Ṛk 8.33.6
Saṃhitā
यो धृ॑षि॒तो योऽवृ॑तो॒ यो अस्ति॒ श्मश्रु॑षु श्रि॒तः ।
विभू॑तद्युम्न॒श्च्यव॑नः पुरुष्टु॒तः क्रत्वा॒ गौरि॑व शाकि॒नः ॥
यो धृषितो यो ऽवृतो यो अस्ति श्मश्रुषु श्रितः |
विभूतद्युम्नश् च्यवनः पुरुष्टुतः क्रत्वा गौर् इव शाकिनः ||
yó dhṛṣitó yó’vṛto yó ásti śmáśruṣu śritáḥ ǀ
víbhūtadyumnaścyávanaḥ puruṣṭutáḥ krátvā gáuriva śākináḥ ǁ
yo dhṛṣito yo 'vṛto yo asti śmaśruṣu śritaḥ |
vibhūtadyumnaś cyavanaḥ puruṣṭutaḥ kratvā gaur iva śākinaḥ ||
Padapāṭha
यः । धृ॒षि॒तः । यः । अवृ॑तः । यः । अस्ति॑ । श्मश्रु॑षु । श्रि॒तः ।
विभू॑तऽद्युम्नः । च्यव॑नः । पु॒रु॒ऽस्तु॒तः । क्रत्वा॑ । गौःऽइ॑व । शा॒कि॒नः ॥
यः । धृषितः । यः । अवृतः । यः । अस्ति । श्मश्रुषु । श्रितः ।
विभूतऽद्युम्नः । च्यवनः । पुरुऽस्तुतः । क्रत्वा । गौःऽइव । शाकिनः ॥
yáḥ ǀ dhṛṣitáḥ ǀ yáḥ ǀ ávṛtaḥ ǀ yáḥ ǀ ásti ǀ śmáśruṣu ǀ śritáḥ ǀ
víbhūta-dyumnaḥ ǀ cyávanaḥ ǀ puru-stutáḥ ǀ krátvā ǀ gáuḥ-iva ǀ śākináḥ ǁ
yaḥ ǀ dhṛṣitaḥ ǀ yaḥ ǀ avṛtaḥ ǀ yaḥ ǀ asti ǀ śmaśruṣu ǀ śritaḥ ǀ
vibhūta-dyumnaḥ ǀ cyavanaḥ ǀ puru-stutaḥ ǀ kratvā ǀ gauḥ-iva ǀ śākinaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.033.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.08.01
- Maṇḍala · Anuvāka · Ṛk
- 08.05.054
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Medhyātithi Kāṇva
- Chandas छन्दस्
- Bṛhatī, Gāyatrī, Anuṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.