Ṛk 8.30.1
Saṃhitā
न॒हि वो॒ अस्त्य॑र्भ॒को देवा॑सो॒ न कु॑मार॒कः ।
विश्वे॑ स॒तोम॑हांत॒ इत् ॥
नहि वो अस्त्य् अर्भको देवासो न कुमारकः |
विश्वे सतोमहान्त इत् ||
nahí vo ástyarbhakó dévāso ná kumārakáḥ ǀ
víśve satómahānta ít ǁ
nahi vo asty arbhako devāso na kumārakaḥ |
viśve satomahānta it ||
Padapāṭha
न॒हि । वः॒ । अस्ति॑ । अ॒र्भ॒कः । देवा॑सः । न । कु॒मा॒र॒कः ।
विश्वे॑ । स॒तःऽम॑हान्तः । इत् ॥
नहि । वः । अस्ति । अर्भकः । देवासः । न । कुमारकः ।
विश्वे । सतःऽमहान्तः । इत् ॥
nahí ǀ vaḥ ǀ ásti ǀ arbhakáḥ ǀ dévāsaḥ ǀ ná ǀ kumārakáḥ ǀ
víśve ǀ satáḥ-mahāntaḥ ǀ ít ǁ
nahi ǀ vaḥ ǀ asti ǀ arbhakaḥ ǀ devāsaḥ ǀ na ǀ kumārakaḥ ǀ
viśve ǀ sataḥ-mahāntaḥ ǀ it ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.030.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.2.37.01
- Maṇḍala · Anuvāka · Ṛk
- 08.04.183
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Manu Vaivasvata
- Chandas छन्दस्
- Gāyatrī, Pura-Uṣṇih, Bṛhatī, Anuṣṭubh
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.