Sūkta 13
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nārada Kāṇva
- Chandas छन्दस्
- Uṣṇih
Metres by ṛk
1st set of styles uṣṇik (2-4, 6, 7, 9, 10, 12, 13, 15-18, 20, 23-25, 28, 29, 32, 33); nicṛduṣṇik (1, 5, 8, 11, 14, 19, 21, 22, 26, 27, 31); virāḍārṣyuṣṇik (30)
2nd set of styles uṣṇih
-
Ṛk 1
इंद्रः॑ सु॒तेषु॒ सोमे॑षु॒ क्रतुं॑ पुनीत उ॒क्थ्यं॑ ।
वि॒दे वृ॒धस्य॒ दक्ष॑सो म॒हान्हि षः ॥इन्द्रः सुतेषु सोमेषु क्रतुम् पुनीत उक्थ्यम् |
विदे वृधस्य दक्षसो महान् हि षः ||índraḥ sutéṣu sómeṣu krátum punīta ukthyám ǀ
vidé vṛdhásya dákṣaso mahā́nhí ṣáḥ ǁindraḥ suteṣu someṣu kratum punīta ukthyam |
vide vṛdhasya dakṣaso mahān hi ṣaḥ ||इन्द्रः॑ । सु॒तेषु॑ । सोमे॑षु । क्रतु॑म् । पु॒नी॒ते॒ । उ॒क्थ्य॑म् ।
वि॒दे । वृ॒धस्य॑ । दक्ष॑सः । म॒हान् । हि । सः ॥इन्द्रः । सुतेषु । सोमेषु । क्रतुम् । पुनीते । उक्थ्यम् ।
विदे । वृधस्य । दक्षसः । महान् । हि । सः ॥índraḥ ǀ sutéṣu ǀ sómeṣu ǀ krátum ǀ punīte ǀ ukthyám ǀ
vidé ǀ vṛdhásya ǀ dákṣasaḥ ǀ mahā́n ǀ hí ǀ sáḥ ǁindraḥ ǀ suteṣu ǀ someṣu ǀ kratum ǀ punīte ǀ ukthyam ǀ
vide ǀ vṛdhasya ǀ dakṣasaḥ ǀ mahān ǀ hi ǀ saḥ ǁ8.13.1 Aṣṭaka 6.1.7.1Anuvāka 8.3.1
-
Ṛk 2
स प्र॑थ॒मे व्यो॑मनि दे॒वानां॒ सद॑ने वृ॒धः ।
सु॒पा॒रः सु॒श्रव॑स्तमः॒ सम॑प्सु॒जित् ॥स प्रथमे व्योमनि देवानां सदने वृधः |
सुपारः सुश्रवस्तमः सम् अप्सुजित् ||sá prathamé vyómani devā́nām sádane vṛdháḥ ǀ
supāráḥ suśrávastamaḥ sámapsujít ǁsa prathame vyomani devānāṃ sadane vṛdhaḥ |
supāraḥ suśravastamaḥ sam apsujit ||सः । प्र॒थ॒मे । विऽओ॑मनि । दे॒वाना॑म् । सद॑ने । वृ॒धः ।
सु॒ऽपा॒रः । सु॒श्रवः॑ऽतमः । सम् । अ॒प्सु॒ऽजित् ॥सः । प्रथमे । विऽओमनि । देवानाम् । सदने । वृधः ।
सुऽपारः । सुश्रवःऽतमः । सम् । अप्सुऽजित् ॥sáḥ ǀ prathamé ǀ ví-omani ǀ devā́nām ǀ sádane ǀ vṛdháḥ ǀ
su-pāráḥ ǀ suśrávaḥ-tamaḥ ǀ sám ǀ apsu-jít ǁsaḥ ǀ prathame ǀ vi-omani ǀ devānām ǀ sadane ǀ vṛdhaḥ ǀ
su-pāraḥ ǀ suśravaḥ-tamaḥ ǀ sam ǀ apsu-jit ǁ8.13.2 Aṣṭaka 6.1.7.2Anuvāka 8.3.2
-
Ṛk 3
तम॑ह्वे॒ वाज॑सातय॒ इंद्रं॒ भरा॑य शु॒ष्मिणं॑ ।
भवा॑ नः सु॒म्ने अंत॑मः॒ सखा॑ वृ॒धे ॥तम् अह्वे वाजसातय इन्द्रम् भराय शुष्मिणम् |
भवा नः सुम्ने अन्तमः सखा वृधे ||támahve vā́jasātaya índram bhárāya śuṣmíṇam ǀ
bhávā naḥ sumné ántamaḥ sákhā vṛdhé ǁtam ahve vājasātaya indram bharāya śuṣmiṇam |
bhavā naḥ sumne antamaḥ sakhā vṛdhe ||तम् । अ॒ह्वे॒ । वाज॑ऽसातये । इन्द्र॑म् । भरा॑य । शु॒ष्मिण॑म् ।
भव॑ । नः॒ । सु॒म्ने । अन्त॑मः । सखा॑ । वृ॒धे ॥तम् । अह्वे । वाजऽसातये । इन्द्रम् । भराय । शुष्मिणम् ।
भव । नः । सुम्ने । अन्तमः । सखा । वृधे ॥tám ǀ ahve ǀ vā́ja-sātaye ǀ índram ǀ bhárāya ǀ śuṣmíṇam ǀ
bháva ǀ naḥ ǀ sumné ǀ ántamaḥ ǀ sákhā ǀ vṛdhé ǁtam ǀ ahve ǀ vāja-sātaye ǀ indram ǀ bharāya ǀ śuṣmiṇam ǀ
bhava ǀ naḥ ǀ sumne ǀ antamaḥ ǀ sakhā ǀ vṛdhe ǁ8.13.3 Aṣṭaka 6.1.7.3Anuvāka 8.3.3
-
Ṛk 4
इ॒यं त॑ इंद्र गिर्वणो रा॒तिः क्ष॑रति सुन्व॒तः ।
मं॒दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः |
मन्दानो अस्य बर्हिषो वि राजसि ||iyám ta indra girvaṇo rātíḥ kṣarati sunvatáḥ ǀ
mandānó asyá barhíṣo ví rājasi ǁiyaṃ ta indra girvaṇo rātiḥ kṣarati sunvataḥ |
mandāno asya barhiṣo vi rājasi ||इ॒यम् । ते॒ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । रा॒तिः । क्ष॒र॒ति॒ । सु॒न्व॒तः ।
म॒न्दा॒नः । अ॒स्य । ब॒र्हिषः॑ । वि । रा॒ज॒सि॒ ॥इयम् । ते । इन्द्र । गिर्वणः । रातिः । क्षरति । सुन्वतः ।
मन्दानः । अस्य । बर्हिषः । वि । राजसि ॥iyám ǀ te ǀ indra ǀ girvaṇaḥ ǀ rātíḥ ǀ kṣarati ǀ sunvatáḥ ǀ
mandānáḥ ǀ asyá ǀ barhíṣaḥ ǀ ví ǀ rājasi ǁiyam ǀ te ǀ indra ǀ girvaṇaḥ ǀ rātiḥ ǀ kṣarati ǀ sunvataḥ ǀ
