Ṛk 8.33.13
Saṃhitā
एंद्र॑ याहि पी॒तये॒ मधु॑ शविष्ठ सो॒म्यं ।
नायमच्छा॑ म॒घवा॑ शृ॒णव॒द्गिरो॒ ब्रह्मो॒क्था च॑ सु॒क्रतुः॑ ॥
एन्द्र याहि पीतये मधु शविष्ठ सोम्यम् |
नायम् अच्छा मघवा शृणवद् गिरो ब्रह्मोक्था च सुक्रतुः ||
éndra yāhi pītáye mádhu śaviṣṭha somyám ǀ
nā́yámácchā maghávā śṛṇávadgíro bráhmokthā́ ca sukrátuḥ ǁ
endra yāhi pītaye madhu śaviṣṭha somyam |
nāyam acchā maghavā śṛṇavad giro brahmokthā ca sukratuḥ ||
Padapāṭha
आ । इ॒न्द्र॒ । या॒हि॒ । पी॒तये॑ । मधु॑ । श॒वि॒ष्ठ॒ । सो॒म्यम् ।
न । अ॒यम् । अच्छ॑ । म॒घऽवा॑ । शृ॒णव॑त् । गिरः॑ । ब्रह्म॑ । उ॒क्था । च॒ । सु॒ऽक्रतुः॑ ॥
आ । इन्द्र । याहि । पीतये । मधु । शविष्ठ । सोम्यम् ।
न । अयम् । अच्छ । मघऽवा । शृणवत् । गिरः । ब्रह्म । उक्था । च । सुऽक्रतुः ॥
ā́ ǀ indra ǀ yāhi ǀ pītáye ǀ mádhu ǀ śaviṣṭha ǀ somyám ǀ
ná ǀ ayám ǀ áccha ǀ maghá-vā ǀ śṛṇávat ǀ gíraḥ ǀ bráhma ǀ ukthā́ ǀ ca ǀ su-krátuḥ ǁ
ā ǀ indra ǀ yāhi ǀ pītaye ǀ madhu ǀ śaviṣṭha ǀ somyam ǀ
na ǀ ayam ǀ accha ǀ magha-vā ǀ śṛṇavat ǀ giraḥ ǀ brahma ǀ ukthā ǀ ca ǀ su-kratuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.033.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.09.03
- Maṇḍala · Anuvāka · Ṛk
- 08.05.061
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Medhyātithi Kāṇva
- Chandas छन्दस्
- Bṛhatī, Gāyatrī, Anuṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.