Sūkta 30
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Manu Vaivasvata
- Chandas छन्दस्
- Gāyatrī, Pura-Uṣṇih, Bṛhatī, Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdgāyatrī (1); purauṣṇik (2); virāḍbṛhatī (3); nicṛdanuṣṭup (4)
2nd set of styles gāyatrī (1); pura-uṣṇih (2); bṛhatī (3); anuṣṭubh (4)
-
Ṛk 1
न॒हि वो॒ अस्त्य॑र्भ॒को देवा॑सो॒ न कु॑मार॒कः ।
विश्वे॑ स॒तोम॑हांत॒ इत् ॥नहि वो अस्त्य् अर्भको देवासो न कुमारकः |
विश्वे सतोमहान्त इत् ||nahí vo ástyarbhakó dévāso ná kumārakáḥ ǀ
víśve satómahānta ít ǁnahi vo asty arbhako devāso na kumārakaḥ |
viśve satomahānta it ||न॒हि । वः॒ । अस्ति॑ । अ॒र्भ॒कः । देवा॑सः । न । कु॒मा॒र॒कः ।
विश्वे॑ । स॒तःऽम॑हान्तः । इत् ॥नहि । वः । अस्ति । अर्भकः । देवासः । न । कुमारकः ।
विश्वे । सतःऽमहान्तः । इत् ॥nahí ǀ vaḥ ǀ ásti ǀ arbhakáḥ ǀ dévāsaḥ ǀ ná ǀ kumārakáḥ ǀ
víśve ǀ satáḥ-mahāntaḥ ǀ ít ǁnahi ǀ vaḥ ǀ asti ǀ arbhakaḥ ǀ devāsaḥ ǀ na ǀ kumārakaḥ ǀ
viśve ǀ sataḥ-mahāntaḥ ǀ it ǁ8.30.1 Aṣṭaka 6.2.37.1Anuvāka 8.4.183
-
Ṛk 2
इति॑ स्तु॒तासो॑ असथा रिशादसो॒ ये स्थ त्रय॑श्च त्रिं॒शच्च॑ ।
मनो॑र्देवा यज्ञियासः ॥इति स्तुतासो असथा रिशादसो ये स्थ त्रयश् च त्रिंशच् च |
मनोर् देवा यज्ञियासः ||íti stutā́so asathā riśādaso yé sthá tráyaśca triṃśácca ǀ
mánordevā yajñiyāsaḥ ǁiti stutāso asathā riśādaso ye stha trayaś ca triṃśac ca |
manor devā yajñiyāsaḥ ||इति॑ । स्तु॒तासः॑ । अ॒स॒थ॒ । रि॒शा॒द॒सः॒ । ये । स्थ । त्रयः॑ । च॒ । त्रिं॒शत् । च॒ ।
मनोः॑ । दे॒वाः॒ । य॒ज्ञि॒या॒सः॒ ॥इति । स्तुतासः । असथ । रिशादसः । ये । स्थ । त्रयः । च । त्रिंशत् । च ।
मनोः । देवाः । यज्ञियासः ॥íti ǀ stutā́saḥ ǀ asatha ǀ riśādasaḥ ǀ yé ǀ sthá ǀ tráyaḥ ǀ ca ǀ triṃśát ǀ ca ǀ
mánoḥ ǀ devāḥ ǀ yajñiyāsaḥ ǁiti ǀ stutāsaḥ ǀ asatha ǀ riśādasaḥ ǀ ye ǀ stha ǀ trayaḥ ǀ ca ǀ triṃśat ǀ ca ǀ
manoḥ ǀ devāḥ ǀ yajñiyāsaḥ ǁ8.30.2 Aṣṭaka 6.2.37.2Anuvāka 8.4.184
-
Ṛk 3
ते न॑स्त्राध्वं॒ ते॑ऽवत॒ त उ॑ नो॒ अधि॑ वोचत ।