mandānaḥ ǀ asya ǀ barhiṣaḥ ǀ vi ǀ rājasi ǁ8.13.4 Aṣṭaka 6.1.7.4Anuvāka 8.3.4
-
Ṛk 5
नू॒नं तदिं॑द्र दद्धि नो॒ यत्त्वा॑ सु॒न्वंत॒ ईम॑हे ।
र॒यिं न॑श्चि॒त्रमा भ॑रा स्व॒र्विदं॑ ॥नूनं तद् इन्द्र दद्धि नो यत् त्वा सुन्वन्त ईमहे |
रयिं नश् चित्रम् आ भरा स्वर्विदम् ||nūnám tádindra daddhi no yáttvā sunvánta ī́mahe ǀ
rayím naścitrámā́ bharā svarvídam ǁnūnaṃ tad indra daddhi no yat tvā sunvanta īmahe |
rayiṃ naś citram ā bharā svarvidam ||नू॒नम् । तत् । इ॒न्द्र॒ । द॒द्धि॒ । नः॒ । यत् । त्वा॒ । सु॒न्वन्तः॑ । ईम॑हे ।
र॒यिम् । नः॒ । चि॒त्रम् । आ । भ॒र॒ । स्वः॒ऽविद॑म् ॥नूनम् । तत् । इन्द्र । दद्धि । नः । यत् । त्वा । सुन्वन्तः । ईमहे ।
रयिम् । नः । चित्रम् । आ । भर । स्वःऽविदम् ॥nūnám ǀ tát ǀ indra ǀ daddhi ǀ naḥ ǀ yát ǀ tvā ǀ sunvántaḥ ǀ ī́mahe ǀ
rayím ǀ naḥ ǀ citrám ǀ ā́ ǀ bhara ǀ svaḥ-vídam ǁnūnam ǀ tat ǀ indra ǀ daddhi ǀ naḥ ǀ yat ǀ tvā ǀ sunvantaḥ ǀ īmahe ǀ
rayim ǀ naḥ ǀ citram ǀ ā ǀ bhara ǀ svaḥ-vidam ǁ8.13.5 Aṣṭaka 6.1.7.5Anuvāka 8.3.5
-
Ṛk 6
स्तो॒ता यत्ते॒ विच॑र्षणिरतिप्रश॒र्धय॒द्गिरः॑ ।
व॒या इ॒वानु॑ रोहते जु॒षंत॒ यत् ॥स्तोता यत् ते विचर्षणिर् अतिप्रशर्धयद् गिरः |
वया इवानु रोहते जुषन्त यत् ||stotā́ yátte vícarṣaṇiratipraśardháyadgíraḥ ǀ
vayā́ ivā́nu rohate juṣánta yát ǁstotā yat te vicarṣaṇir atipraśardhayad giraḥ |
vayā ivānu rohate juṣanta yat ||स्तो॒ता । यत् । ते॒ । विऽच॑र्षणिः । अ॒ति॒ऽप्र॒श॒र्धय॑त् । गिरः॑ ।
व॒याःऽइ॑व । अनु॑ । रो॒ह॒ते॒ । जु॒षन्त॑ । यत् ॥स्तोता । यत् । ते । विऽचर्षणिः । अतिऽप्रशर्धयत् । गिरः ।
वयाःऽइव । अनु । रोहते । जुषन्त । यत् ॥stotā́ ǀ yát ǀ te ǀ ví-carṣaṇiḥ ǀ ati-praśardháyat ǀ gíraḥ ǀ
vayā́ḥ-iva ǀ ánu ǀ rohate ǀ juṣánta ǀ yát ǁstotā ǀ yat ǀ te ǀ vi-carṣaṇiḥ ǀ ati-praśardhayat ǀ giraḥ ǀ
vayāḥ-iva ǀ anu ǀ rohate ǀ juṣanta ǀ yat ǁ8.13.6 Aṣṭaka 6.1.8.1Anuvāka 8.3.6
-
Ṛk 7
प्र॒त्न॒वज्ज॑नया॒ गिरः॑ शृणु॒धी ज॑रि॒तुर्हवं॑ ।
मदे॑मदे ववक्षिथा सु॒कृत्व॑ने ॥प्रत्नवज् जनया गिरः शृणुधी जरितुर् हवम् |
मदे-मदे ववक्षिथा सुकृत्वने ||pratnavájjanayā gíraḥ śṛṇudhī́ jaritúrhávam ǀ
mádemade vavakṣithā sukṛ́tvane ǁpratnavaj janayā giraḥ śṛṇudhī jaritur havam |
made-made vavakṣithā sukṛtvane ||प्र॒त्न॒ऽवत् । ज॒न॒य॒ । गिरः॑ । शृ॒णु॒धि । ज॒रि॒तुः । हव॑म् ।
मदे॑ऽमदे । व॒व॒क्षि॒थ॒ । सु॒ऽकृत्व॑ने ॥प्रत्नऽवत् । जनय । गिरः । शृणुधि । जरितुः । हवम् ।
मदेऽमदे । ववक्षिथ । सुऽकृत्वने ॥pratna-vát ǀ janaya ǀ gíraḥ ǀ śṛṇudhí ǀ jaritúḥ ǀ hávam ǀ
máde-made ǀ vavakṣitha ǀ su-kṛ́tvane ǁpratna-vat ǀ janaya ǀ giraḥ ǀ śṛṇudhi ǀ jarituḥ ǀ havam ǀ
made-made ǀ vavakṣitha ǀ su-kṛtvane ǁ8.13.7 Aṣṭaka 6.1.8.2Anuvāka 8.3.7
-
Ṛk 8
क्रीळं॑त्यस्य सू॒नृता॒ आपो॒ न प्र॒वता॑ य॒तीः ।
अ॒या धि॒या य उ॒च्यते॒ पति॑र्दि॒वः ॥क्रीऌअन्त्य् अस्य सूनृता आपो न प्रवता यतीः |
अया धिया य उच्यते पतिर् दिवः ||krī́ḷantyasya sūnṛ́tā ā́po ná pravátā yatī́ḥ ǀ
ayā́ dhiyā́ yá ucyáte pátirdiváḥ ǁkrīḷanty asya sūnṛtā āpo na pravatā yatīḥ |
ayā dhiyā ya ucyate patir divaḥ ||क्रीळ॑न्ति । अ॒स्य॒ । सू॒नृताः॑ । आपः॑ । न । प्र॒ऽवता॑ । य॒तीः ।
अ॒या । धि॒या । यः । उ॒च्यते॑ । पतिः॑ । दि॒वः ॥क्रीळन्ति । अस्य । सूनृताः । आपः । न । प्रऽवता । यतीः ।
अया । धिया । यः । उच्यते । पतिः । दिवः ॥krī́ḷanti ǀ asya ǀ sūnṛ́tāḥ ǀ ā́paḥ ǀ ná ǀ pra-vátā ǀ yatī́ḥ ǀ
ayā́ ǀ dhiyā́ ǀ yáḥ ǀ ucyáte ǀ pátiḥ ǀ diváḥ ǁkrīḷanti ǀ asya ǀ sūnṛtāḥ ǀ āpaḥ ǀ na ǀ pra-vatā ǀ yatīḥ ǀ
ayā ǀ dhiyā ǀ yaḥ ǀ ucyate ǀ patiḥ ǀ divaḥ ǁ8.13.8 Aṣṭaka 6.1.8.3Anuvāka 8.3.8
-
Ṛk 9
उ॒तो पति॒र्य उ॒च्यते॑ कृष्टी॒नामेक॒ इद्व॒शी ।
न॒मो॒वृ॒धैर॑व॒स्युभिः॑ सु॒ते र॑ण ॥उतो पतिर् य उच्यते कृष्टीनाम् एक इद् वशी |
