Ṛk 8.13.20
Saṃhitā
तदिद्रु॒द्रस्य॑ चेतति य॒ह्वं प्र॒त्नेषु॒ धाम॑सु ।
मनो॒ यत्रा॒ वि तद्द॒धुर्विचे॑तसः ॥
तद् इद् रुद्रस्य चेतति यह्वम् प्रत्नेषु धामसु |
मनो यत्रा वि तद् दधुर् विचेतसः ||
tádídrudrásya cetati yahvám pratnéṣu dhā́masu ǀ
máno yátrā ví táddadhúrvícetasaḥ ǁ
tad id rudrasya cetati yahvam pratneṣu dhāmasu |
mano yatrā vi tad dadhur vicetasaḥ ||
Padapāṭha
तत् । इत् । रु॒द्रस्य॑ । चे॒त॒ति॒ । य॒ह्वम् । प्र॒त्नेषु॑ । धाम॑ऽसु ।
मनः॑ । यत्र॑ । वि । तत् । द॒धुः । विऽचे॑तसः ॥
तत् । इत् । रुद्रस्य । चेतति । यह्वम् । प्रत्नेषु । धामऽसु ।
मनः । यत्र । वि । तत् । दधुः । विऽचेतसः ॥
tát ǀ ít ǀ rudrásya ǀ cetati ǀ yahvám ǀ pratnéṣu ǀ dhā́ma-su ǀ
mánaḥ ǀ yátra ǀ ví ǀ tát ǀ dadhúḥ ǀ ví-cetasaḥ ǁ
tat ǀ it ǀ rudrasya ǀ cetati ǀ yahvam ǀ pratneṣu ǀ dhāma-su ǀ
manaḥ ǀ yatra ǀ vi ǀ tat ǀ dadhuḥ ǀ vi-cetasaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.013.20
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.10.05
- Maṇḍala · Anuvāka · Ṛk
- 08.03.020
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nārada Kāṇva
- Chandas छन्दस्
- Uṣṇih
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.