Sūkta 53
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Medhya Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles virāḍbṛhatī (1, 5, 7); nicṛtpaṅkti (2, 4, 6); pādnicṛtpathyābṛhatī (3); virāṭpaṅkti (8)
2nd set of styles bṛhatī (1, 3, 5, 7); satobṛhatī (2, 4, 6, 8)
-
Ṛk 1
उ॒प॒मं त्वा॑ म॒घोनां॒ ज्येष्ठं॑ च वृष॒भाणां॑ ।
पू॒र्भित्त॑मं मघवन्निंद्र गो॒विद॒मीशा॑नं रा॒य ई॑महे ॥उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् |
पूर्भित्तमम् मघवन्न् इन्द्र गोविदम् ईशानं राय ईमहे ||upamám tvā maghónām jyéṣṭham ca vṛṣabhā́ṇām ǀ
pūrbhíttamam maghavannindra govídamī́śānam rāyá īmahe ǁupamaṃ tvā maghonāṃ jyeṣṭhaṃ ca vṛṣabhāṇām |
pūrbhittamam maghavann indra govidam īśānaṃ rāya īmahe ||उ॒प॒ऽमम् । त्वा॒ । म॒घोना॑म् । ज्येष्ठ॑म् । च॒ । वृ॒ष॒भाणा॑म् ।
पू॒र्भित्ऽत॑मम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गो॒ऽविद॑म् । ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ॥उपऽमम् । त्वा । मघोनाम् । ज्येष्ठम् । च । वृषभाणाम् ।
पूर्भित्ऽतमम् । मघऽवन् । इन्द्र । गोऽविदम् । ईशानम् । रायः । ईमहे ॥upa-mám ǀ tvā ǀ maghónām ǀ jyéṣṭham ǀ ca ǀ vṛṣabhā́ṇām ǀ
pūrbhít-tamam ǀ magha-van ǀ indra ǀ go-vídam ǀ ī́śānam ǀ rāyáḥ ǀ īmahe ǁupa-mam ǀ tvā ǀ maghonām ǀ jyeṣṭham ǀ ca ǀ vṛṣabhāṇām ǀ
pūrbhit-tamam ǀ magha-van ǀ indra ǀ go-vidam ǀ īśānam ǀ rāyaḥ ǀ īmahe ǁ8.53.1 Aṣṭaka 6.4.22.1Anuvāka 8.6.212
-
Ṛk 2
य आ॒युं कुत्स॑मतिथि॒ग्वमर्द॑यो वावृधा॒नो दि॒वेदि॑वे ।
तं त्वा॑ व॒यं हर्य॑श्वं श॒तक्र॑तुं वाज॒यंतो॑ हवामहे ॥य आयुं कुत्सम् अतिथिग्वम् अर्दयो वावृधानो दिवे-दिवे |
तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ||yá āyúm kútsamatithigvámárdayo vāvṛdhānó divédive ǀ
tám tvā vayám háryaśvam śatákratum vājayánto havāmahe ǁya āyuṃ kutsam atithigvam ardayo vāvṛdhāno dive-dive |
taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe ||यः । आ॒युम् । कुत्स॑म् । अ॒ति॒थि॒ऽग्वम् । अर्द॑यः । व॒वृ॒धा॒नः । दि॒वेऽदि॑वे ।
तम् । त्वा॒ । व॒यम् । हरि॑ऽअश्वम् । श॒तऽक्र॑तुम् । वा॒ज॒ऽयन्तः॑ । ह॒वा॒म॒हे॒ ॥यः । आयुम् । कुत्सम् । अतिथिऽग्वम् । अर्दयः । ववृधानः । दिवेऽदिवे ।
तम् । त्वा । वयम् । हरिऽअश्वम् । शतऽक्रतुम् । वाजऽयन्तः । हवामहे ॥yáḥ ǀ āyúm ǀ kútsam ǀ atithi-gvám ǀ árdayaḥ ǀ vavṛdhānáḥ ǀ divé-dive ǀ
