Ṛk 8.53.2
Saṃhitā
य आ॒युं कुत्स॑मतिथि॒ग्वमर्द॑यो वावृधा॒नो दि॒वेदि॑वे ।
तं त्वा॑ व॒यं हर्य॑श्वं श॒तक्र॑तुं वाज॒यंतो॑ हवामहे ॥
य आयुं कुत्सम् अतिथिग्वम् अर्दयो वावृधानो दिवे-दिवे |
तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ||
yá āyúm kútsamatithigvámárdayo vāvṛdhānó divédive ǀ
tám tvā vayám háryaśvam śatákratum vājayánto havāmahe ǁ
ya āyuṃ kutsam atithigvam ardayo vāvṛdhāno dive-dive |
taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe ||
Padapāṭha
यः । आ॒युम् । कुत्स॑म् । अ॒ति॒थि॒ऽग्वम् । अर्द॑यः । व॒वृ॒धा॒नः । दि॒वेऽदि॑वे ।
तम् । त्वा॒ । व॒यम् । हरि॑ऽअश्वम् । श॒तऽक्र॑तुम् । वा॒ज॒ऽयन्तः॑ । ह॒वा॒म॒हे॒ ॥
यः । आयुम् । कुत्सम् । अतिथिऽग्वम् । अर्दयः । ववृधानः । दिवेऽदिवे ।
तम् । त्वा । वयम् । हरिऽअश्वम् । शतऽक्रतुम् । वाजऽयन्तः । हवामहे ॥
yáḥ ǀ āyúm ǀ kútsam ǀ atithi-gvám ǀ árdayaḥ ǀ vavṛdhānáḥ ǀ divé-dive ǀ
tám ǀ tvā ǀ vayám ǀ hári-aśvam ǀ śatá-kratum ǀ vāja-yántaḥ ǀ havāmahe ǁ
yaḥ ǀ āyum ǀ kutsam ǀ atithi-gvam ǀ ardayaḥ ǀ vavṛdhānaḥ ǀ dive-dive ǀ
tam ǀ tvā ǀ vayam ǀ hari-aśvam ǀ śata-kratum ǀ vāja-yantaḥ ǀ havāmahe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.053.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.22.02
- Maṇḍala · Anuvāka · Ṛk
- 08.06.213
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Medhya Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.