇavad giro brahmokthā ca sukratuḥ ||

    आ । इ॒न्द्र॒ । या॒हि॒ । पी॒तये॑ । मधु॑ । श॒वि॒ष्ठ॒ । सो॒म्यम् ।
    न । अ॒यम् । अच्छ॑ । म॒घऽवा॑ । शृ॒णव॑त् । गिरः॑ । ब्रह्म॑ । उ॒क्था । च॒ । सु॒ऽक्रतुः॑ ॥

    आ । इन्द्र । याहि । पीतये । मधु । शविष्ठ । सोम्यम् ।
    न । अयम् । अच्छ । मघऽवा । शृणवत् । गिरः । ब्रह्म । उक्था । च । सुऽक्रतुः ॥

    ā́ ǀ indra ǀ yāhi ǀ pītáye ǀ mádhu ǀ śaviṣṭha ǀ somyám ǀ
    ná ǀ ayám ǀ áccha ǀ maghá-vā ǀ śṛṇávat ǀ gíraḥ ǀ bráhma ǀ ukthā́ ǀ ca ǀ su-krátuḥ ǁ

    ā ǀ indra ǀ yāhi ǀ pītaye ǀ madhu ǀ śaviṣṭha ǀ somyam ǀ
    na ǀ ayam ǀ accha ǀ magha-vā ǀ śṛṇavat ǀ giraḥ ǀ brahma ǀ ukthā ǀ ca ǀ su-kratuḥ ǁ

    8.33.13 Aṣṭaka 6.3.9.3Anuvāka 8.5.61

  14. Ṛk 14

    वहं॑तु त्वा रथे॒ष्ठामा हर॑यो रथ॒युजः॑ ।
    ति॒रश्चि॑द॒र्यं सव॑नानि वृत्रहन्न॒न्येषां॒ या श॑तक्रतो ॥

    वहन्तु त्वा रथेष्ठाम् आ हरयो रथयुजः |
    तिरश् चिद् अर्यं सवनानि वृत्रहन्न् अन्येषां या शतक्रतो ||

    váhantu tvā ratheṣṭhā́mā́ hárayo rathayújaḥ ǀ
    tiráścidaryám sávanāni vṛtrahannanyéṣām yā́ śatakrato ǁ

    vahantu tvā ratheṣṭhām ā harayo rathayujaḥ |
    tiraś cid aryaṃ savanāni vṛtrahann anyeṣāṃ yā śatakrato ||

    वह॑न्तु । त्वा॒ । र॒थे॒ऽस्थाम् । आ । हर॑यः । र॒थ॒ऽयुजः॑ ।
    ति॒रः । चि॒त् । अ॒र्यम् । सव॑नानि । वृ॒त्र॒ऽह॒न् । अ॒न्येषा॑म् । या । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥

    वहन्तु । त्वा । रथेऽस्थाम् । आ । हरयः । रथऽयुजः ।
    तिरः । चित् । अर्यम् । सवनानि । वृत्रऽहन् । अन्येषाम् । या । शतक्रतो इति शतऽक्रतो ॥

    váhantu ǀ tvā ǀ rathe-sthā́m ǀ ā́ ǀ hárayaḥ ǀ ratha-yújaḥ ǀ
    tiráḥ ǀ cit ǀ aryám ǀ sávanāni ǀ vṛtra-han ǀ anyéṣām ǀ yā́ ǀ śatakrato íti śata-krato ǁ

    vahantu ǀ tvā ǀ rathe-sthām ǀ ā ǀ harayaḥ ǀ ratha-yujaḥ ǀ
    tiraḥ ǀ cit ǀ aryam ǀ savanāni ǀ vṛtra-han ǀ anyeṣām ǀ yā ǀ śatakrato iti śata-krato ǁ

    8.33.14 Aṣṭaka 6.3.9.4Anuvāka 8.5.62

  15. Ṛk 15

    अ॒स्माक॑म॒द्यांत॑मं॒ स्तोमं॑ धिष्व महामह ।
    अ॒स्माकं॑ ते॒ सव॑ना संतु॒ शंत॑मा॒ मदा॑य द्युक्ष सोमपाः ॥