tám ǀ tvā ǀ vayám ǀ hári-aśvam ǀ śatá-kratum ǀ vāja-yántaḥ ǀ havāmahe ǁyaḥ ǀ āyum ǀ kutsam ǀ atithi-gvam ǀ ardayaḥ ǀ vavṛdhānaḥ ǀ dive-dive ǀ
tam ǀ tvā ǀ vayam ǀ hari-aśvam ǀ śata-kratum ǀ vāja-yantaḥ ǀ havāmahe ǁ8.53.2 Aṣṭaka 6.4.22.2Anuvāka 8.6.213
-
Ṛk 3
आ नो॒ विश्वे॑षां॒ रसं॒ मध्वः॑ सिंचं॒त्वद्र॑यः ।
ये प॑रा॒वति॑ सुन्वि॒रे जने॒ष्वा ये अ॑र्वा॒वतींद॑वः ॥आ नो विश्वेषां रसम् मध्वः सिञ्चन्त्व् अद्रयः |
ये परावति सुन्विरे जनेष्व् आ ये अर्वावतीन्दवः ||ā́ no víśveṣām rásam mádhvaḥ siñcantvádrayaḥ ǀ
yé parāváti sunviré jáneṣvā́ yé arvāvátī́ndavaḥ ǁā no viśveṣāṃ rasam madhvaḥ siñcantv adrayaḥ |
ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ ||आ । नः॒ । विश्वे॑षाम् । रस॑म् । मध्वः॑ । सि॒ञ्च॒न्तु॒ । अद्र॑यः ।
ये । प॒रा॒ऽवति॑ । सु॒न्वि॒रे । जने॑षु । आ । ये । अ॒र्वा॒ऽवति॑ । इन्द॑वः ॥आ । नः । विश्वेषाम् । रसम् । मध्वः । सिञ्चन्तु । अद्रयः ।
ये । पराऽवति । सुन्विरे । जनेषु । आ । ये । अर्वाऽवति । इन्दवः ॥ā́ ǀ naḥ ǀ víśveṣām ǀ rásam ǀ mádhvaḥ ǀ siñcantu ǀ ádrayaḥ ǀ
yé ǀ parā-váti ǀ sunviré ǀ jáneṣu ǀ ā́ ǀ yé ǀ arvā-váti ǀ índavaḥ ǁā ǀ naḥ ǀ viśveṣām ǀ rasam ǀ madhvaḥ ǀ siñcantu ǀ adrayaḥ ǀ
ye ǀ parā-vati ǀ sunvire ǀ janeṣu ǀ ā ǀ ye ǀ arvā-vati ǀ indavaḥ ǁ8.53.3 Aṣṭaka 6.4.22.3Anuvāka 8.6.214
-
Ṛk 4
विश्वा॒ द्वेषां॑सि ज॒हि चाव॒ चा कृ॑धि॒ विश्वे॑ सन्वं॒त्वा वसु॑ ।
शीष्टे॑षु चित्ते मदि॒रासो॑ अं॒शवो॒ यत्रा॒ सोम॑स्य तृं॒पसि॑ ॥विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्व् आ वसु |
शीष्टेषु चित् ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि ||víśvā dvéṣāṃsi jahí cā́va cā́ kṛdhi víśve sanvantvā́ vásu ǀ
śī́ṣṭeṣu citte madirā́so aṃśávo yátrā sómasya tṛmpási ǁviśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sanvantv ā vasu |
śīṣṭeṣu cit te madirāso aṃśavo yatrā somasya tṛmpasi ||विश्वा॑ । द्वेषां॑सि । ज॒हि । च॒ । अव॑ । च॒ । आ । कृ॒धि॒ । विश्वे॑ । स॒न्व॒न्तु॒ । आ । वसु॑ ।
शीष्टे॑षु । चि॒त् । ते॒ । म॒दि॒रासः॑ । अं॒शवः॑ । यत्र॑ । सोम॑स्य । तृ॒म्पसि॑ ॥विश्वा । द्वेषांसि । जहि । च । अव । च । आ । कृधि । विश्वे । सन्वन्तु । आ । वसु ।
शीष्टेषु । चित् । ते । मदिरासः । अंशवः । यत्र । सोमस्य । तृम्पसि ॥víśvā ǀ dvéṣāṃsi ǀ jahí ǀ ca ǀ áva ǀ ca ǀ ā́ ǀ kṛdhi ǀ víśve ǀ sanvantu ǀ ā́ ǀ vásu ǀ
śī́ṣṭeṣu ǀ cit ǀ te ǀ madirā́saḥ ǀ aṃśávaḥ ǀ yátra ǀ sómasya ǀ tṛmpási ǁviśvā ǀ dveṣāṃsi ǀ jahi ǀ ca ǀ ava ǀ ca ǀ ā ǀ kṛdhi ǀ viśve ǀ sanvantu ǀ ā ǀ vasu ǀ