नमोवृधैर् अवस्युभिः सुते रण ||utó pátiryá ucyáte kṛṣṭīnā́méka ídvaśī́ ǀ
namovṛdháiravasyúbhiḥ suté raṇa ǁuto patir ya ucyate kṛṣṭīnām eka id vaśī |
namovṛdhair avasyubhiḥ sute raṇa ||उ॒तो इति॑ । पतिः॑ । यः । उ॒च्यते॑ । कृ॒ष्टी॒नाम् । एकः॑ । इत् । व॒शी ।
न॒मः॒ऽवृ॒धैः । अ॒व॒स्युऽभिः॑ । सु॒ते । र॒ण॒ ॥उतो इति । पतिः । यः । उच्यते । कृष्टीनाम् । एकः । इत् । वशी ।
नमःऽवृधैः । अवस्युऽभिः । सुते । रण ॥utó íti ǀ pátiḥ ǀ yáḥ ǀ ucyáte ǀ kṛṣṭīnā́m ǀ ékaḥ ǀ ít ǀ vaśī́ ǀ
namaḥ-vṛdháiḥ ǀ avasyú-bhiḥ ǀ suté ǀ raṇa ǁuto iti ǀ patiḥ ǀ yaḥ ǀ ucyate ǀ kṛṣṭīnām ǀ ekaḥ ǀ it ǀ vaśī ǀ
namaḥ-vṛdhaiḥ ǀ avasyu-bhiḥ ǀ sute ǀ raṇa ǁ8.13.9 Aṣṭaka 6.1.8.4Anuvāka 8.3.9
-
Ṛk 10
स्तु॒हि श्रु॒तं वि॑प॒श्चितं॒ हरी॒ यस्य॑ प्रस॒क्षिणा॑ ।
गंता॑रा दा॒शुषो॑ गृ॒हं न॑म॒स्विनः॑ ॥स्तुहि श्रुतं विपश्चितं हरी यस्य प्रसक्षिणा |
गन्तारा दाशुषो गृहं नमस्विनः ||stuhí śrutám vipaścítam hárī yásya prasakṣíṇā ǀ
gántārā dāśúṣo gṛhám namasvínaḥ ǁstuhi śrutaṃ vipaścitaṃ harī yasya prasakṣiṇā |
gantārā dāśuṣo gṛhaṃ namasvinaḥ ||स्तु॒हि । श्रु॒तम् । वि॒पः॒ऽचित॑म् । हरी॒ इति॑ । यस्य॑ । प्र॒ऽस॒क्षिणा॑ ।
गन्ता॑रा । दा॒शुषः॑ । गृ॒हम् । न॒म॒स्विनः॑ ॥स्तुहि । श्रुतम् । विपःऽचितम् । हरी इति । यस्य । प्रऽसक्षिणा ।
गन्तारा । दाशुषः । गृहम् । नमस्विनः ॥stuhí ǀ śrutám ǀ vipaḥ-cítam ǀ hárī íti ǀ yásya ǀ pra-sakṣíṇā ǀ
gántārā ǀ dāśúṣaḥ ǀ gṛhám ǀ namasvínaḥ ǁstuhi ǀ śrutam ǀ vipaḥ-citam ǀ harī iti ǀ yasya ǀ pra-sakṣiṇā ǀ
gantārā ǀ dāśuṣaḥ ǀ gṛham ǀ namasvinaḥ ǁ8.13.10 Aṣṭaka 6.1.8.5Anuvāka 8.3.10
-
Ṛk 11
तू॒तु॒जा॒नो म॑हेम॒तेऽश्वे॑भिः प्रुषि॒तप्सु॑भिः ।
आ या॑हि य॒ज्ञमा॒शुभिः॒ शमिद्धि ते॑ ॥तूतुजानो महेमते ऽश्वेभिः प्रुषितप्सुभिः |
आ याहि यज्ञम् आशुभिः शम् इद् धि ते ||tūtujānó mahematé’śvebhiḥ pruṣitápsubhiḥ ǀ
ā́ yāhi yajñámāśúbhiḥ śámíddhí te ǁtūtujāno mahemate 'śvebhiḥ pruṣitapsubhiḥ |
ā yāhi yajñam āśubhiḥ śam id dhi te ||तू॒तु॒जा॒नः । म॒हे॒ऽम॒ते॒ । अश्वे॑भिः । प्रु॒षि॒तप्सु॑ऽभिः ।
आ । या॒हि॒ । य॒ज्ञम् । आ॒शुऽभिः॑ । शम् । इत् । हि । ते॒ ॥तूतुजानः । महेऽमते । अश्वेभिः । प्रुषितप्सुऽभिः ।
आ । याहि । यज्ञम् । आशुऽभिः । शम् । इत् । हि । ते ॥tūtujānáḥ ǀ mahe-mate ǀ áśvebhiḥ ǀ pruṣitápsu-bhiḥ ǀ
ā́ ǀ yāhi ǀ yajñám ǀ āśú-bhiḥ ǀ śám ǀ ít ǀ hí ǀ te ǁtūtujānaḥ ǀ mahe-mate ǀ aśvebhiḥ ǀ pruṣitapsu-bhiḥ ǀ
ā ǀ yāhi ǀ yajñam ǀ āśu-bhiḥ ǀ śam ǀ it ǀ hi ǀ te ǁ8.13.11 Aṣṭaka 6.1.9.1Anuvāka 8.3.11
-
Ṛk 12
इंद्र॑ शविष्ठ सत्पते र॒यिं गृ॒णत्सु॑ धारय ।
श्रवः॑ सू॒रिभ्यो॑ अ॒मृतं॑ वसुत्व॒नं ॥इन्द्र शविष्ठ सत्पते रयिं गृणत्सु धारय |
श्रवः सूरिभ्यो अमृतं वसुत्वनम् ||índra śaviṣṭha satpate rayím gṛṇátsu dhāraya ǀ
śrávaḥ sūríbhyo amṛ́tam vasutvanám ǁindra śaviṣṭha satpate rayiṃ gṛṇatsu dhāraya |
śravaḥ sūribhyo amṛtaṃ vasutvanam ||इन्द्र॑ । श॒वि॒ष्ठ॒ । स॒त्ऽप॒ते॒ । र॒यिम् । गृ॒णत्ऽसु॑ । धा॒र॒य॒ ।
श्रवः॑ । सू॒रिऽभ्यः॑ । अ॒मृत॑म् । व॒सु॒ऽत्व॒नम् ॥इन्द्र । शविष्ठ । सत्ऽपते । रयिम् । गृणत्ऽसु । धारय ।
श्रवः । सूरिऽभ्यः । अमृतम् । वसुऽत्वनम् ॥índra ǀ śaviṣṭha ǀ sat-pate ǀ rayím ǀ gṛṇát-su ǀ dhāraya ǀ
śrávaḥ ǀ sūrí-bhyaḥ ǀ amṛ́tam ǀ vasu-tvanám ǁindra ǀ śaviṣṭha ǀ sat-pate ǀ rayim ǀ gṛṇat-su ǀ dhāraya ǀ
śravaḥ ǀ sūri-bhyaḥ ǀ amṛtam ǀ vasu-tvanam ǁ8.13.12 Aṣṭaka 6.1.9.2Anuvāka 8.3.12
-
Ṛk 13
हवे॑ त्वा॒ सूर॒ उदि॑ते॒ हवे॑ म॒ध्यंदि॑ने दि॒वः ।
जु॒षा॒ण इं॑द्र॒ सप्ति॑भिर्न॒ आ ग॑हि ॥हवे त्वा सूर उदिते हवे मध्यन्दिने दिवः |
जुषाण इन्द्र सप्तिभिर् न आ गहि ||háve tvā sū́ra údite háve madhyáṃdine diváḥ ǀ
juṣāṇá indra sáptibhirna ā́ gahi ǁhave tvā sūra udite have madhyandine divaḥ |
