Ṛk 8.33.10
Saṃhitā
स॒त्यमि॒त्था वृषेद॑सि॒ वृष॑जूति॒र्नोऽवृ॑तः ।
वृषा॒ ह्यु॑ग्र शृण्वि॒षे प॑रा॒वति॒ वृषो॑ अर्वा॒वति॑ श्रु॒तः ॥
सत्यम् इत्था वृषेद् असि वृषजूतिर् नो ऽवृतः |
वृषा ह्य् उग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ||
satyámitthā́ vṛ́ṣédasi vṛ́ṣajūtirnó’vṛtaḥ ǀ
vṛ́ṣā hyúgra śṛṇviṣé parāváti vṛ́ṣo arvāváti śrutáḥ ǁ
satyam itthā vṛṣed asi vṛṣajūtir no 'vṛtaḥ |
vṛṣā hy ugra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ ||
Padapāṭha
स॒त्यम् । इ॒त्था । वृषा॑ । इत् । अ॒सि॒ । वृष॑ऽजूतिः । नः॒ । अवृ॑तः ।
वृषा॑ । हि । उ॒ग्र॒ । शृ॒ण्वि॒षे । प॒रा॒ऽवति॑ । वृषो॒ इति॑ । अ॒र्वा॒ऽवति॑ । श्रु॒तः ॥
सत्यम् । इत्था । वृषा । इत् । असि । वृषऽजूतिः । नः । अवृतः ।
वृषा । हि । उग्र । शृण्विषे । पराऽवति । वृषो इति । अर्वाऽवति । श्रुतः ॥
satyám ǀ itthā́ ǀ vṛ́ṣā ǀ ít ǀ asi ǀ vṛ́ṣa-jūtiḥ ǀ naḥ ǀ ávṛtaḥ ǀ
vṛ́ṣā ǀ hí ǀ ugra ǀ śṛṇviṣé ǀ parā-váti ǀ vṛ́ṣo íti ǀ arvā-váti ǀ śrutáḥ ǁ
satyam ǀ itthā ǀ vṛṣā ǀ it ǀ asi ǀ vṛṣa-jūtiḥ ǀ naḥ ǀ avṛtaḥ ǀ
vṛṣā ǀ hi ǀ ugra ǀ śṛṇviṣe ǀ parā-vati ǀ vṛṣo iti ǀ arvā-vati ǀ śrutaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.033.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.08.05
- Maṇḍala · Anuvāka · Ṛk
- 08.05.058
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Medhyātithi Kāṇva
- Chandas छन्दस्
- Bṛhatī, Gāyatrī, Anuṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.