śīṣṭeṣu ǀ cit ǀ te ǀ madirāsaḥ ǀ aṃśavaḥ ǀ yatra ǀ somasya ǀ tṛmpasi ǁ8.53.4 Aṣṭaka 6.4.22.4Anuvāka 8.6.215
-
Ṛk 5
इंद्र॒ नेदी॑य॒ एदि॑हि मि॒तमे॑धाभिरू॒तिभिः॑ ।
आ शं॑तम॒ शंत॑माभिर॒भिष्टि॑भि॒रा स्वा॑पे स्वा॒पिभिः॑ ॥इन्द्र नेदीय एद् इहि मितमेधाभिर् ऊतिभिः |
आ शन्तम शन्तमाभिर् अभिष्टिभिर् आ स्वापे स्वापिभिः ||índra nédīya édihi mitámedhābhirūtíbhiḥ ǀ
ā́ śaṃtama śáṃtamābhirabhíṣṭibhirā́ svāpe svāpíbhiḥ ǁindra nedīya ed ihi mitamedhābhir ūtibhiḥ |
ā śantama śantamābhir abhiṣṭibhir ā svāpe svāpibhiḥ ||इन्द्र॑ । नेदी॑यः । आ । इत् । इ॒हि॒ । मि॒तऽमे॑धाभिः । ऊ॒तिऽभिः॑ ।
आ । श॒म्ऽत॒म॒ । शम्ऽत॑माभिः । अ॒भिष्टि॑ऽभिः । आ । सु॒ऽआ॒पे॒ । स्वा॒पिऽभिः॑ ॥इन्द्र । नेदीयः । आ । इत् । इहि । मितऽमेधाभिः । ऊतिऽभिः ।
आ । शम्ऽतम । शम्ऽतमाभिः । अभिष्टिऽभिः । आ । सुऽआपे । स्वापिऽभिः ॥índra ǀ nédīyaḥ ǀ ā́ ǀ ít ǀ ihi ǀ mitá-medhābhiḥ ǀ ūtí-bhiḥ ǀ
ā́ ǀ śam-tama ǀ śám-tamābhiḥ ǀ abhíṣṭi-bhiḥ ǀ ā́ ǀ su-āpe ǀ svāpí-bhiḥ ǁindra ǀ nedīyaḥ ǀ ā ǀ it ǀ ihi ǀ mita-medhābhiḥ ǀ ūti-bhiḥ ǀ
ā ǀ śam-tama ǀ śam-tamābhiḥ ǀ abhiṣṭi-bhiḥ ǀ ā ǀ su-āpe ǀ svāpi-bhiḥ ǁ8.53.5 Aṣṭaka 6.4.23.1Anuvāka 8.6.216
-
Ṛk 6
आ॒जि॒तुरं॒ सत्प॑तिं वि॒श्वच॑र्षणिं कृ॒धि प्र॒जास्वाभ॑गं ।
प्र सू ति॑रा॒ शची॑भि॒र्ये त॑ उ॒क्थिनः॒ क्रतुं॑ पुन॒त आ॑नु॒षक् ॥आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्व् आभगम् |
प्र सू तिरा शचीभिर् ये त उक्थिनः क्रतुम् पुनत आनुषक् ||ājitúram sátpatim viśvácarṣaṇim kṛdhí prajā́svā́bhagam ǀ
prá sū́ tirā śácībhiryé ta ukthínaḥ krátum punatá ānuṣák ǁājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam |
pra sū tirā śacībhir ye ta ukthinaḥ kratum punata ānuṣak ||आ॒जि॒ऽतुर॑म् । सत्ऽप॑तिम् । वि॒श्वऽच॑र्षणिम् । कृ॒धि । प्र॒ऽजासु॑ । आऽभ॑गम् ।
प्र । सु । ति॒र॒ । शची॑भिः । ये । ते॒ । उ॒क्थिनः॑ । क्रतु॑म् । पु॒न॒ते । आ॒नु॒षक् ॥आजिऽतुरम् । सत्ऽपतिम् । विश्वऽचर्षणिम् । कृधि । प्रऽजासु । आऽभगम् ।
प्र । सु । तिर । शचीभिः । ये । ते । उक्थिनः । क्रतुम् । पुनते । आनुषक् ॥āji-túram ǀ sát-patim ǀ viśvá-carṣaṇim ǀ kṛdhí ǀ pra-jā́su ǀ ā́-bhagam ǀ
prá ǀ sú ǀ tira ǀ śácībhiḥ ǀ yé ǀ te ǀ ukthínaḥ ǀ krátum ǀ punaté ǀ ānuṣák ǁāji-turam ǀ sat-patim ǀ viśva-carṣaṇim ǀ kṛdhi ǀ pra-jāsu ǀ ā-bhagam ǀ
