Ṛk 8.13.15
Saṃhitā
यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् ।
यद्वा॑ समु॒द्रे अंध॑सोऽवि॒तेद॑सि ॥
यच् छक्रासि परावति यद् अर्वावति वृत्रहन् |
यद् वा समुद्रे अन्धसो ऽवितेद् असि ||
yácchakrā́si parāváti yádarvāváti vṛtrahan ǀ
yádvā samudré ándhaso’vitédasi ǁ
yac chakrāsi parāvati yad arvāvati vṛtrahan |
yad vā samudre andhaso 'vited asi ||
Padapāṭha
यत् । श॒क्र॒ । असि॑ । प॒रा॒ऽवति॑ । यत् । अ॒र्वा॒ऽवति॑ । वृ॒त्र॒ऽह॒न् ।
यत् । वा॒ । स॒मु॒द्रे । अन्ध॑सः । अ॒वि॒ता । इत् । अ॒सि॒ ॥
यत् । शक्र । असि । पराऽवति । यत् । अर्वाऽवति । वृत्रऽहन् ।
यत् । वा । समुद्रे । अन्धसः । अविता । इत् । असि ॥
yát ǀ śakra ǀ ási ǀ parā-váti ǀ yát ǀ arvā-váti ǀ vṛtra-han ǀ
yát ǀ vā ǀ samudré ǀ ándhasaḥ ǀ avitā́ ǀ ít ǀ asi ǁ
yat ǀ śakra ǀ asi ǀ parā-vati ǀ yat ǀ arvā-vati ǀ vṛtra-han ǀ
yat ǀ vā ǀ samudre ǀ andhasaḥ ǀ avitā ǀ it ǀ asi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.013.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.09.05
- Maṇḍala · Anuvāka · Ṛk
- 08.03.015
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nārada Kāṇva
- Chandas छन्दस्
- Uṣṇih
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.