juṣāṇa indra saptibhir na ā gahi ||हवे॑ । त्वा॒ । सूरे॑ । उत्ऽइ॑ते । हवे॑ । म॒ध्यन्दि॑ने । दि॒वः ।
जु॒षा॒णः । इ॒न्द्र॒ । सप्ति॑ऽभिः । नः॒ । आ । ग॒हि॒ ॥हवे । त्वा । सूरे । उत्ऽइते । हवे । मध्यन्दिने । दिवः ।
जुषाणः । इन्द्र । सप्तिऽभिः । नः । आ । गहि ॥háve ǀ tvā ǀ sū́re ǀ út-ite ǀ háve ǀ madhyándine ǀ diváḥ ǀ
juṣāṇáḥ ǀ indra ǀ sápti-bhiḥ ǀ naḥ ǀ ā́ ǀ gahi ǁhave ǀ tvā ǀ sūre ǀ ut-ite ǀ have ǀ madhyandine ǀ divaḥ ǀ
juṣāṇaḥ ǀ indra ǀ sapti-bhiḥ ǀ naḥ ǀ ā ǀ gahi ǁ8.13.13 Aṣṭaka 6.1.9.3Anuvāka 8.3.13
-
Ṛk 14
आ तू ग॑हि॒ प्र तु द्र॑व॒ मत्स्वा॑ सु॒तस्य॒ गोम॑तः ।
तंतुं॑ तनुष्व पू॒र्व्यं यथा॑ वि॒दे ॥आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः |
तन्तुं तनुष्व पूर्व्यं यथा विदे ||ā́ tū́ gahi prá tú drava mátsvā sutásya gómataḥ ǀ
tántum tanuṣva pūrvyám yáthā vidé ǁā tū gahi pra tu drava matsvā sutasya gomataḥ |
tantuṃ tanuṣva pūrvyaṃ yathā vide ||आ । तु । ग॒हि॒ । प्र । तु । द्र॒व॒ । मत्स्व॑ । सु॒तस्य॑ । गोऽम॑तः ।
तन्तु॑म् । त॒नु॒ष्व॒ । पू॒र्व्यम् । यथा॑ । वि॒दे ॥आ । तु । गहि । प्र । तु । द्रव । मत्स्व । सुतस्य । गोऽमतः ।
तन्तुम् । तनुष्व । पूर्व्यम् । यथा । विदे ॥ā́ ǀ tú ǀ gahi ǀ prá ǀ tú ǀ drava ǀ mátsva ǀ sutásya ǀ gó-mataḥ ǀ
tántum ǀ tanuṣva ǀ pūrvyám ǀ yáthā ǀ vidé ǁā ǀ tu ǀ gahi ǀ pra ǀ tu ǀ drava ǀ matsva ǀ sutasya ǀ go-mataḥ ǀ
tantum ǀ tanuṣva ǀ pūrvyam ǀ yathā ǀ vide ǁ8.13.14 Aṣṭaka 6.1.9.4Anuvāka 8.3.14
-
Ṛk 15
यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् ।
यद्वा॑ समु॒द्रे अंध॑सोऽवि॒तेद॑सि ॥यच् छक्रासि परावति यद् अर्वावति वृत्रहन् |
यद् वा समुद्रे अन्धसो ऽवितेद् असि ||yácchakrā́si parāváti yádarvāváti vṛtrahan ǀ
yádvā samudré ándhaso’vitédasi ǁyac chakrāsi parāvati yad arvāvati vṛtrahan |
yad vā samudre andhaso 'vited asi ||यत् । श॒क्र॒ । असि॑ । प॒रा॒ऽवति॑ । यत् । अ॒र्वा॒ऽवति॑ । वृ॒त्र॒ऽह॒न् ।
यत् । वा॒ । स॒मु॒द्रे । अन्ध॑सः । अ॒वि॒ता । इत् । अ॒सि॒ ॥यत् । शक्र । असि । पराऽवति । यत् । अर्वाऽवति । वृत्रऽहन् ।
यत् । वा । समुद्रे । अन्धसः । अविता । इत् । असि ॥yát ǀ śakra ǀ ási ǀ parā-váti ǀ yát ǀ arvā-váti ǀ vṛtra-han ǀ
yát ǀ vā ǀ samudré ǀ ándhasaḥ ǀ avitā́ ǀ ít ǀ asi ǁyat ǀ śakra ǀ asi ǀ parā-vati ǀ yat ǀ arvā-vati ǀ vṛtra-han ǀ
yat ǀ vā ǀ samudre ǀ andhasaḥ ǀ avitā ǀ it ǀ asi ǁ8.13.15 Aṣṭaka 6.1.9.5Anuvāka 8.3.15
-
Ṛk 16
इंद्रं॑ वर्धंतु नो॒ गिर॒ इंद्रं॑ सु॒तास॒ इंद॑वः ।
इंद्रे॑ ह॒विष्म॑ती॒र्विशो॑ अराणिषुः ॥इन्द्रं वर्धन्तु नो गिर इन्द्रं सुतास इन्दवः |
इन्द्रे हविष्मतीर् विशो अराणिषुः ||índram vardhantu no gíra índram sutā́sa índavaḥ ǀ
índre havíṣmatīrvíśo arāṇiṣuḥ ǁindraṃ vardhantu no gira indraṃ sutāsa indavaḥ |
indre haviṣmatīr viśo arāṇiṣuḥ ||इन्द्र॑म् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । इन्द्र॑म् । सु॒तासः॑ । इन्द॑वः ।
इन्द्रे॑ । ह॒विष्म॑तीः । विशः॑ । अ॒रा॒णि॒षुः॒ ॥इन्द्रम् । वर्धन्तु । नः । गिरः । इन्द्रम् । सुतासः । इन्दवः ।
इन्द्रे । हविष्मतीः । विशः । अराणिषुः ॥índram ǀ vardhantu ǀ naḥ ǀ gíraḥ ǀ índram ǀ sutā́saḥ ǀ índavaḥ ǀ
índre ǀ havíṣmatīḥ ǀ víśaḥ ǀ arāṇiṣuḥ ǁindram ǀ vardhantu ǀ naḥ ǀ giraḥ ǀ indram ǀ sutāsaḥ ǀ indavaḥ ǀ
indre ǀ haviṣmatīḥ ǀ viśaḥ ǀ arāṇiṣuḥ ǁ8.13.16 Aṣṭaka 6.1.10.1Anuvāka 8.3.16
-
Ṛk 17
तमिद्विप्रा॑ अव॒स्यवः॑ प्र॒वत्व॑तीभिरू॒तिभिः॑ ।
इंद्रं॑ क्षो॒णीर॑वर्धयन्व॒या इ॑व ॥तम् इद् विप्रा अवस्यवः प्रवत्वतीभिर् ऊतिभिः |
इन्द्रं क्षोणीर् अवर्धयन् वया इव ||támídvíprā avasyávaḥ pravátvatībhirūtíbhiḥ ǀ
índram kṣoṇī́ravardhayanvayā́ iva ǁtam id viprā avasyavaḥ pravatvatībhir ūtibhiḥ |
indraṃ kṣoṇīr avardhayan vayā iva ||तम् । इत् । विप्राः॑ । अ॒व॒स्यवः॑ । प्र॒वत्व॑तीभिः । ऊ॒तिऽभिः॑ ।
