Ṛk 8.13.26
Saṃhitā
इंद्र॒ त्वम॑वि॒तेद॑सी॒त्था स्तु॑व॒तो अ॑द्रिवः ।
ऋ॒तादि॑यर्मि ते॒ धियं॑ मनो॒युजं॑ ॥
इन्द्र त्वम् अवितेद् असीत्था स्तुवतो अद्रिवः |
ऋताद् इयर्मि ते धियम् मनोयुजम् ||
índra tvámavitédasītthā́ stuvató adrivaḥ ǀ
ṛtā́diyarmi te dhíyam manoyújam ǁ
indra tvam avited asītthā stuvato adrivaḥ |
ṛtād iyarmi te dhiyam manoyujam ||
Padapāṭha
इन्द्र॑ । त्वम् । अ॒वि॒ता । इत् । अ॒सि॒ । इ॒त्था । स्तु॒व॒तः । अ॒द्रि॒ऽवः॒ ।
ऋ॒तात् । इ॒य॒र्मि॒ । ते॒ । धिय॑म् । म॒नः॒ऽयुज॑म् ॥
इन्द्र । त्वम् । अविता । इत् । असि । इत्था । स्तुवतः । अद्रिऽवः ।
ऋतात् । इयर्मि । ते । धियम् । मनःऽयुजम् ॥
índra ǀ tvám ǀ avitā́ ǀ ít ǀ asi ǀ itthā́ ǀ stuvatáḥ ǀ adri-vaḥ ǀ
ṛtā́t ǀ iyarmi ǀ te ǀ dhíyam ǀ manaḥ-yújam ǁ
indra ǀ tvam ǀ avitā ǀ it ǀ asi ǀ itthā ǀ stuvataḥ ǀ adri-vaḥ ǀ
ṛtāt ǀ iyarmi ǀ te ǀ dhiyam ǀ manaḥ-yujam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.013.26
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.12.01
- Maṇḍala · Anuvāka · Ṛk
- 08.03.026
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nārada Kāṇva
- Chandas छन्दस्
- Uṣṇih
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.