Ṛk 8.33.9
Saṃhitā
य उ॒ग्रः सन्ननि॑ष्टृतः स्थि॒रो रणा॑य॒ संस्कृ॑तः ।
यदि॑ स्तो॒तुर्म॒घवा॑ शृ॒णव॒द्धवं॒ नेंद्रो॑ योष॒त्या ग॑मत् ॥
य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः |
यदि स्तोतुर् मघवा शृणवद् धवं नेन्द्रो योषत्य् आ गमत् ||
yá ugráḥ sánnániṣṭṛtaḥ sthiró ráṇāya sáṃskṛtaḥ ǀ
yádi stotúrmaghávā śṛṇávaddhávam néndro yoṣatyā́ gamat ǁ
ya ugraḥ sann aniṣṭṛta sthiro raṇāya saṃskṛtaḥ |
yadi stotur maghavā śṛṇavad dhavaṃ nendro yoṣaty ā gamat ||
Padapāṭha
यः । उ॒ग्रः । सन् । अनि॑ऽस्तृतः । स्थि॒रः । रणा॑य । संस्कृ॑तः ।
यदि॑ । स्तो॒तुः । म॒घऽवा॑ । शृ॒णव॑त् । हव॑म् । न । इन्द्रः॑ । यो॒ष॒ति॒ । आ । ग॒म॒त् ॥
यः । उग्रः । सन् । अनिऽस्तृतः । स्थिरः । रणाय । संस्कृतः ।
यदि । स्तोतुः । मघऽवा । शृणवत् । हवम् । न । इन्द्रः । योषति । आ । गमत् ॥
yáḥ ǀ ugráḥ ǀ sán ǀ áni-stṛtaḥ ǀ sthiráḥ ǀ ráṇāya ǀ sáṃskṛtaḥ ǀ
yádi ǀ stotúḥ ǀ maghá-vā ǀ śṛṇávat ǀ hávam ǀ ná ǀ índraḥ ǀ yoṣati ǀ ā́ ǀ gamat ǁ
yaḥ ǀ ugraḥ ǀ san ǀ ani-stṛtaḥ ǀ sthiraḥ ǀ raṇāya ǀ saṃskṛtaḥ ǀ
yadi ǀ stotuḥ ǀ magha-vā ǀ śṛṇavat ǀ havam ǀ na ǀ indraḥ ǀ yoṣati ǀ ā ǀ gamat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.033.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.08.04
- Maṇḍala · Anuvāka · Ṛk
- 08.05.057
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Medhyātithi Kāṇva
- Chandas छन्दस्
- Bṛhatī, Gāyatrī, Anuṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.