इन्द्र॑म् । क्षो॒णीः । अ॒व॒र्ध॒य॒न् । व॒याःऽइ॑व ॥तम् । इत् । विप्राः । अवस्यवः । प्रवत्वतीभिः । ऊतिऽभिः ।
इन्द्रम् । क्षोणीः । अवर्धयन् । वयाःऽइव ॥tám ǀ ít ǀ víprāḥ ǀ avasyávaḥ ǀ pravátvatībhiḥ ǀ ūtí-bhiḥ ǀ
índram ǀ kṣoṇī́ḥ ǀ avardhayan ǀ vayā́ḥ-iva ǁtam ǀ it ǀ viprāḥ ǀ avasyavaḥ ǀ pravatvatībhiḥ ǀ ūti-bhiḥ ǀ
indram ǀ kṣoṇīḥ ǀ avardhayan ǀ vayāḥ-iva ǁ8.13.17 Aṣṭaka 6.1.10.2Anuvāka 8.3.17
-
Ṛk 18
त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत ।
तमिद्व॑र्धंतु नो॒ गिरः॑ स॒दावृ॑धं ॥त्रिकद्रुकेषु चेतनं देवासो यज्ञम् अत्नत |
तम् इद् वर्धन्तु नो गिरः सदावृधम् ||tríkadrukeṣu cétanam devā́so yajñámatnata ǀ
támídvardhantu no gíraḥ sadā́vṛdham ǁtrikadrukeṣu cetanaṃ devāso yajñam atnata |
tam id vardhantu no giraḥ sadāvṛdham ||त्रिऽक॑द्रुकेषु । चेत॑नम् । दे॒वासः॑ । य॒ज्ञम् । अ॒त्न॒त॒ ।
तम् । इत् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । स॒दाऽवृ॑धम् ॥त्रिऽकद्रुकेषु । चेतनम् । देवासः । यज्ञम् । अत्नत ।
तम् । इत् । वर्धन्तु । नः । गिरः । सदाऽवृधम् ॥trí-kadrukeṣu ǀ cétanam ǀ devā́saḥ ǀ yajñám ǀ atnata ǀ
tám ǀ ít ǀ vardhantu ǀ naḥ ǀ gíraḥ ǀ sadā́-vṛdham ǁtri-kadrukeṣu ǀ cetanam ǀ devāsaḥ ǀ yajñam ǀ atnata ǀ
tam ǀ it ǀ vardhantu ǀ naḥ ǀ giraḥ ǀ sadā-vṛdham ǁ8.13.18 Aṣṭaka 6.1.10.3Anuvāka 8.3.18
-
Ṛk 19
स्तो॒ता यत्ते॒ अनु॑व्रत उ॒क्थान्यृ॑तु॒था द॒धे ।
शुचिः॑ पाव॒क उ॑च्यते॒ सो अद्भु॑तः ॥स्तोता यत् ते अनुव्रत उक्थान्य् ऋतुथा दधे |
शुचिः पावक उच्यते सो अद्भुतः ||stotā́ yátte ánuvrata ukthā́nyṛtuthā́ dadhé ǀ
śúciḥ pāvaká ucyate só ádbhutaḥ ǁstotā yat te anuvrata ukthāny ṛtuthā dadhe |
śuciḥ pāvaka ucyate so adbhutaḥ ||स्तो॒ता । यत् । ते॒ । अनु॑ऽव्रतः । उ॒क्थानि॑ । ऋ॒तु॒ऽथा । द॒धे ।
शुचिः॑ । पा॒व॒कः । उ॒च्य॒ते॒ । सः । अद्भु॑तः ॥स्तोता । यत् । ते । अनुऽव्रतः । उक्थानि । ऋतुऽथा । दधे ।
शुचिः । पावकः । उच्यते । सः । अद्भुतः ॥stotā́ ǀ yát ǀ te ǀ ánu-vrataḥ ǀ ukthā́ni ǀ ṛtu-thā́ ǀ dadhé ǀ
śúciḥ ǀ pāvakáḥ ǀ ucyate ǀ sáḥ ǀ ádbhutaḥ ǁstotā ǀ yat ǀ te ǀ anu-vrataḥ ǀ ukthāni ǀ ṛtu-thā ǀ dadhe ǀ
śuciḥ ǀ pāvakaḥ ǀ ucyate ǀ saḥ ǀ adbhutaḥ ǁ8.13.19 Aṣṭaka 6.1.10.4Anuvāka 8.3.19
-
Ṛk 20
तदिद्रु॒द्रस्य॑ चेतति य॒ह्वं प्र॒त्नेषु॒ धाम॑सु ।
मनो॒ यत्रा॒ वि तद्द॒धुर्विचे॑तसः ॥तद् इद् रुद्रस्य चेतति यह्वम् प्रत्नेषु धामसु |
मनो यत्रा वि तद् दधुर् विचेतसः ||tádídrudrásya cetati yahvám pratnéṣu dhā́masu ǀ
máno yátrā ví táddadhúrvícetasaḥ ǁtad id rudrasya cetati yahvam pratneṣu dhāmasu |
mano yatrā vi tad dadhur vicetasaḥ ||तत् । इत् । रु॒द्रस्य॑ । चे॒त॒ति॒ । य॒ह्वम् । प्र॒त्नेषु॑ । धाम॑ऽसु ।
मनः॑ । यत्र॑ । वि । तत् । द॒धुः । विऽचे॑तसः ॥तत् । इत् । रुद्रस्य । चेतति । यह्वम् । प्रत्नेषु । धामऽसु ।
मनः । यत्र । वि । तत् । दधुः । विऽचेतसः ॥tát ǀ ít ǀ rudrásya ǀ cetati ǀ yahvám ǀ pratnéṣu ǀ dhā́ma-su ǀ
mánaḥ ǀ yátra ǀ ví ǀ tát ǀ dadhúḥ ǀ ví-cetasaḥ ǁtat ǀ it ǀ rudrasya ǀ cetati ǀ yahvam ǀ pratneṣu ǀ dhāma-su ǀ
manaḥ ǀ yatra ǀ vi ǀ tat ǀ dadhuḥ ǀ vi-cetasaḥ ǁ8.13.20 Aṣṭaka 6.1.10.5Anuvāka 8.3.20
-
Ṛk 21
यदि॑ मे स॒ख्यमा॒वर॑ इ॒मस्य॑ पा॒ह्यंध॑सः ।
येन॒ विश्वा॒ अति॒ द्विषो॒ अता॑रिम ॥यदि मे सख्यम् आवर इमस्य पाह्य् अन्धसः |
येन विश्वा अति द्विषो अतारिम ||yádi me sakhyámāvára imásya pāhyándhasaḥ ǀ
yéna víśvā áti dvíṣo átārima ǁyadi me sakhyam āvara imasya pāhy andhasaḥ |
yena viśvā ati dviṣo atārima ||यदि॑ । मे॒ । स॒ख्यम् । आ॒ऽवरः॑ । इ॒मस्य॑ । पा॒हि॒ । अन्ध॑सः ।
येन॑ । विश्वाः॑ । अति॑ । द्विषः॑ । अता॑रिम ॥यदि । मे । सख्यम् । आऽवरः । इमस्य । पाहि । अन्धसः ।
येन । विश्वाः । अति । द्विषः । अतारिम ॥yádi ǀ me ǀ sakhyám ǀ ā-váraḥ ǀ imásya ǀ pāhi ǀ ándhasaḥ ǀ