    अस्माकम् अद्यान्तमं स्तोमं धिष्व महामह |
    अस्माकं ते सवना सन्तु शन्तमा मदाय द्युक्ष सोमपाः ||

    asmā́kamadyā́ntamam stómam dhiṣva mahāmaha ǀ
    asmā́kam te sávanā santu śáṃtamā mádāya dyukṣa somapāḥ ǁ

    asmākam adyāntamaṃ stomaṃ dhiṣva mahāmaha |
    asmākaṃ te savanā santu śantamā madāya dyukṣa somapāḥ ||

    अ॒स्माक॑म् । अ॒द्य । अन्त॑मम् । स्तोम॑म् । धि॒ष्व॒ । म॒हा॒ऽम॒ह॒ ।
    अ॒स्माक॑म् । ते॒ । सव॑ना । स॒न्तु॒ । शम्ऽत॑मा । मदा॑य । द्यु॒क्ष॒ । सो॒म॒ऽपाः॒ ॥

    अस्माकम् । अद्य । अन्तमम् । स्तोमम् । धिष्व । महाऽमह ।
    अस्माकम् । ते । सवना । सन्तु । शम्ऽतमा । मदाय । द्युक्ष । सोमऽपाः ॥

    asmā́kam ǀ adyá ǀ ántamam ǀ stómam ǀ dhiṣva ǀ mahā-maha ǀ
    asmā́kam ǀ te ǀ sávanā ǀ santu ǀ śám-tamā ǀ mádāya ǀ dyukṣa ǀ soma-pāḥ ǁ

    asmākam ǀ adya ǀ antamam ǀ stomam ǀ dhiṣva ǀ mahā-maha ǀ
    asmākam ǀ te ǀ savanā ǀ santu ǀ śam-tamā ǀ madāya ǀ dyukṣa ǀ soma-pāḥ ǁ

    8.33.15 Aṣṭaka 6.3.9.5Anuvāka 8.5.63

  16. Ṛk 16

    न॒हि षस्तव॒ नो मम॑ शा॒स्त्रे अ॒न्यस्य॒ रण्य॑ति ।
    यो अ॒स्मान्वी॒र आन॑यत् ॥

    नहि षस् तव नो मम शास्त्रे अन्यस्य रण्यति |
    यो अस्मान् वीर आनयत् ||

    nahí ṣástáva nó máma śāstré anyásya ráṇyati ǀ
    yó asmā́nvīrá ā́nayat ǁ

    nahi ṣas tava no mama śāstre anyasya raṇyati |
    yo asmān vīra ānayat ||

    न॒हि । सः । तव॑ । नः॒ । मम॑ । शा॒स्त्रे । अ॒न्यस्य॑ । रण्य॑ति ।
    यः । अ॒स्मान् । वी॒रः । आ । अन॑यत् ॥

    नहि । सः । तव । नः । मम । शास्त्रे । अन्यस्य । रण्यति ।
    यः । अस्मान् । वीरः । आ । अनयत् ॥

    nahí ǀ sáḥ ǀ táva ǀ naḥ ǀ máma ǀ śāstré ǀ anyásya ǀ ráṇyati ǀ
    yáḥ ǀ asmā́n ǀ vīráḥ ǀ ā́ ǀ ánayat ǁ

    nahi ǀ saḥ ǀ tava ǀ naḥ ǀ mama ǀ śāstre ǀ anyasya ǀ raṇyati ǀ
    yaḥ ǀ asmān ǀ vīraḥ ǀ ā ǀ anayat ǁ

    8.33.16 Aṣṭaka 6.3.10.1Anuvāka 8.5.64

  17. Ṛk 17

    इंद्र॑श्चिद्घा॒ तद॑ब्रवीत्स्त्रि॒या अ॑शा॒स्यं मनः॑ ।
    उ॒तो अह॒ क्रतुं॑ र॒घुं ॥

