Ṛk 8.33.5
Saṃhitā
यः सु॑ष॒व्यः सु॒दक्षि॑ण इ॒नो यः सु॒क्रतु॑र्गृ॒णे ।
य आ॑क॒रः स॒हस्रा॒ यः श॒ताम॑घ॒ इंद्रो॒ यः पू॒र्भिदा॑रि॒तः ॥
यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर् गृणे |
य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिद् आरितः ||
yáḥ suṣavyáḥ sudákṣiṇa inó yáḥ sukráturgṛṇé ǀ
yá ākaráḥ sahásrā yáḥ śatā́magha índro yáḥ pūrbhídāritáḥ ǁ
yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukratur gṛṇe |
ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhid āritaḥ ||
Padapāṭha
यः । सु॒ऽस॒व्यः । सु॒ऽदक्षि॑णः । इ॒नः । यः । सु॒ऽक्रतुः॑ । गृ॒णे ।
यः । आ॒ऽक॒रः । स॒हस्रा॑ । यः । श॒तऽम॑घः । इन्द्रः॑ । यः । पूः॒ऽभित् । आ॒रि॒तः ॥
यः । सुऽसव्यः । सुऽदक्षिणः । इनः । यः । सुऽक्रतुः । गृणे ।
यः । आऽकरः । सहस्रा । यः । शतऽमघः । इन्द्रः । यः । पूःऽभित् । आरितः ॥
yáḥ ǀ su-savyáḥ ǀ su-dákṣiṇaḥ ǀ ináḥ ǀ yáḥ ǀ su-krátuḥ ǀ gṛṇé ǀ
yáḥ ǀ ā-karáḥ ǀ sahásrā ǀ yáḥ ǀ śatá-maghaḥ ǀ índraḥ ǀ yáḥ ǀ pūḥ-bhít ǀ āritáḥ ǁ
yaḥ ǀ su-savyaḥ ǀ su-dakṣiṇaḥ ǀ inaḥ ǀ yaḥ ǀ su-kratuḥ ǀ gṛṇe ǀ
yaḥ ǀ ā-karaḥ ǀ sahasrā ǀ yaḥ ǀ śata-maghaḥ ǀ indraḥ ǀ yaḥ ǀ pūḥ-bhit ǀ āritaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.033.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.07.05
- Maṇḍala · Anuvāka · Ṛk
- 08.05.053
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Medhyātithi Kāṇva
- Chandas छन्दस्
- Bṛhatī, Gāyatrī, Anuṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.