yéna ǀ víśvāḥ ǀ áti ǀ dvíṣaḥ ǀ átārima ǁyadi ǀ me ǀ sakhyam ǀ ā-varaḥ ǀ imasya ǀ pāhi ǀ andhasaḥ ǀ
yena ǀ viśvāḥ ǀ ati ǀ dviṣaḥ ǀ atārima ǁ8.13.21 Aṣṭaka 6.1.11.1Anuvāka 8.3.21
-
Ṛk 22
क॒दा त॑ इंद्र गिर्वणः स्तो॒ता भ॑वाति॒ शंत॑मः ।
क॒दा नो॒ गव्ये॒ अश्व्ये॒ वसौ॑ दधः ॥कदा त इन्द्र गिर्वण स्तोता भवाति शन्तमः |
कदा नो गव्ये अश्व्ये वसौ दधः ||kadā́ ta indra girvaṇaḥ stotā́ bhavāti śáṃtamaḥ ǀ
kadā́ no gávye áśvye vásau dadhaḥ ǁkadā ta indra girvaṇa stotā bhavāti śantamaḥ |
kadā no gavye aśvye vasau dadhaḥ ||क॒दा । ते॒ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । स्तो॒ता । भ॒वा॒ति॒ । शम्ऽत॑मः ।
क॒दा । नः॒ । गव्ये॑ । अश्व्ये॑ । वसौ॑ । द॒धः॒ ॥कदा । ते । इन्द्र । गिर्वणः । स्तोता । भवाति । शम्ऽतमः ।
कदा । नः । गव्ये । अश्व्ये । वसौ । दधः ॥kadā́ ǀ te ǀ indra ǀ girvaṇaḥ ǀ stotā́ ǀ bhavāti ǀ śám-tamaḥ ǀ
kadā́ ǀ naḥ ǀ gávye ǀ áśvye ǀ vásau ǀ dadhaḥ ǁkadā ǀ te ǀ indra ǀ girvaṇaḥ ǀ stotā ǀ bhavāti ǀ śam-tamaḥ ǀ
kadā ǀ naḥ ǀ gavye ǀ aśvye ǀ vasau ǀ dadhaḥ ǁ8.13.22 Aṣṭaka 6.1.11.2Anuvāka 8.3.22
-
Ṛk 23
उ॒त ते॒ सुष्टु॑ता॒ हरी॒ वृष॑णा वहतो॒ रथं॑ ।
अ॒जु॒र्यस्य॑ म॒दिंत॑मं॒ यमीम॑हे ॥उत ते सुष्टुता हरी वृषणा वहतो रथम् |
अजुर्यस्य मदिन्तमं यम् ईमहे ||utá te súṣṭutā hárī vṛ́ṣaṇā vahato rátham ǀ
ajuryásya madíntamam yámī́mahe ǁuta te suṣṭutā harī vṛṣaṇā vahato ratham |
ajuryasya madintamaṃ yam īmahe ||उ॒त । ते॒ । सुऽस्तु॑ता । हरी॒ इति॑ । वृष॑णा । व॒ह॒तः॒ । रथ॑म् ।
अ॒जु॒र्यस्य॑ । म॒दिन्ऽत॑मम् । यम् । ईम॑हे ॥उत । ते । सुऽस्तुता । हरी इति । वृषणा । वहतः । रथम् ।
अजुर्यस्य । मदिन्ऽतमम् । यम् । ईमहे ॥utá ǀ te ǀ sú-stutā ǀ hárī íti ǀ vṛ́ṣaṇā ǀ vahataḥ ǀ rátham ǀ
ajuryásya ǀ madín-tamam ǀ yám ǀ ī́mahe ǁuta ǀ te ǀ su-stutā ǀ harī iti ǀ vṛṣaṇā ǀ vahataḥ ǀ ratham ǀ
ajuryasya ǀ madin-tamam ǀ yam ǀ īmahe ǁ8.13.23 Aṣṭaka 6.1.11.3Anuvāka 8.3.23
-
Ṛk 24
तमी॑महे पुरुष्टु॒तं य॒ह्वं प्र॒त्नाभि॑रू॒तिभिः॑ ।
नि ब॒र्हिषि॑ प्रि॒ये स॑द॒दध॑ द्वि॒ता ॥तम् ईमहे पुरुष्टुतं यह्वम् प्रत्नाभिर् ऊतिभिः |
नि बर्हिषि प्रिये सदद् अध द्विता ||támīmahe puruṣṭutám yahvám pratnā́bhirūtíbhiḥ ǀ
ní barhíṣi priyé sadadádha dvitā́ ǁtam īmahe puruṣṭutaṃ yahvam pratnābhir ūtibhiḥ |
ni barhiṣi priye sadad adha dvitā ||तम् । ई॒म॒हे॒ । पु॒रु॒ऽस्तु॒तम् । य॒ह्वम् । प्र॒त्नाभिः॑ । ऊ॒तिऽभिः॑ ।
नि । ब॒र्हिषि॑ । प्रि॒ये । स॒द॒त् । अध॑ । द्वि॒ता ॥तम् । ईमहे । पुरुऽस्तुतम् । यह्वम् । प्रत्नाभिः । ऊतिऽभिः ।
नि । बर्हिषि । प्रिये । सदत् । अध । द्विता ॥tám ǀ īmahe ǀ puru-stutám ǀ yahvám ǀ pratnā́bhiḥ ǀ ūtí-bhiḥ ǀ
ní ǀ barhíṣi ǀ priyé ǀ sadat ǀ ádha ǀ dvitā́ ǁtam ǀ īmahe ǀ puru-stutam ǀ yahvam ǀ pratnābhiḥ ǀ ūti-bhiḥ ǀ
ni ǀ barhiṣi ǀ priye ǀ sadat ǀ adha ǀ dvitā ǁ8.13.24 Aṣṭaka 6.1.11.4Anuvāka 8.3.24
-
Ṛk 25
वर्ध॑स्वा॒ सु पु॑रुष्टुत॒ ऋषि॑ष्टुताभिरू॒तिभिः॑ ।
धु॒क्षस्व॑ पि॒प्युषी॒मिष॒मवा॑ च नः ॥वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिर् ऊतिभिः |
धुक्षस्व पिप्युषीम् इषम् अवा च नः ||várdhasvā sú puruṣṭuta ṛ́ṣiṣṭutābhirūtíbhiḥ ǀ
dhukṣásva pipyúṣīmíṣamávā ca naḥ ǁvardhasvā su puruṣṭuta ṛṣiṣṭutābhir ūtibhiḥ |
dhukṣasva pipyuṣīm iṣam avā ca naḥ ||वर्ध॑स्व । सु । पु॒रु॒ऽस्तु॒त॒ । ऋषि॑ऽस्तुताभिः । ऊ॒तिऽभिः॑ ।
धु॒क्षस्व॑ । पि॒प्युषी॑म् । इष॑म् । अव॑ । च॒ । नः॒ ॥वर्धस्व । सु । पुरुऽस्तुत । ऋषिऽस्तुताभिः । ऊतिऽभिः ।
धुक्षस्व । पिप्युषीम् । इषम् । अव । च । नः ॥várdhasva ǀ sú ǀ puru-stuta ǀ ṛ́ṣi-stutābhiḥ ǀ ūtí-bhiḥ ǀ
dhukṣásva ǀ pipyúṣīm ǀ íṣam ǀ áva ǀ ca ǀ naḥ ǁvardhasva ǀ su ǀ puru-stuta ǀ ṛṣi-stutābhiḥ ǀ ūti-bhiḥ ǀ