    इन्द्रश् चिद् घा तद् अब्रवीत् स्त्रिया अशास्यम् मनः |
    उतो अह क्रतुं रघुम् ||

    índraścidghā tádabravītstriyā́ aśāsyám mánaḥ ǀ
    utó áha krátum raghúm ǁ

    indraś cid ghā tad abravīt striyā aśāsyam manaḥ |
    uto aha kratuṃ raghum ||

    इन्द्रः॑ । चि॒त् । घ॒ । तत् । अ॒ब्र॒वी॒त् । स्त्रि॒याः । अ॒शा॒स्यम् । मनः॑ ।
    उ॒तो इति॑ । अह॑ । क्रतु॑म् । र॒घुम् ॥

    इन्द्रः । चित् । घ । तत् । अब्रवीत् । स्त्रियाः । अशास्यम् । मनः ।
    उतो इति । अह । क्रतुम् । रघुम् ॥

    índraḥ ǀ cit ǀ gha ǀ tát ǀ abravīt ǀ striyā́ḥ ǀ aśāsyám ǀ mánaḥ ǀ
    utó íti ǀ áha ǀ krátum ǀ raghúm ǁ

    indraḥ ǀ cit ǀ gha ǀ tat ǀ abravīt ǀ striyāḥ ǀ aśāsyam ǀ manaḥ ǀ
    uto iti ǀ aha ǀ kratum ǀ raghum ǁ

    8.33.17 Aṣṭaka 6.3.10.2Anuvāka 8.5.65

  18. Ṛk 18

    सप्ती॑ चिद्घा मद॒च्युता॑ मिथु॒ना व॑हतो॒ रथं॑ ।
    ए॒वेद्धूर्वृष्ण॒ उत्त॑रा ॥

    सप्ती चिद् घा मदच्युता मिथुना वहतो रथम् |
    एवेद् धूर् वृष्ण उत्तरा ||

    sáptī cidghā madacyútā mithunā́ vahato rátham ǀ
    evéddhū́rvṛ́ṣṇa úttarā ǁ

    saptī cid ghā madacyutā mithunā vahato ratham |
    eved dhūr vṛṣṇa uttarā ||

    सप्ती॒ इति॑ । चि॒त् । घ॒ । म॒द॒ऽच्युता॑ । मि॒थु॒ना । व॒ह॒तः॒ । रथ॑म् ।
    ए॒व । इत् । धूः । वृष्णः॑ । उत्ऽत॑रा ॥

    सप्ती इति । चित् । घ । मदऽच्युता । मिथुना । वहतः । रथम् ।
    एव । इत् । धूः । वृष्णः । उत्ऽतरा ॥

    sáptī íti ǀ cit ǀ gha ǀ mada-cyútā ǀ mithunā́ ǀ vahataḥ ǀ rátham ǀ
    evá ǀ ít ǀ dhū́ḥ ǀ vṛ́ṣṇaḥ ǀ út-tarā ǁ

    saptī iti ǀ cit ǀ gha ǀ mada-cyutā ǀ mithunā ǀ vahataḥ ǀ ratham ǀ
    eva ǀ it ǀ dhūḥ ǀ vṛṣṇaḥ ǀ ut-tarā ǁ

    8.33.18 Aṣṭaka 6.3.10.3Anuvāka 8.5.66

  19. Ṛk 19

    अ॒धः प॑श्यस्व॒ मोपरि॑ संत॒रां पा॑द॒कौ ह॑र ।
    मा ते॑ कशप्ल॒कौ दृ॑श॒न् स्त्री हि ब्र॒ह्मा ब॒भूवि॑थ ॥

    अधः पश्यस्व मोपरि संतराम् पादकौ हर |
    मा ते कशप्लकौ दृशन् स्त्री हि ब्रह्मा बभूविथ ||

    adháḥ paśyasva mópári saṃtarā́m pādakáu hara ǀ
    mā́ te kaśaplakáu dṛśan strī́ hí brahmā́ babhū́vitha ǁ

    adhaḥ paśyasva mopari saṃtarām pādakau hara |
    mā te kaśaplakau dṛśan strī hi brahmā babhūvitha ||

    अ॒धः । प॒श्य॒स्व॒ । मा । उ॒परि॑ । स॒म्ऽत॒राम् । पा॒द॒कौ । ह॒र॒ ।
    मा । ते॒ । क॒श॒ऽप्ल॒कौ । दृ॒श॒न् । स्त्री । हि । ब्र॒ह्मा । ब॒भूवि॑थ ॥

