Ṛk 8.13.11
Saṃhitā
तू॒तु॒जा॒नो म॑हेम॒तेऽश्वे॑भिः प्रुषि॒तप्सु॑भिः ।
आ या॑हि य॒ज्ञमा॒शुभिः॒ शमिद्धि ते॑ ॥
तूतुजानो महेमते ऽश्वेभिः प्रुषितप्सुभिः |
आ याहि यज्ञम् आशुभिः शम् इद् धि ते ||
tūtujānó mahematé’śvebhiḥ pruṣitápsubhiḥ ǀ
ā́ yāhi yajñámāśúbhiḥ śámíddhí te ǁ
tūtujāno mahemate 'śvebhiḥ pruṣitapsubhiḥ |
ā yāhi yajñam āśubhiḥ śam id dhi te ||
Padapāṭha
तू॒तु॒जा॒नः । म॒हे॒ऽम॒ते॒ । अश्वे॑भिः । प्रु॒षि॒तप्सु॑ऽभिः ।
आ । या॒हि॒ । य॒ज्ञम् । आ॒शुऽभिः॑ । शम् । इत् । हि । ते॒ ॥
तूतुजानः । महेऽमते । अश्वेभिः । प्रुषितप्सुऽभिः ।
आ । याहि । यज्ञम् । आशुऽभिः । शम् । इत् । हि । ते ॥
tūtujānáḥ ǀ mahe-mate ǀ áśvebhiḥ ǀ pruṣitápsu-bhiḥ ǀ
ā́ ǀ yāhi ǀ yajñám ǀ āśú-bhiḥ ǀ śám ǀ ít ǀ hí ǀ te ǁ
tūtujānaḥ ǀ mahe-mate ǀ aśvebhiḥ ǀ pruṣitapsu-bhiḥ ǀ
ā ǀ yāhi ǀ yajñam ǀ āśu-bhiḥ ǀ śam ǀ it ǀ hi ǀ te ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.013.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.09.01
- Maṇḍala · Anuvāka · Ṛk
- 08.03.011
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nārada Kāṇva
- Chandas छन्दस्
- Uṣṇih
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.