dhukṣasva ǀ pipyuṣīm ǀ iṣam ǀ ava ǀ ca ǀ naḥ ǁ8.13.25 Aṣṭaka 6.1.11.5Anuvāka 8.3.25
-
Ṛk 26
इंद्र॒ त्वम॑वि॒तेद॑सी॒त्था स्तु॑व॒तो अ॑द्रिवः ।
ऋ॒तादि॑यर्मि ते॒ धियं॑ मनो॒युजं॑ ॥इन्द्र त्वम् अवितेद् असीत्था स्तुवतो अद्रिवः |
ऋताद् इयर्मि ते धियम् मनोयुजम् ||índra tvámavitédasītthā́ stuvató adrivaḥ ǀ
ṛtā́diyarmi te dhíyam manoyújam ǁindra tvam avited asītthā stuvato adrivaḥ |
ṛtād iyarmi te dhiyam manoyujam ||इन्द्र॑ । त्वम् । अ॒वि॒ता । इत् । अ॒सि॒ । इ॒त्था । स्तु॒व॒तः । अ॒द्रि॒ऽवः॒ ।
ऋ॒तात् । इ॒य॒र्मि॒ । ते॒ । धिय॑म् । म॒नः॒ऽयुज॑म् ॥इन्द्र । त्वम् । अविता । इत् । असि । इत्था । स्तुवतः । अद्रिऽवः ।
ऋतात् । इयर्मि । ते । धियम् । मनःऽयुजम् ॥índra ǀ tvám ǀ avitā́ ǀ ít ǀ asi ǀ itthā́ ǀ stuvatáḥ ǀ adri-vaḥ ǀ
ṛtā́t ǀ iyarmi ǀ te ǀ dhíyam ǀ manaḥ-yújam ǁindra ǀ tvam ǀ avitā ǀ it ǀ asi ǀ itthā ǀ stuvataḥ ǀ adri-vaḥ ǀ
ṛtāt ǀ iyarmi ǀ te ǀ dhiyam ǀ manaḥ-yujam ǁ8.13.26 Aṣṭaka 6.1.12.1Anuvāka 8.3.26
-
Ṛk 27
इ॒ह त्या स॑ध॒माद्या॑ युजा॒नः सोम॑पीतये ।
हरी॑ इंद्र प्र॒तद्व॑सू अ॒भि स्व॑र ॥इह त्या सधमाद्या युजानः सोमपीतये |
हरी इन्द्र प्रतद्वसू अभि स्वर ||ihá tyā́ sadhamā́dyā yujānáḥ sómapītaye ǀ
hárī indra pratádvasū abhí svara ǁiha tyā sadhamādyā yujānaḥ somapītaye |
harī indra pratadvasū abhi svara ||इ॒ह । त्या । स॒ध॒ऽमाद्या॑ । यु॒जा॒नः । सोम॑ऽपीतये ।
हरी॒ इति॑ । इ॒न्द्र॒ । प्र॒तद्व॑सू॒ इति॑ प्र॒तत्ऽव॑सू । अ॒भि । स्व॒र॒ ॥इह । त्या । सधऽमाद्या । युजानः । सोमऽपीतये ।
हरी इति । इन्द्र । प्रतद्वसू इति प्रतत्ऽवसू । अभि । स्वर ॥ihá ǀ tyā́ ǀ sadha-mā́dyā ǀ yujānáḥ ǀ sóma-pītaye ǀ
hárī íti ǀ indra ǀ pratádvasū íti pratát-vasū ǀ abhí ǀ svara ǁiha ǀ tyā ǀ sadha-mādyā ǀ yujānaḥ ǀ soma-pītaye ǀ
harī iti ǀ indra ǀ pratadvasū iti pratat-vasū ǀ abhi ǀ svara ǁ8.13.27 Aṣṭaka 6.1.12.2Anuvāka 8.3.27
-
Ṛk 28
अ॒भि स्व॑रंतु॒ ये तव॑ रु॒द्रासः॑ सक्षत॒ श्रियं॑ ।
उ॒तो म॒रुत्व॑ती॒र्विशो॑ अ॒भि प्रयः॑ ॥अभि स्वरन्तु ये तव रुद्रासः सक्षत श्रियम् |
उतो मरुत्वतीर् विशो अभि प्रयः ||abhí svarantu yé táva rudrā́saḥ sakṣata śríyam ǀ
utó marútvatīrvíśo abhí práyaḥ ǁabhi svarantu ye tava rudrāsaḥ sakṣata śriyam |
uto marutvatīr viśo abhi prayaḥ ||अ॒भि । स्व॒र॒न्तु॒ । ये । तव॑ । रु॒द्रासः॑ । स॒क्ष॒त॒ । श्रिय॑म् ।
उ॒तो इति॑ । म॒रुत्व॑तीः । विशः॑ । अ॒भि । प्रयः॑ ॥अभि । स्वरन्तु । ये । तव । रुद्रासः । सक्षत । श्रियम् ।
उतो इति । मरुत्वतीः । विशः । अभि । प्रयः ॥abhí ǀ svarantu ǀ yé ǀ táva ǀ rudrā́saḥ ǀ sakṣata ǀ śríyam ǀ
utó íti ǀ marútvatīḥ ǀ víśaḥ ǀ abhí ǀ práyaḥ ǁabhi ǀ svarantu ǀ ye ǀ tava ǀ rudrāsaḥ ǀ sakṣata ǀ śriyam ǀ
uto iti ǀ marutvatīḥ ǀ viśaḥ ǀ abhi ǀ prayaḥ ǁ8.13.28 Aṣṭaka 6.1.12.3Anuvāka 8.3.28
-
Ṛk 29
इ॒मा अ॑स्य॒ प्रतू॑र्तयः प॒दं जु॑षंत॒ यद्दि॒वि ।
नाभा॑ य॒ज्ञस्य॒ सं द॑धु॒र्यथा॑ वि॒दे ॥इमा अस्य प्रतूर्तयः पदं जुषन्त यद् दिवि |
नाभा यज्ञस्य सं दधुर् यथा विदे ||imā́ asya prátūrtayaḥ padám juṣanta yáddiví ǀ
nā́bhā yajñásya sám dadhuryáthā vidé ǁimā asya pratūrtayaḥ padaṃ juṣanta yad divi |
nābhā yajñasya saṃ dadhur yathā vide ||इ॒माः । अ॒स्य॒ । प्रऽतू॑र्तयः । प॒दम् । जु॒ष॒न्त॒ । यत् । दि॒वि ।
नाभा॑ । य॒ज्ञस्य॑ । सम् । द॒धुः॒ । यथा॑ । वि॒दे ॥इमाः । अस्य । प्रऽतूर्तयः । पदम् । जुषन्त । यत् । दिवि ।
नाभा । यज्ञस्य । सम् । दधुः । यथा । विदे ॥imā́ḥ ǀ asya ǀ prá-tūrtayaḥ ǀ padám ǀ juṣanta ǀ yát ǀ diví ǀ
nā́bhā ǀ yajñásya ǀ sám ǀ dadhuḥ ǀ yáthā ǀ vidé ǁimāḥ ǀ asya ǀ pra-tūrtayaḥ ǀ padam ǀ juṣanta ǀ yat ǀ divi ǀ
nābhā ǀ yajñasya ǀ sam ǀ dadhuḥ ǀ yathā ǀ vide ǁ8.13.29 Aṣṭaka 6.1.12.4Anuvāka 8.3.29
-
Ṛk 30
अ॒यं दी॒र्घाय॒ चक्ष॑से॒ प्राचि॑ प्रय॒त्य॑ध्व॒रे ।