    अधः । पश्यस्व । मा । उपरि । सम्ऽतराम् । पादकौ । हर ।
    मा । ते । कशऽप्लकौ । दृशन् । स्त्री । हि । ब्रह्मा । बभूविथ ॥

    adháḥ ǀ paśyasva ǀ mā́ ǀ upári ǀ sam-tarā́m ǀ pādakáu ǀ hara ǀ
    mā́ ǀ te ǀ kaśa-plakáu ǀ dṛśan ǀ strī́ ǀ hí ǀ brahmā́ ǀ babhū́vitha ǁ

    adhaḥ ǀ paśyasva ǀ mā ǀ upari ǀ sam-tarām ǀ pādakau ǀ hara ǀ
    mā ǀ te ǀ kaśa-plakau ǀ dṛśan ǀ strī ǀ hi ǀ brahmā ǀ babhūvitha ǁ

    8.33.19 Aṣṭaka 6.3.10.4Anuvāka 8.5.67

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.33 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

WE compass thee like waters, we whose grass is trimmed and Soma pressed. Here where the filter pours its stream, thy worshippers round thee, O Vṛtra-slayer, sit.

Ṛk 2

Men, Vasu! by the Soma, with lauds call thee to the foremost place: When comest thou athirst unto the juice as home, O Indra, like a bellowing bull?

Ṛk 3

Boldly, Bold Hero, bring us spoil in thousands for the Kaṇvas' sake. O active Maghavan, with eager prayer we crave the yellow-hued with store ol kine.

Ṛk 4

Medhyātithi, to Indra sing, drink of the juice to make thee glad. Close-knit to his Bay Steeds, bolt-armed, beside the juice is he: his chariot is of gold.

Ṛk 5

He Who is praised as strong of hand both right and left, most wise and hold: Indra who, rich in hundreds, gathers thousands up, honoured as breaker-down of forts.

Ṛk 6

The bold of heart whom none provokes, who stands in bearded confidence; Much-lauded, very glorious, overthrowing foes, strong Helper, like a bull with might.

Ṛk 7

Who knows what vital ower he wins, drinking beside the flowing juice? This is the fair-checked God who, joying in the draught, breaks down the castles in his strength.

Ṛk 8

As a wild elephant rushes on this way and that way, mad with heat,' None may compel thee, yet come hither to the draught: thou movest mighty in thy power.

Ṛk 9

When he, the Mighty, ne’er o’erthrown, steadfast, made ready for the fight, When Indra Maghavan lists to his praiser's call, he will not stand aloof, but come.

Ṛk 10

Yea, verily, thou art a Bull, with a bull's rush. whom none may stay: Thou Mighty One, art celebrated as a Bull, famed as a Bull both near and far.

Ṛk 11

Thy reins are very bulls in strength, bulls' strength is in thy golden whip. Thy car, O Maghavan, thy Bays are strong as bulls: thou, Śatakratu, art a Bull.

Ṛk 12

Let the strong presser press for thee. Bring hither, thou straight-rushing Bull. The mighty makes the mighty run in flowing streams for thee whom thy Bay Horses bear.

Ṛk 13

Come, thou most potent Indra, come to drink the savoury Soma juice. Maghavan, very wise, will quickly come to hear the songs, the prayer, the hymns of praise.

Ṛk 14

When thou hast mounted on thy car let thy yoked Bay Steeds carry thee, Past other men's libations, Lord of Hundred Powers, thee, Vṛtra-slayer, thee our Friend.

Ṛk 15

O thou Most Lofty One, accept our laud as nearest to thine heart. May our libations be most sweet to make thee glad, O Soma-drinker, Heavenly Lord.

Ṛk 16

Neither in thy decree nor mine, but in another's he delights,— The man who brought us unto this.

Ṛk 17

Indra himself hath said, The mind of woman brooks not discipline, Her intellect hath little weight.

Ṛk 18

His pair of horses, rushing on in their wild transport, draw his car: High-lifted is the stallion's yoke.