pra ǀ su ǀ tira ǀ śacībhiḥ ǀ ye ǀ te ǀ ukthinaḥ ǀ kratum ǀ punate ǀ ānuṣak ǁ8.53.6 Aṣṭaka 6.4.23.2Anuvāka 8.6.217
-
Ṛk 7
यस्ते॒ साधि॒ष्ठोऽव॑से॒ ते स्या॑म॒ भरे॑षु ते ।
व॒यं होत्रा॑भिरु॒त दे॒वहू॑तिभिः सस॒वांसो॑ मनामहे ॥यस् ते साधिष्ठो ऽवसे ते स्याम भरेषु ते |
वयं होत्राभिर् उत देवहूतिभिः ससवांसो मनामहे ||yáste sā́dhiṣṭhó’vase té syāma bháreṣu te ǀ
vayám hótrābhirutá deváhūtibhiḥ sasavā́ṃso manāmahe ǁyas te sādhiṣṭho 'vase te syāma bhareṣu te |
vayaṃ hotrābhir uta devahūtibhiḥ sasavāṃso manāmahe ||यः । ते॒ । साधि॑ष्ठः । अव॑से । ते । स्या॒म॒ । भरे॑षु । ते॒ ।
व॒यम् । होत्रा॑भिः । उ॒त । दे॒वहू॑तिऽभिः । स॒स॒ऽवांसः॑ । म॒ना॒म॒हे॒ ॥यः । ते । साधिष्ठः । अवसे । ते । स्याम । भरेषु । ते ।
वयम् । होत्राभिः । उत । देवहूतिऽभिः । ससऽवांसः । मनामहे ॥yáḥ ǀ te ǀ sā́dhiṣṭhaḥ ǀ ávase ǀ té ǀ syāma ǀ bháreṣu ǀ te ǀ
vayám ǀ hótrābhiḥ ǀ utá ǀ deváhūti-bhiḥ ǀ sasa-vā́ṃsaḥ ǀ manāmahe ǁyaḥ ǀ te ǀ sādhiṣṭhaḥ ǀ avase ǀ te ǀ syāma ǀ bhareṣu ǀ te ǀ
vayam ǀ hotrābhiḥ ǀ uta ǀ devahūti-bhiḥ ǀ sasa-vāṃsaḥ ǀ manāmahe ǁ8.53.7 Aṣṭaka 6.4.23.3Anuvāka 8.6.218
-
Ṛk 8
अ॒हं हि ते॑ हरिवो॒ ब्रह्म॑ वाज॒युरा॒जिं यामि॒ सदो॒तिभिः॑ ।
त्वामिदे॒व तममे॒ सम॑श्व॒युर्ग॒व्युरग्रे॑ मथी॒नां ॥अहं हि ते हरिवो ब्रह्म वाजयुर् आजिं यामि सदोतिभिः |
त्वाम् इद् एव तम् अमे सम् अश्वयुर् गव्युर् अग्रे मथीनाम् ||ahám hí te harivo bráhma vājayúrājím yā́mi sádotíbhiḥ ǀ
tvā́mídevá támáme sámaśvayúrgavyúrágre mathīnā́m ǁahaṃ hi te harivo brahma vājayur ājiṃ yāmi sadotibhiḥ |
tvām id eva tam ame sam aśvayur gavyur agre mathīnām ||अ॒हम् । हि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । वा॒ज॒ऽयुः । आ॒जिम् । यामि॑ । सदा॑ । ऊ॒तिऽभिः॑ ।
त्वाम् । इत् । ए॒व । तम् । अमे॑ । सम् । अ॒श्व॒ऽयुः । ग॒व्युः । अग्रे॑ । म॒थी॒नाम् ॥अहम् । हि । ते । हरिऽवः । ब्रह्म । वाजऽयुः । आजिम् । यामि । सदा । ऊतिऽभिः ।
त्वाम् । इत् । एव । तम् । अमे । सम् । अश्वऽयुः । गव्युः । अग्रे । मथीनाम् ॥ahám ǀ hí ǀ te ǀ hari-vaḥ ǀ bráhma ǀ vāja-yúḥ ǀ ājím ǀ yā́mi ǀ sádā ǀ ūtí-bhiḥ ǀ
tvā́m ǀ ít ǀ evá ǀ tám ǀ áme ǀ sám ǀ aśva-yúḥ ǀ gavyúḥ ǀ ágre ǀ mathīnā́m ǁaham ǀ hi ǀ te ǀ hari-vaḥ ǀ brahma ǀ vāja-yuḥ ǀ ājim ǀ yāmi ǀ sadā ǀ ūti-bhiḥ ǀ
tvām ǀ it ǀ eva ǀ tam ǀ ame ǀ sam ǀ aśva-yuḥ ǀ gavyuḥ ǀ agre ǀ mathīnām ǁ8.53.8 Aṣṭaka 6.4.23.4Anuvāka 8.6.219
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.