मिमी॑ते य॒ज्ञमा॑नु॒षग्वि॒चक्ष्य॑ ॥अयं दीर्घाय चक्षसे प्राचि प्रयत्य् अध्वरे |
मिमीते यज्ञम् आनुषग् विचक्ष्य ||ayám dīrghā́ya cákṣase prā́ci prayatyádhvaré ǀ
mímīte yajñámānuṣágvicákṣya ǁayaṃ dīrghāya cakṣase prāci prayaty adhvare |
mimīte yajñam ānuṣag vicakṣya ||अ॒यम् । दी॒र्घाय॑ । चक्ष॑से । प्राचि॑ । प्र॒ऽय॒ति । अ॒ध्व॒रे ।
मिमी॑ते । य॒ज्ञम् । आ॒नु॒षक् । वि॒ऽचक्ष्य॑ ॥अयम् । दीर्घाय । चक्षसे । प्राचि । प्रऽयति । अध्वरे ।
मिमीते । यज्ञम् । आनुषक् । विऽचक्ष्य ॥ayám ǀ dīrghā́ya ǀ cákṣase ǀ prā́ci ǀ pra-yatí ǀ adhvaré ǀ
mímīte ǀ yajñám ǀ ānuṣák ǀ vi-cákṣya ǁayam ǀ dīrghāya ǀ cakṣase ǀ prāci ǀ pra-yati ǀ adhvare ǀ
mimīte ǀ yajñam ǀ ānuṣak ǀ vi-cakṣya ǁ8.13.30 Aṣṭaka 6.1.12.5Anuvāka 8.3.30
-
Ṛk 31
वृषा॒यमिं॑द्र ते॒ रथ॑ उ॒तो ते॒ वृष॑णा॒ हरी॑ ।
वृषा॒ त्वं श॑तक्रतो॒ वृषा॒ हवः॑ ॥वृषायम् इन्द्र ते रथ उतो ते वृषणा हरी |
वृषा त्वं शतक्रतो वृषा हवः ||vṛ́ṣāyámindra te rátha utó te vṛ́ṣaṇā hárī ǀ
vṛ́ṣā tvám śatakrato vṛ́ṣā hávaḥ ǁvṛṣāyam indra te ratha uto te vṛṣaṇā harī |
vṛṣā tvaṃ śatakrato vṛṣā havaḥ ||वृषा॑ । अ॒यम् । इ॒न्द्र॒ । ते॒ । रथः॑ । उ॒तो इति॑ । ते॒ । वृष॑णा । हरी॒ इति॑ ।
वृषा॑ । त्वम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । वृषा॑ । हवः॑ ॥वृषा । अयम् । इन्द्र । ते । रथः । उतो इति । ते । वृषणा । हरी इति ।
वृषा । त्वम् । शतक्रतो इति शतऽक्रतो । वृषा । हवः ॥vṛ́ṣā ǀ ayám ǀ indra ǀ te ǀ ráthaḥ ǀ utó íti ǀ te ǀ vṛ́ṣaṇā ǀ hárī íti ǀ
vṛ́ṣā ǀ tvám ǀ śatakrato íti śata-krato ǀ vṛ́ṣā ǀ hávaḥ ǁvṛṣā ǀ ayam ǀ indra ǀ te ǀ rathaḥ ǀ uto iti ǀ te ǀ vṛṣaṇā ǀ harī iti ǀ
vṛṣā ǀ tvam ǀ śatakrato iti śata-krato ǀ vṛṣā ǀ havaḥ ǁ8.13.31 Aṣṭaka 6.1.13.1Anuvāka 8.3.31
-
Ṛk 32
वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः ।
वृषा॑ य॒ज्ञो यमिन्व॑सि॒ वृषा॒ हवः॑ ॥वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः |
वृषा यज्ञो यम् इन्वसि वृषा हवः ||vṛ́ṣā grā́vā vṛ́ṣā mádo vṛ́ṣā sómo ayám sutáḥ ǀ
vṛ́ṣā yajñó yámínvasi vṛ́ṣā hávaḥ ǁvṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ |
vṛṣā yajño yam invasi vṛṣā havaḥ ||वृषा॑ । ग्रावा॑ । वृषा॑ । मदः॑ । वृषा॑ । सोमः॑ । अ॒यम् । सु॒तः ।
वृषा॑ । य॒ज्ञः । यम् । इन्व॑सि । वृषा॑ । हवः॑ ॥वृषा । ग्रावा । वृषा । मदः । वृषा । सोमः । अयम् । सुतः ।
वृषा । यज्ञः । यम् । इन्वसि । वृषा । हवः ॥vṛ́ṣā ǀ grā́vā ǀ vṛ́ṣā ǀ mádaḥ ǀ vṛ́ṣā ǀ sómaḥ ǀ ayám ǀ sutáḥ ǀ
vṛ́ṣā ǀ yajñáḥ ǀ yám ǀ ínvasi ǀ vṛ́ṣā ǀ hávaḥ ǁvṛṣā ǀ grāvā ǀ vṛṣā ǀ madaḥ ǀ vṛṣā ǀ somaḥ ǀ ayam ǀ sutaḥ ǀ
vṛṣā ǀ yajñaḥ ǀ yam ǀ invasi ǀ vṛṣā ǀ havaḥ ǁ8.13.32 Aṣṭaka 6.1.13.2Anuvāka 8.3.32
-
Ṛk 33
वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रिं॑चि॒त्राभि॑रू॒तिभिः॑ ।
वा॒वंथ॒ हि प्रति॑ष्टुतिं॒ वृषा॒ हवः॑ ॥वृषा त्वा वृषणं हुवे वज्रिञ् चित्राभिर् ऊतिभिः |
वावन्थ हि प्रतिष्टुतिं वृषा हवः ||vṛ́ṣā tvā vṛ́ṣaṇam huve vájriñcitrā́bhirūtíbhiḥ ǀ
vāvántha hí prátiṣṭutim vṛ́ṣā hávaḥ ǁvṛṣā tvā vṛṣaṇaṃ huve vajriñ citrābhir ūtibhiḥ |
vāvantha hi pratiṣṭutiṃ vṛṣā havaḥ ||वृषा॑ । त्वा॒ । वृष॑णम् । हु॒वे॒ । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ।
व॒वन्थ॑ । हि । प्रति॑ऽस्तुतिम् । वृषा॑ । हवः॑ ॥वृषा । त्वा । वृषणम् । हुवे । वज्रिन् । चित्राभिः । ऊतिऽभिः ।
ववन्थ । हि । प्रतिऽस्तुतिम् । वृषा । हवः ॥vṛ́ṣā ǀ tvā ǀ vṛ́ṣaṇam ǀ huve ǀ vájrin ǀ citrā́bhiḥ ǀ ūtí-bhiḥ ǀ
vavántha ǀ hí ǀ práti-stutim ǀ vṛ́ṣā ǀ hávaḥ ǁvṛṣā ǀ tvā ǀ vṛṣaṇam ǀ huve ǀ vajrin ǀ citrābhiḥ ǀ ūti-bhiḥ ǀ
vavantha ǀ hi ǀ prati-stutim ǀ vṛṣā ǀ havaḥ ǁ8.13.33 Aṣṭaka 6.1.13.3Anuvāka 8.3.33
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.