मा नः॑ प॒थः पित्र्या॑न्मान॒वादधि॑ दू॒रं नै॑ष्ट परा॒वतः॑ ॥ते नस् त्राध्वं ते ऽवत त उ नो अधि वोचत |
मा नः पथः पित्र्यान् मानवाद् अधि दूरं नैष्ट परावतः ||té nastrādhvam té’vata tá u no ádhi vocata ǀ
mā́ naḥ patháḥ pítryānmānavā́dádhi dūrám naiṣṭa parāvátaḥ ǁte nas trādhvaṃ te 'vata ta u no adhi vocata |
mā naḥ pathaḥ pitryān mānavād adhi dūraṃ naiṣṭa parāvataḥ ||ते । नः॒ । त्रा॒ध्व॒म् । ते॒ । अ॒व॒त॒ । ते । ऊं॒ इति॑ । नः॒ । अधि॑ । वो॒च॒त॒ ।
मा । नः॒ । प॒थः । पित्र्या॑त् । मा॒न॒वात् । अधि॑ । दू॒रम् । नै॒ष्ट॒ । प॒रा॒ऽवतः॑ ॥ते । नः । त्राध्वम् । ते । अवत । ते । ऊं इति । नः । अधि । वोचत ।
मा । नः । पथः । पित्र्यात् । मानवात् । अधि । दूरम् । नैष्ट । पराऽवतः ॥té ǀ naḥ ǀ trādhvam ǀ te ǀ avata ǀ té ǀ ūṃ íti ǀ naḥ ǀ ádhi ǀ vocata ǀ
mā́ ǀ naḥ ǀ patháḥ ǀ pítryāt ǀ mānavā́t ǀ ádhi ǀ dūrám ǀ naiṣṭa ǀ parā-vátaḥ ǁte ǀ naḥ ǀ trādhvam ǀ te ǀ avata ǀ te ǀ ūṃ iti ǀ naḥ ǀ adhi ǀ vocata ǀ
mā ǀ naḥ ǀ pathaḥ ǀ pitryāt ǀ mānavāt ǀ adhi ǀ dūram ǀ naiṣṭa ǀ parā-vataḥ ǁ8.30.3 Aṣṭaka 6.2.37.3Anuvāka 8.4.185
-
Ṛk 4
ये दे॑वास इ॒ह स्थन॒ विश्वे॑ वैश्वान॒रा उ॒त ।
अ॒स्मभ्यं॒ शर्म॑ स॒प्रथो॒ गवेऽश्वा॑य यच्छत ॥ये देवास इह स्थन विश्वे वैश्वानरा उत |
अस्मभ्यं शर्म सप्रथो गवे ऽश्वाय यच्छत ||yé devāsa ihá sthána víśve vaiśvānarā́ utá ǀ
asmábhyam śárma saprátho gávé’śvāya yacchata ǁye devāsa iha sthana viśve vaiśvānarā uta |
asmabhyaṃ śarma sapratho gave 'śvāya yacchata ||ये । दे॒वा॒सः॒ । इ॒ह । स्थन॑ । विश्वे॑ । वै॒श्वा॒न॒राः । उ॒त ।
अ॒स्मभ्य॑म् । शर्म॑ । स॒ऽप्रथः॑ । गवे॑ । अश्वा॑य । य॒च्छ॒त॒ ॥ये । देवासः । इह । स्थन । विश्वे । वैश्वानराः । उत ।
अस्मभ्यम् । शर्म । सऽप्रथः । गवे । अश्वाय । यच्छत ॥yé ǀ devāsaḥ ǀ ihá ǀ sthána ǀ víśve ǀ vaiśvānarā́ḥ ǀ utá ǀ
asmábhyam ǀ śárma ǀ sa-práthaḥ ǀ gáve ǀ áśvāya ǀ yacchata ǁye ǀ devāsaḥ ǀ iha ǀ sthana ǀ viśve ǀ vaiśvānarāḥ ǀ uta ǀ
asmabhyam ǀ śarma ǀ sa-prathaḥ ǀ gave ǀ aśvāya ǀ yacchata ǁ8.30.4 Aṣṭaka 6.2.37.4Anuvāka 8.4.186
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.