Ṛk 8.53.3
Saṃhitā
आ नो॒ विश्वे॑षां॒ रसं॒ मध्वः॑ सिंचं॒त्वद्र॑यः ।
ये प॑रा॒वति॑ सुन्वि॒रे जने॒ष्वा ये अ॑र्वा॒वतींद॑वः ॥
आ नो विश्वेषां रसम् मध्वः सिञ्चन्त्व् अद्रयः |
ये परावति सुन्विरे जनेष्व् आ ये अर्वावतीन्दवः ||
ā́ no víśveṣām rásam mádhvaḥ siñcantvádrayaḥ ǀ
yé parāváti sunviré jáneṣvā́ yé arvāvátī́ndavaḥ ǁ
ā no viśveṣāṃ rasam madhvaḥ siñcantv adrayaḥ |
ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ ||
Padapāṭha
आ । नः॒ । विश्वे॑षाम् । रस॑म् । मध्वः॑ । सि॒ञ्च॒न्तु॒ । अद्र॑यः ।
ये । प॒रा॒ऽवति॑ । सु॒न्वि॒रे । जने॑षु । आ । ये । अ॒र्वा॒ऽवति॑ । इन्द॑वः ॥
आ । नः । विश्वेषाम् । रसम् । मध्वः । सिञ्चन्तु । अद्रयः ।
ये । पराऽवति । सुन्विरे । जनेषु । आ । ये । अर्वाऽवति । इन्दवः ॥
ā́ ǀ naḥ ǀ víśveṣām ǀ rásam ǀ mádhvaḥ ǀ siñcantu ǀ ádrayaḥ ǀ
yé ǀ parā-váti ǀ sunviré ǀ jáneṣu ǀ ā́ ǀ yé ǀ arvā-váti ǀ índavaḥ ǁ
ā ǀ naḥ ǀ viśveṣām ǀ rasam ǀ madhvaḥ ǀ siñcantu ǀ adrayaḥ ǀ
ye ǀ parā-vati ǀ sunvire ǀ janeṣu ǀ ā ǀ ye ǀ arvā-vati ǀ indavaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.053.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.22.03
- Maṇḍala · Anuvāka · Ṛk
- 08.06.214
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Medhya Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.